Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 457
________________ तत्वार्थ लोकवार्तिके [सू०९ कषायैर्भिद्यमानात्मचतुर्भिरिति संग्रहः । कषायस्थानभेदानां सर्वेषां परमागमे ॥ ३ ॥ जीवाधिकरणं संरंभादिभिस्त्रिभिर्भिद्यमानं हिंसास्रवस्य तावत्रिविधं । हिंसायां संरंभः समारंभः आरंभश्चेति । तदेव योगैस्त्रिभिः प्रत्येकं भिद्यमानं नवधावधार्यते कायेन संरंभो वाचा संरंभो मनसा संरंभ इति, तथा समारंभस्तथा चारंभ इति । तदेव नवभेदं कृतादिभिर्भिन्नं सप्तविंशति संख्यं कायेन कृतकारितानुमताः संरंभसमारंभारंभाः, तथा वाचा मनसा चेति । पुनश्चैतत्सप्तविंशतिभेदं कषायैः क्रोधादिभिश्चतुर्भिर्भिद्यमानात्मकं भवेदष्टोत्तरशतं - क्रोधमानमायालोभैः कृतकारितानुमताः कायवाङ्मनसा संरंभसमारंभारंभा इति । तथैवानृतादिष्वत्रतेषु योज्यं । एवं कषायस्थानभेदानां सर्वेषां परमागमे संग्रहः कृतो भवति । तदप्यष्टोत्तरशतं प्रत्येकमसंख्येयैः कषायस्थानैः प्रतिभिद्यमानमसंख्येयमिति जीवाधिकरणं व्याख्यातं । जीव एव हि तथा परिणाम विशेषकर्मणामात्रवतां तत्कारणानां च हिंसादिपरिणामानाधिकरणतां प्रतिपद्यते न पुनः पुद्गलादिस्तस्य तथा परिणामाभावात् । संरंभादीनां वा क्रोधाद्याविष्टपुरुषकर्तृकाणां तदनुरंजनादधिकरणभावो नीलपटादिवत् । न चैषां जीवविवर्तनामास्रवादिभावे जीवस्य तद्व्याघातः सर्वेषां तेषां तद्भेदाभावात् । न हि नीलगुणस्य नीलद्रव्यमेवाधिकरणं तत्रैव नीलप्रत्ययप्रसंगात् । नीलः पट इति संप्रत्ययात्तु पटस्यापि तदधिकरणाभावः सिद्धस्तस्य नीलिद्रव्यानुरंजनान्नीलद्रव्य - त्वपरिणामात्तद्भावोपपत्तेः कथंचिदभेदसिद्धेः । सर्वथा तद्भेदेपि पढे संयुक्तनीलीसमवायान्नीलगुणस्य नील: पट इति प्रत्ययो घटत एवेति चेन्न, आत्माकाशादिष्वपि प्रसंगात् । तैर्नीलीद्रव्यसंयोगविशेषाभावान्न तत्प्रसंग इति चेत्, स कोन्यो विशेषः संयोगस्य तथा परिणामात् । तथाहि परिणामित्वं हि तंतुषु तत्संयुक्तमत्रोपचारात् । न च नीलः पट इत्युपचरितः प्रत्ययोsस्खलदुपचाराच्छुक्लः पट इति प्रत्ययवत् तद्बाधकाभावाविशेषात् । तत्सूक्तं यथा नील्या नीलगुणः पटे नील इति च तस्य तदधिकरणभावस्तथा संरंभादिष्वास्रवो जीवेष्वास्रव इति वास्रवस्य तेधिकरणं जीवपरिणामानां जीवग्रहणेन ग्रहणादधिकरणं जीवा इत्युपपत्तेः अन्यथा तत्परिणामग्रहणप्रसंगादिति ॥ ४४८ ततः परमधिकरणमाह; - निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ ९ ॥ " अधिकरणमित्यनुवर्तते । निर्वर्तनादीनां कर्मसाधनं भावो वा सामानाधिकरण्येन वैयधिकरण्येन वाघिकरणसंबंधः कथंचिद्भेदाभेदोपपत्तेः । द्विचतुर्द्वित्रिभेदा इति द्वंद्वपूर्वोन्यपदार्थनिर्देशः । कश्चिदाहपरवचनमनर्थकं पूर्वत्राद्यवचनात् पूर्वत्राद्यवचनमनर्थकमिह सूत्रे परवचनात्तयोरेकतरवचनाद्वितीयस्यार्थापत्तिसिद्धेः पूर्वपरयोरन्योन्याविनाभावित्वात् । न चेयमर्थापत्तिरनैकांतिकी क्वचिद्यभिचारचोदनात् सर्वत्र व्यभिचारचोदनायाः प्रयासमात्रत्वात् परस्परापेक्षयोरव्यभिचारात् । पूर्वपरयोरंतराले मध्यमस्यापि संभवान्नाविनाभाव इत्यप्ययुक्तं, मध्यमस्य पूर्वपरोभयापेक्षत्वात् पूर्वमात्रापेक्षया तस्य परत्वोपपत्तेः परमात्रापेक्षया पूर्वत्वघटनादव्यवहितयोः पूर्वपरयोरविनाभावसिद्धिः । परशब्दस्यासंबंधार्थत्वान्नानर्थक्यमित्यपि न साधीयो निवर्त्यभावात् । परसंबंधमधिकरणमिति वचनं हि स्वसंबंधमधिकरणं निवर्तयति न चेह तदस्ति, तथा वचनाभावात् । एतेन प्रकृष्टवाचित्वं परशब्दस्य प्रत्युक्तं तन्निवर्त्यस्याप्रकृष्टस्यावचनात् । इष्टवाचित्वमपि तादृशमेवानिष्टस्य निवर्त्यस्याभावात् । न च प्रकारांतरमस्ति यतोत्र परवचनमनर्थवत्स्या - दिति । सोप्ययुक्तवादी, परवचनस्यान्यार्थत्वात् । परं जीवाधिकरणादजीवाधिकरणमित्यर्थः तेनाद्याजीवाधिकरणादिदमपरं जीवाधिकरणमिति निवर्तितं स्यात् । जीवाजीवप्रकरणात्तत्सिद्धिरिति चेत्, ततो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522