Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 469
________________ ४६० तत्त्वार्थश्लोकवार्तिके [सू० ११ सर्वाक्षविषयेष्विष्टानिष्टोपस्थितेष्विह । रागद्वेषौ त्यजाम्येवं पंचमत्तशुद्धये ॥ १॥ इत्यनेकधावधानात् ॥ प्रत्येकमिति पंचानां व्रतानां भावना मताः । पंच पंच सदा संतु निःश्रेयसफलप्रदाः॥२॥ किं पुनरत्र भाव्यं? को वा भावकः? कश्च भावनोपाय इत्याह;भाव्यं निःश्रेयसं भाव्यो भावको भावना पुनः। तदुपाय इति त्र्यंशपूर्णाः स्याद्वादिनां गिरः॥३ . न हि सर्वथैकांतवादिनां भावना भवति । नित्यस्यात्मनो भावकत्वे विरोधः, ततः प्रागभावकस्य शश्वदभावकत्वानुषक्तेः, भावकस्य सर्वदा भावकत्वापत्तेः । तत एव प्रधानस्यापि न भावकत्वमनित्यत्वप्रसंगात् । . नापि क्षणिकैकांते भावकोस्ति, निरन्वयविनाशिनः क्षणादूर्ध्वमवस्थानाभावात् पौनःपुन्येन चित्संतानानामसंभवात् संतानस्याप्यवस्तुत्वात् । ततोनेकांतवादिनामेव भावना युक्ता भावकस्य भव्यस्यात्मनः सिद्धेः सर्वकर्मनिर्मोक्षलक्षणस्य च निःश्रेयसस्य भाव्यस्योपपत्तेः । तदुपायभूतायाः सम्यग्दर्शनादिखभावविशेषात्मिकायाः सत्यभावनायाः प्रसिद्धेः । स्याद्वादिनामेव व्यंशपूर्णा गिरो वेदितव्याः ॥ सकलव्रतस्थैर्यार्थमित्थं च भावना कर्तव्येत्याह; हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥ ९॥ अभ्युदयनिःश्रेयसार्थानां क्रियाणां विनाशकोपायः भयं वा, अवयं च गझै तयोर्दर्शनमवलोकन प्रत्येकं हिंसादिषु भावयितव्यं ॥ कथमित्याहहिंसनादिष्विहापायदर्शनं भावना यथा । मयामुत्र तथावद्यदर्शनं प्रविधीयते ॥१॥ हिंसादिसकलमव्रतं दुःखमेवेति च भावनां व्रतस्थैर्यार्थमाह; दुःखमेव वा ॥ १०॥ दुःखमेवेति कारणे कार्योपचारो अन्नप्राणवत् , कारणकारणे वा धनप्राणवत् । दुःखस्य कारणं ह्यव्रतं हिंसादिकमपायहेतुत्वादिहैव दुःखमित्युपचर्यते, कारणे कारणं वा तदवद्यहेतुहेतुत्वात् तस्य च दुःखफलत्वात् तत्परत्र भावनामात्मसाक्षिकं ॥ ननु चाब्रह्मकर्मामुत्र दुःखमात्मसाक्षिकं तद्धि स्पर्शसुखमेवेति चेन्न, तत्र स्पर्शसुखवेदनाप्रतीकारत्वात् दुःखानुषक्तत्वाच्च दुःखत्वोपपत्तेः ॥ एतदेवाह भावना देहिनां तत्र कर्तव्या दुःखमेव वा । दुःखात्मकभवोद्भूतिहेतुत्वादव्रतं हि तत् ॥ १॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनयेषु॥११॥ हिंसादिविरतिस्थैर्यार्थ भावयितव्यानीति भावनाश्चतस्रोपि वेदितव्याः । परेषां दुःखानुत्पत्त्यभिलाषो मैत्री, वदनप्रसादादिभिरभिव्यज्यमानांतर्भक्तिरनुरागः प्रमोदः, दीनानुग्रहभावः कारुण्यं, रागद्वेषपूर्वकपक्षपाताभावो माध्यस्थ्यं, अनादिकर्मबंधवशात्सीदंतीति सत्त्वाः, सम्यग्ज्ञानादिभिः प्रकृष्टा गुणाधिकाः, असद्वेद्योदयापादितक्लेशाः क्लिश्यमानाः, तत्त्वार्थश्रवणग्रहणाभ्याससंपादितगुणा अविनेयाः । सत्त्वादिषु मैत्र्यादयो यथासंख्यमभिसंबंधनीयाः । ता एता भावनाः सत्यनेकांताश्रयणे संभवंति नान्यथेत्याहमैत्र्यादयो विशुद्ध्यंगाः सत्त्वादिषु यथागमं । भावनाः संभवंत्यंत कांताश्रयणे तु ताः॥१॥ मैत्री सत्त्वेषु कर्तव्या यथा तद्वद्गुणाधिके । क्लिश्यमानेऽविनेये च सत्त्वरूपाविशेषतः ॥ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522