Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 464
________________ षष्ठोऽध्यायः । ४५५ सरागसंयम संयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥ २० ॥ व्याख्याताः सरागसंयमादयः । कीदृशानि सरागसंयमादीनि दैवमायुः प्रतिपादयंतीत्याहतस्यैकस्यापि दैवस्यायुषः संप्रतिपत्तये । धर्मध्यानान्वितत्वेन नान्यथातिप्रसंगतः ॥ १ ॥ सम्यक्त्वं च ॥ २१ ॥ अविशेषाभिधानेपि सौधर्मादिविशेषगतिः । पृथक्करणात्सिद्धेः किमर्थश्चशब्द इति चेदुच्यतेसम्यक्त्वं चेति तद्धेतुसमुच्चयवचोबलात् । तस्यैकस्यापि दैवायुः कारणत्वविनिश्चयः ॥ १ ॥ सर्वापवादकं सूत्रं केचिद्याचक्षते सति । सम्यक्त्वे न्यायुषां हेतोर्विफलस्य प्रसिद्धितः ॥ २ ॥ तत्राप्रच्युतसम्यक्त्वा जायंते देवनारकाः । मनुष्येष्विति नैवेदं तद्बाधकमितीतरे ॥ ३ ॥ तन्निःशीलव्रतत्वस्य न बाधकमिदं विदुः । स्यादशेषायुषां हेतुभावसिद्धेः कुतश्चन ॥ ४ ॥ पृथक्सूत्रस्य निर्देशाद्धेतुर्वैमानिकायुषः । सम्यक्त्वमिति विज्ञेयं संयमासंयमादिवत् ॥ ५ ॥ सम्यग्दृष्टेरनंतानुबंधिक्रोधाद्यभावतः । जीवेष्वजीवता श्रद्धापायान्मिथ्यात्वहानितः ॥ ६ ॥ हिंसायास्तत्स्वभावाया निवृत्तेः शुद्धिवृत्तितः । प्रकृष्टस्यायुषो दैवस्यास्रवो न विरुध्यते ॥ ७ ॥ योगवकता विसंवादनं चाशुभस्य नाम्नः ॥ २२ ॥ कायवाङ्मनसां कौटिल्येन वृत्तिर्योगवक्रता, विसंवादनमन्यथा प्रवर्तनं । योगवक्रतैवेति चेत्, सत्यं; किंत्वात्मांतरेपि तद्भावप्रयोजकत्वात्पृथग्वचनं विसंवादनस्य । चशब्दोनुक्तसमुच्चयार्थः तेन तज्जातीय शेषपरिणामपरिग्रहः । कुतोऽशुभस्य नाम्नोयमासव इत्याह नाम्नोशुभस्य हेतुः स्याद्योगानां वक्रता तथा । विसंवादनमन्यस्य संक्केशादात्मभेदतः ॥ १ ॥ तद्विपरीतं शुभस्य ॥ २३ ॥ प्रयोगताऽविसंवादनं च तद्विपरीतं । कुतस्तदखिलं शुभस्य नाम्नः कारणमित्याहततस्तद्विपरीतं यत्किंचित्तत्कारणं विदुः । नाम्नः शुभस्य शुद्धात्म विशेषत्वावसायः ॥ १ ॥ दर्शन विशुद्धिर्विनयसंपन्नता शीलवतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्यकरणमर्हदाचार्यबहुश्रुतप्रवचन भक्तिरावश्यका परिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थंकरत्वस्य ॥ २४ ॥ के पुनर्दर्शनविशुयादय इत्युच्यतेः - Jain Education International ―――― जिनोद्दिष्टेति नैर्ग्रथ्यमोक्षवर्त्मन्यशंकनं । अनाकांक्षणमप्यत्रामुत्र चैतत्फलाप्तये ॥ १ ॥ विचिकित्सान्यदृष्टीनां प्रशंसासंस्तवच्युतिः । मौढ्यादिरहितत्वं च विशुद्धिः सा दृशो मता ॥ २ ॥ संज्ञानादिषु तद्वत्सु वादरोत्थानपेक्षया । कषायविनिवृत्तिर्वा विनयैर्मुनिसंमतैः ॥ ३ ॥ संपन्नता समाख्याता मुमुक्षूणामशेषतः । सद्द्दष्ट्यादिगुणस्थानवर्तिनां खानुरूपतः ॥ ४ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522