Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 466
________________ ४५७ षष्ठोऽध्यायः। विघ्नकरणमंतरायस्य ।। २७ ॥ दानादिविहननं विघ्नः तस्य करणं दानाद्यंतरायस्यास्रवः प्रत्येयः । कुत इत्याहसर्वस्याप्यंतरायस्यास्रवः स्यात्प्राणिनामिह । विघ्नस्य करणात्तस्य तथायोग्यत्वनिश्चयात् ॥१॥ प्रवर्तमानदानादिप्रतिषेधस्य भावना । आस्राविकांतरायस्य दृष्टतद्भावना यथा ॥२॥ इति करणानुवृत्तेः सर्वत्रानुक्तसंग्रहः । तेन विघ्नकरणजातीयाः क्रियाविशेषाः। प्रभूतखं प्रयच्छति प्रभौ स्वल्पदानोपदेशादयोपि दानाद्यंतरायास्रवाः प्रसिद्धा भवंति । सोयं विचित्रः खोपात्तकर्मवशादात्मनो विकारः शौंडातुरवत् प्रत्येयः । अनुपदिष्टहेतुकत्वात् खयं वानियम इति चेन्न, खभावाभिव्यंजकत्वाच्छास्त्रस्य । तत्सिद्धिरतिशयज्ञानदृष्टत्वात् सर्वविसंवादोपलंभनिवृत्तिः । सर्वेषां प्रवादिनामविसंवाद एव शुभाशुभास्रवहेतुषु यथोपवर्णितेषु । कुत इत्याहइति प्रत्येकमाख्यातः कर्मणामास्रवः शुभः । पुण्यानामशुभः पापरूपाणां शुद्ध्यशुद्धितः ॥३॥ ज्ञानावरणादीनां कर्मणां तत्प्रदोषादयोऽशुभास्रवाः प्राणिनां संक्लेशांगत्वात् , भूतव्रत्यनुकंपादयः सद्वद्यादीनां शुभास्रवा विशुद्ध्यंगत्वान्यथानुपपत्तेरिति प्रमाणसिद्धत्वात् । तत्स्वभावाभिव्यंजकशास्त्रस्य सर्वसंवादः सिद्ध एव । ननु तत्प्रदोषादीनां सर्वास्रवत्वान्नियमाभाव इति चेन्न, अनुभागविशेषनियमोपपत्तेः । प्रकृतिप्रदेशसंबंधनिबंधनो हि सर्वकर्मणां तत्प्रदोषादिः सकलोप्यास्रवो न प्रतिविभिद्यते । यस्त्वनुभागासवः स विशिष्टः प्रोक्तः । अत एव सकलास्रवाध्यायसूत्रितमत्र विशेषात्समुदायतोनुभागापेक्षयैवोपसंहृत्य दर्शयति यादृशाः स्वपरिणामविशेषा यस्य हेतुवशतोऽसुभृतः स्युः । तादृशान्युपपतंति तमग्रे स्वानुभागकरकर्मरजांसि ॥ ४ ॥ ___ इति षष्ठाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे षष्ठोऽध्यायः समाप्तः ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522