Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai
View full book text
________________
तृतीयोऽध्यायः।
३५१ लचक्रधरविजयस्यार्घसीमात्मकत्वात् । हिमवतोऽदूरभवः सोस्मिन्नस्तीति वा हैमवतः स च क्षुद्रहिमवन्महाहिमवतोर्मध्ये, तन्मध्ये शब्दवान् वृत्तवेदाढ्यः । हरिवर्णमनुष्ययोगाद्धरिवर्षः स निषधमहाहिमवतोर्मध्ये विकृतवान् वेदाढ्यः । विदेहयोगाजनपदेपि विदेहव्यपदेशः निषधनीलवतोरंतरे तत्संनिवेशः । स
चतुर्विधः पूर्वविदेहादिभेदात् । रमणीयदेशयोगाद्रम्यकाभिधानं नीलरुक्मिणोरंतराले तत्संनिवेशः • तन्मध्ये गंधवान् वृत्तवेदाब्यः । हिरण्यवतोऽदूरभवत्वाद्धैरण्यवतव्यपदेशः रुक्मिशिखरिणोरंतरे तद्विस्तारः तन्मध्ये माल्यवान् वृत्तवेदाढ्यः । ऐरावतक्षत्रिययोगादैरावताभिधानं शिखरिसमुद्रत्रयांते तद्विन्यासः, तन्मध्ये पूर्ववद्विजयाधः॥ किमर्थं पुनर्भरतादीनि क्षेत्राणि सप्तोक्तानीत्याह;क्षेत्राणि भरतादीनि सप्त तत्रापरेण तु । सूत्रेणोक्तानि तत्संख्या हंतुं तीर्थककल्पिताम् ॥ १॥ कुतः पुनस्तीर्थककल्पिता क्षेत्रसंख्यानेन प्रतिहन्यते वचनस्याविशेषात् स्याद्वादाश्रयत्वादेतद्वचनस्य प्रमाणत्वोपपत्तेः संवादकत्वात्सर्वथा बाधवैधुर्यात्सर्वथैकांतवादिवचनस्य तेन प्रतिघातसिद्धेरिति निरूपितप्रायं ॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषधनीलरुक्मिशिख
रिणो वर्षधरपर्वताः ॥ ११ ॥ हिमाभिसंबंधतो हिमवयपदेशः भरतहैमवतयोः सीमनि स्थितः, महाहिमवन्निति चोक्तं हैमवतहरिवर्पयोर्भागकरः, निषीदंति तस्मिन्निति निषधो हरिविदेहयोमर्यादाहेतुः, नीलवर्णयोगान्नीलव्यपदेशः विदेहरम्यकविनिवेशविभाजी, रुक्मसद्भावतो रुक्मीत्यभिधानं रम्यकहैरण्यवतविवेककरः, शिखरिसद्भावाच्छिखरीति संज्ञा हैरण्यवतैरावतसेतुबंधः शिखरी । हिमवदादीनामितरेतरयोगे द्वंद्वो अवयवप्रधानत्वात् , वर्षधरपर्वता इति वचनं वर्षधराणां पर्वतानामपर्वतानां च निरासाथै । तद्विभाजिन इति वचनात् भरतादिवर्षविभागहेतुत्वसिद्धिः, पूर्वापरायता इति विशेषणादन्यथायतत्वमनायतत्वं व्युदस्तम् ॥ किं परिणामास्ते इत्याह;
हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥ १२ ॥ हेममयो हिमवान् , अर्जुनमयो महाहिमवान् , तपनीयमयो निषधः, वैडूर्यमयो नीलः, रजतमयो रुक्मी, हेममयः शिखरीति । हेमादिपरिणामा हिमवदादयः तथानादिसिद्धत्वादन्यथोपदेशस्य परमागमप्रतिहतत्वात् ॥ · पुनरपि किं विशिष्टास्त इत्याह;
___ मणिविचित्रपाः ॥ १३ ॥ मणिभिर्विचित्राणि पार्थाणि येषां ते तथा । अनेन तेषामनादिपरिणाममणिविचित्रपार्श्वत्वं प्रतिपादितं ॥ तद्विस्तरविशेषप्रतिपादनार्थमाह;
उपरि मूले च तुल्यविस्ताराः ॥ १४ ॥ च शब्दान्मध्ये च, तथा चानिष्टविस्तारसंस्थाननिवृत्तिः प्रतीयते ॥ तदेवं सूत्रचतुष्टयेन पर्वताः प्रोक्ताः इत्युपसंहरति;पूर्वापरायतास्तत्र पर्वतास्तद्विभाजिनः । षट्प्रधानाः परेणैते प्रोक्ता हिमवदादयः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522