Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 454
________________ ४४५ षष्ठोऽध्यायः । तत्र सांपरायिकास्रवस्य के भेदा इत्याह;इंद्रियकषायाव्रतक्रियाः पंचचतुःपंचपंचविंशतिसंख्याः पूर्वस्य भेदाः ॥५॥ इंद्रियाणि पंचसंख्यानि कषायाश्चतुःसंख्याः अव्रतानि पंचसंख्यानि क्रियाः पंचविंशतिसंख्या इति यथासंख्यमभिसंबंधः ॥ सांपरायिकमत्रोक्तं पूर्व तस्येंद्रियादयः । भेदाः पंचादिसंख्याः स्युः परिणामविशेषतः ॥१॥ न हि जीवस्येंद्रियादिपरिणामांनां विशेषोसिद्धः परिणामित्वस्य वचनात् । कारणविशेषापेक्षत्वाच्च स्पर्शादिषु विषयेषु पुंसः स्पर्शादीनि पंच भावेंद्रियाणि तदुपकृतौ वर्तमानानि द्रव्येद्रियाणि पंचेंद्रियसामान्योपादानादुक्तलक्षणानि प्रत्येतव्यानि । तानि वीर्यातरायेंद्रियज्ञानावरणक्षयोपशमान्नामकर्मविशेषोदयाञ्चोपजायमानानि कायेभ्यो मोहनीयविशेषोदयादुत्पद्यमानेभ्यः कथंचिद्भिद्यते नियत विषयत्वाच्च । कषायाः पुनरनियतविषया वक्ष्यमाणास्ततो भिन्नलक्षणानि हिंसादीन्यव्रतानि च वक्ष्यते । क्रियास्तत्राभिधीयते पंचविंशतिः ॥ तत्र चैत्यश्रुताचार्यपूजास्तवादिलक्षणा । सम्यक्त्ववर्धनी ज्ञेया विद्भिः सम्यक्त्वसत्क्रिया ॥२॥ कुचैत्यादिप्रतिष्ठादियों मिथ्यात्वप्रवर्धनी । सा मिथ्यात्व क्रिया बोध्या मिथ्यात्वोदयसंसृता ३ कायादिभिः परेषां यद्गमनादिप्रवर्तनं । सदसत्कार्यसिद्ध्यर्थं सा प्रयोगक्रिया मता ॥४॥ न कायवामनोयोगानो निवर्तयितुं क्षमाः । पुद्गलास्तदुपादानं स्वहेतुद्वयतोन्यथा ॥५॥ संयतस्य सतः पुंसोऽसंयमं प्रति यद्भवेत् । आभिमुख्यं समादानक्रिया सा वृत्तघातिनी ॥ ६ ईयोपथक्रिया तत्र प्रोक्ता तत्कर्महेतुका । इति पंचक्रियास्तावच्छुभाशुभफलाः स्मृताः॥७॥ क्रोधावेशात्प्रदोषो यः सांतपादोषिकी क्रिया। तत्कार्यत्वात्सहेतुत्वात् क्रोधादन्या ह्यनीदृशात् प्रदुष्टस्योद्यमो हंतुं गदिता कायिकी क्रिया । हिंसोपकरणादानं तथाधिकरणक्रिया ॥९॥ दुःखोत्पादनतंत्रत्वं स्यात्क्रिया पारितापिकी क्रिया सा तावता भिन्ना प्रथमा तत्फलत्वतः।। ....... । कषायाचेति पंचैताः प्रपत्तव्याः क्रियाः पराः॥११॥ रागार्द्रस्य प्रमत्तस्य सुरूपालोकनाशयः । स्यादर्शनक्रिया स्पर्शे स्पृष्टधीः स्पर्शनक्रिया ॥१२॥ एते चेंद्रियतो भिन्ने परिस्पंदात्मिके मते । ज्ञानात्मनःकषायाच तत्फलत्वात्तथावतात् ॥१३॥ अपूर्वप्राणिघातार्थोपकरणप्रवर्तनं । क्रिया प्रात्ययिकी ज्ञेया हिंसाहेतुस्तथा परा ॥ १४ ॥ ख्यादिसंपातिदेशेंतर्मलोत्सर्गः प्रमादिनः । शक्तस्य यः क्रियेष्टेह सा समंतानुपातिकी ॥१५॥ अदृष्टे योप्रमृष्टे च स्थाने न्यासो यतेरपि । कायादेः सा त्वनाभोगक्रिया सैताश्च पंच ताः१६ परनिर्वत्येकायेस्य स्वयं करणमत्र यत् । सा स्वहस्तक्रियावद्यप्रधाना धीमतां मता ॥ १७ ॥ पापप्रवृत्तावन्येपामभ्यनुज्ञानमात्मना । स्थानिसर्गक्रियालस्यादकृतिर्वा सुकर्मणां ॥१८॥ पराचरितसावधप्रकाशनमिह स्फुटं । विदारणक्रिया त्वन्या स्यादन्यत्र विशुद्धितः ॥ १९ ॥ आवश्यकादिषु ख्यातामहेदाज्ञामुपासितुं । अशक्तस्यान्यथाख्यानादाज्ञाव्यापादिकी क्रिया ॥ शाठ्यालस्यवशादहत्प्रोक्ताचारविधौ तु यः । अनादरः स एव स्यादनाकांक्षक्रिया विदां २१ एताः पंच क्रियाः प्रोक्ताः परास्तत्त्वार्थवेदिभिः। कषायहेतुका भिन्नाः कषायेभ्यः कथंचन।। छेदनादिक्रियासक्तचित्तत्वं स्वस्य यद्भवेत् । परेण तत्कृतौ हर्षः सेहारंभक्रिया मता ॥२३॥ परिग्रहाविनाशार्था स्यात्पारिग्रहिकी क्रिया। दुर्वक्तृकवचो ज्ञानादौ सा मायादिक्रिया परा २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522