Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 460
________________ षष्ठोऽध्यायः। १५१ दुःखात्पृथग्वचनं मोहविशेषोदयापेक्षत्वात् तद्विशेषप्रतिपादनार्थत्वात् पर्यायार्थादेशाद्भेदोपपत्तेश्च नानर्थकमुत्प्रेक्षणीयं, तथैवाक्षेपसमाधानवचनात् । वार्तिककारैर्दुःखजातीयत्वात्सर्वेषां पृथग्वचनमिति न कतिपयविशेषसंबद्धेन जात्याख्यानात् कथंचिदन्यत्वोपपत्तेश्चेति । दुःखादीनां कर्तादिसाधनभावः पर्यायिपर्याययोर्भेदाभेदोपपत्तेः । तयोरभेदे तावदात्मैव दुःखपरिणामात्मको दुःखयतीति दुःखं, भेदे तु दुःखयत्यनेनास्मिन्वा दुःखमिति, सन्मात्रकथने दुःखनं दुःखमिति । शोकादिष्वपि कर्तृकरणाधिकरणभावसाधनत्वं प्रत्येयं, तदेकांतावधारणानुपपन्नमन्यतरैकांतसंग्रहात् । पर्यायैकांते हि दुःखादिचित्तस्य कर्तृत्वसंग्रहः करणादित्वसंग्रहो वा स्यान्न पुनस्तदुभयसंग्रहः । तत्र कर्तृत्वसंग्रहस्तावदयुक्तः करणाद्यभावे तदसंभवात् । मनःकरणं संतानोधिकरणमित्युभयसंग्रहोपि न श्रेयान्, कर्तृकाले स्वयमसतः पूर्व विज्ञानलक्षणस्य मनसः करणत्वायोगात् षण्णामनंतरातीतं विज्ञानं यद्धि तन्मन इति वचनात् । सत्ता न भावा वस्तु ततोधिकरणत्वानुपपत्तेः खरविषाणवत् । चक्षुरादिकरणं शरीरमधिकरणमित्यपि न श्रेयस्तस्यापि तत्काले स्थित्यभावात् । यदि पुनर्दुःखादि चित्तं कर्तृ स्वकार्योत्पादने तत्समानसमयवर्ति चक्षुरादि करणं शरीरमधिकरणं व्यवहारमात्रात् । परमार्थतस्तु न किंचित्कर्तृ करणादि वा भूतिमात्रव्यतिरेकेण भावानां क्रियाकारकत्वायोगात् । भूतिर्येषां क्रिया सैव कारकं सैत्र चोद्यते इति वचनात् । सर्वस्याकर्तृत्वादिव्यावृत्तरेव कर्तृत्वादिव्यवहारणादिति मतं, तदापि न दुःखादिचित्तस्य कर्तुश्चक्षुरादिकरणाधिकरणे तस्य बहिर्भूतरूपादिज्ञानोत्पत्तौ करणत्ववचनात् । नापि मनस्तस्य दुःखादिचित्तसमानकालसंभवात् । ननु रूपादिस्कंधपंचकस्य युगपद्भावाहुःखाद्यनुभवात्मकस्य वेदनास्कंधस्य पूर्वस्य कर्तृत्वमुत्तरदुःखाद्युत्पत्ती तस्यैव वाधिकरणत्वं सर्वस्य खाधिकरणत्वात् । दुःखादिहेतुर्बहिरर्थविज्ञप्तिलक्षणस्य वेदनस्कंधस्य चोत्तरतत्कार्यात्पूर्वकस्य मनोव्यपदेशमर्हतः करणत्वं युक्तमेवेति चेन्न, निरन्वयनष्टस्य कर्तृकरणत्वविरोधात् । खकार्यकाले तदनाशे वा क्षणभंगविघातः । तथैव स्वभावस्य भावस्य खात्मैवाधिकरणमित्यप्यसंभाव्यं, शक्तिवैचित्र्ये सति तस्य तदुपपत्तेः तस्याध्येयत्वशक्त्याधेयताव्यवस्थितेरधिकरणत्वशक्त्या पुनरधिकरणत्वस्थितिः । संवृत्या तदुपपत्तौ परमार्थतो न कर्तादिसिद्धिरिति न दुःखादीनां कर्तादिसाधनत्वं । नित्यत्वैकांतेपि न तत्संगच्छते, निरतिशयात्मनः कर्तृत्वानभ्युपगमात् । केनचित्सहकारिणा ततो भिन्नस्यातिशयस्य करणे तस्य पूर्वकर्तृत्वावस्थातोऽप्रच्युतेः कर्तृत्वविरोधात् । प्रच्युतौ वा नित्यत्वविघातात् तदभिनस्यातिशयस्य करणे तस्यैव कृतेरनित्यतैव स्यात् । कथंचित्तस्य नित्यतायां परमताश्रयणं दुर्निवारं । एतेन प्रधानपरिणामस्य महदादेः करणत्वं प्रत्युक्तं, स्याद्वादानाश्रयणे कस्यचित्परिणामानुपपत्तेः प्रसाधनात् । तत एव नाधिकरणत्वं कर्मता वा तस्येति विचिंतितं । एतेन खतो भिन्नानेकगुणस्यात्मनः कर्तृत्वं व्यवच्छिन्नं, नित्यस्यानादेयाप्रहेयातिशयत्वात् । तत एव न मनसः करणत्वं दुःखाद्युत्पत्तौ सर्वथाप्यनित्यत्वप्रसंगात् । दुःखाधिकरणत्वमप्यात्मनोनुपपन्नं पूर्व तदधिकरणखभावस्यात्यागे तद्विरोधात् , त्यागे नित्यत्वक्षतेः सर्वथापत्तेः । ततोनेकात्मन्येवात्मनि दुःखादीनि संसृतौ संभाव्यते नेतरत्र । तान्यात्मपरोभयस्थानि क्रोधाद्यावेशवशाद्भवंति खघातनवत् खदास्यादिताडनवत् स्वाधमणनिरोधकोत्तमर्णवच्च । असद्वेद्यस्येत्यत्र विद्यादीनामवगमनाद्यर्थत्वादनर्थको निर्देश इति चेन्न, विदेश्चेतनार्थस्य ग्रहणात् विदेश्चेतनार्थे चुरादित्वात्तस्येदं वेद्यते इति वेद्यं न पुनरवगमनलाभविचारणसद्भावार्थानां वेत्तिविंदतिविनत्तिवेत्तीनामन्यतमग्रहणं येनानर्थको निर्देशः स्यात् । तदसद्वेद्यमप्रशस्तत्वादनिष्टफलप्रादुर्भावकारणत्वाच विशिष्यते । असच्च तद्वेद्यं च तदिति । अत्र सूत्रे दुःखाभिधानमादौ प्रधानत्वात् । तस्य प्राधान्यं तद्विकल्प. त्वादितरेषां शोकादीनां । शोकादिग्रहणस्यान्यविकल्पोपलक्षणार्थत्वादन्यसंग्रहः । के पुनस्तेन्ये ? अशुभ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522