Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 459
________________ ४५० तत्त्वार्थश्लोकवार्तिके [सू० ११ यत्प्रदोषादयो ये ते तदावरणमुद्गलात् । नरो नयंति वीभत्सुप्रदोषाद्या यथा करान् ॥ २ ॥ ये यत्प्रदोषादयस्ते तदावरणपुद्गलानात्मनो ढौकयंति यथा बीभत्सुखशरीरप्रदेशप्रदोषादयः करादीन् । ज्ञानदर्शनविषयाश्च कस्यचित्प्रदोषादय इत्यत्र न तावदसिद्धो हेतुः कचित्कदाचित्प्रदोषादीनां प्रतीतिसिद्धत्वात् । नाप्यनैकांतिको विपक्षवृत्त्यभावात् । अशुद्ध्यादिपूतिगंधिविषयः प्रदोषादिभिस्तदन्यप्राणिविषयकराद्यावरणाढौकनहेतुभिर्व्यभिचारीति चेन्न, घ्राणसंबंधदुर्गधपुद्गलाः प्रदोषादिहेतुकत्वात् तत्पिधायककराद्यावरणढौकनस्य दोषाद्यभावे तदधिष्ठानसंभूतबाह्याशुच्यादिगंधप्रदोषानुपपत्तेः । तद्विषयत्वपरिज्ञानायोगात् तदन्यविषयवत् । तत एव न विरुद्धं सर्वथा विपक्षावृत्तेरविरुद्धोपपत्तेः । विपक्षे बाधकप्रमाणाभावात्संदिग्धविपक्षव्यावृत्तिकोऽयं हेतुरिति चेन्न, साध्याभावे साधनाभावप्रतिपादनात् । यस्य यद्विषयाः प्रदोषादयस्तस्य तद्विषयास्तदविद्यैव न पुनस्तदावरणपुद्गलः सिद्ध्येत् ततो न तत्प्रदोषादिभ्यो ज्ञानदर्शनयोरावरणपुद्गलप्रसिद्धिरिति न शंकनीयं, तदावरणस्य कर्मणः पौगलिकत्वसाधनात् । कथं मूर्तकर्मामूर्तस्य ज्ञानादेरावरणमिति चेत् , तदविद्याद्यमूर्त कथमिति समः पर्यनुयोगः । यथैवामूतस्य वारकत्वे ज्ञानादीनां शरीरमावारकं विप्रसज्यं तथैवामूर्तस्य सद्भावे तेषां गगनमावारकमासज्येत । तदविरुद्धत्वान्न तत्तदावारकमिति चेत् , तत एव शरीरमपि तद्विरुद्धस्यैव तदावारकत्वसिद्धेः । स्यान्मतं, ज्ञानादेवर्तमानस्य सतोप्यविद्याद्युदये तिरोधानात्तदेव तद्विरुद्धं तदावरणं युक्तं न पुनः पौद्गलिकं कर्म तस्य तद्विरुद्धत्वासिद्धेरिति । तदसत् , तस्यापि तद्विरुद्धत्वप्रतीतेः सुरादिद्रव्यवत् । ननु मदिरादिद्रव्यमविद्यादिविकारस्य मदस्य ज्ञानादिविरोधिनो जनकत्वात् परंपरया तद्विरुद्धं न साक्षादिति चेत् , पौद्गलिकं कर्म तथैव तद्विरुद्धमस्तु तस्यापि विज्ञानविरुद्धाज्ञानादिहेतुत्वात् तस्य भावावरणत्वात् । न च द्रव्यावरणापाये भावावरणसंभवोतिप्रसंगात् । युक्तस्यातत्प्राप्तेरपि वारणात् । तस्य सम्यग्ज्ञानसात्मीभावे मिथ्याज्ञानादेरत्यंतमुच्छेदात्तस्योदये तदात्मनो भावावरणस्य सद्भावात् । कुतो द्रव्यावरणसिद्धिरिति चेत् , आत्मनो मिथ्याज्ञानादिः पुद्गलविशेषसंबंधिबंधनस्तत्स्वभावान्यथाभावस्वभावत्वादुन्मत्तकादिहेतुकोन्मादादिवदित्यनुमानात् । मिथ्याज्ञानादिहेतुकापरमिथ्याज्ञानव्यभिचारान्नेदमनुमानं समीचीनमिति चेन्न, तस्यापि परापरपौद्गलिककर्मोदये सत्येव भावात् तदभावे तदनुपपत्तेः । परापरोन्मत्तकादिरससद्भावे तत्कृतोन्मादादिसंतानवत् । कामिन्यादिभावेनोद्भूतैरुन्मादादिभिरनेकांत इति चेन्न, तेषामपि परं. परया तन्वीमनोहरांगनिरीक्षणादिनिबंधत्वात् तदभावे तदनुपपत्तेः । ततो युक्तमेव तद् ज्ञानदर्शनप्रदोषादीनां तदावरणकर्मास्रवत्ववचनं युक्तिसद्भावाद्वाधकाभावाच्च तादृशान्यवचनवत् ॥ अथासद्वेद्यास्रवसूचनार्थमाह;दुःखशोकतापानंदनबधपरिदेवनान्यात्मपरोभयस्थान्यसद्धेद्यस्य ॥ ११॥ पीडाद्यसद्वेद्यास्रवसूचनार्थमाह । पीडालक्षणः परिणामो दुःखं, तचासद्वेद्योदये सति विरोधिद्रव्याधुपनिपातात् । अनुग्राहकबांधवादिविच्छेदे मोहकर्मविशेषोदयादसद्वेद्ये च वैक्लव्यविशेषः शोकः, स च बांधवादिगताशयस्य जीवस्य चित्तखेदलक्षणः प्रसिद्ध एव । परिवादादिनिमित्तादाविलांतःकरणस्य तीत्रानुशयस्तापः, स चासद्वेद्योदये क्रोधादिविशेषोदये च सत्युपपद्यते । परितापात्युपात्तप्रचुरविलापांगविकाराभिव्यक्तं क्रंदनं, तच्चासद्वेद्योदये कषायविषयोदये च प्रजायते । आयुरिंद्रियबलप्राणवियोगकरणं बधः, सोप्यसद्वेद्योदये च सति प्रत्येतव्यः । संक्लेशश्रवणं खपरानुग्रहणं हा नाथ नाथेत्यनुकंपाप्रायं परिदेवनं, तच्चासद्वेद्योदये मोहोदये च सति बोद्धव्यं । तदेवं शोकादीनामसद्वेद्योदयापेक्षत्वाहुःखजातीयत्वेपि Jain Education International For Private & Personal Use Only www.jainelibrary.org |

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522