Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 419
________________ तत्त्वार्थश्लोकवार्तिके [सू० १७ तस्य व्यभिचारत एव तयोः पक्षीकरणेत्र पक्षस्य प्रमाणबाधः कालात्ययापदिष्टश्च हेतुः खपुद्गलद्रव्ययोराधाराधेयताप्रतीतेः । पुद्गलपर्याया एव घटादयः खस्याधेयाः प्रतीयंते न च द्रव्यमिति चेन्न, पर्यायेभ्यो द्रव्यस्य कथंचिदव्यतिरेकात् तदाधेयत्वे तस्याप्याधेयत्वसिद्धेः । ततः सूक्तं लोकाकाशधर्मादिद्रव्याणामाधाराधेयता व्यवहारनयाश्रया प्रतिपत्तव्या बाधकामावादिति निश्चयनयान्न तेषामाधाराधेयता युक्ता । व्योमवद्धर्मादीनामपि स्वरूपेवस्थानादन्यस्यान्यत्र स्थितौ खरूपसंकरप्रसंगात् । वयं स्थानोरन्येन । स्थितिकरणमनर्थकं खयमस्थास्त्रोः स्थितिकरणमसंभाव्यं शशविषाणवत् । शक्तिरूपेण स्वयं स्थानशीलस्यान्येन व्यक्तिरूपतया स्थितिः क्रियत इति चेत्तस्यापि व्यक्तिरूपा स्थितिस्तत्वभावस्य वा क्रियेत । न च तावत्तत्स्वभावस्य वैयर्थ्यात् करणव्यापारस्य, नाप्यतत्स्वभावस्य खपुष्पवत्करणानुपपत्तेः । कथमेवमुत्पत्तिविनाशयोः कारणं कस्यचित्तत्खभावस्यातत्स्वभावस्य वा केनचित्तत्कारणे स्थितिपक्षोक्तदोषानुषंगादिति चेन्न कथमपि तन्निश्चयनयात्सर्वस्य विलसोत्पादव्ययध्रौव्यव्यवस्थितेः । व्यवहारनयादेवोत्पादादीनां सहेतुकत्वप्रतीतेः । क्षणक्षयकांते तु सर्वथा तदभावः शाश्वतैकांतवत् । संवृत्त्या तु जन्मैव सहेतुकं न पुनर्विनाशः स्थितिश्चेति स्वरुचिविरचितदशनोपदर्शनमात्रं नियमहेत्वभावात् । ततो नास्ति निश्चयनयाद्भावानामाधाराधेयभावः सर्वथा विचार्यमाणस्यायोगात्कार्यकारणभावादिति स्याल्लोकाकाशे धर्मादीनामवगाहः स्यादनवगाह इति स्याद्वादप्रसिद्धिः ॥ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥ १७ ॥ द्रव्यस्य देशांतरप्राप्तिहेतुः परिणामो गतिः, तद्विपरीता स्थितिः । उपग्रहोऽनुग्रहः गतिस्थिती एवोपग्रहो खपदार्था वृत्तिर्न पुनरन्यपदार्था धर्माधर्मावित्यवचनात् । नाप्यन्यतरपदार्था गतिस्थित्युपग्रहाविति द्विवचननिर्देशात् । तस्यां हि सत्यामुपग्रहस्यैकत्वादेकवचनमेव स्यात् । गतिस्थित्योरुपग्रहो गतिस्थि. त्युपग्रह इति भावसाधनस्योपग्रहशब्दस्य षष्ठीवृत्तेघटनात् । तस्य कर्मसाधनत्वे स्वपदार्थवृत्तरेवोपपत्तेः गतिस्थिती एवोपगृह्येते इत्युपग्रहौ । न च कर्मसाधनत्वेप्युपग्रहशब्दस्योपकारशब्देन सह सामानाधिकरण्यानुपपत्तिः गतिस्थित्युपग्रहौ उपकार इति उपकारशब्दस्यापि कर्मसाधनत्वात् । न चैवमुपकारशब्दस्य द्विवचनप्रस्था सामान्योपक्रमादेकवचनोपपत्तेः । पुनर्विशेषोपक्रमेपि तदपरित्यागात् साधोः कार्य तपःश्रुतिरित्यादिवत् । ननु खपदार्थायां वृत्तावुपग्रहवचनमनर्थक गतिस्थिती धर्माधर्मयोरुपकार इतीयता पर्याप्तत्वात् । धर्माधर्मयोरनुग्रहमात्रवृत्तित्वख्यापनार्थ गतिस्थित्योर्निर्वर्तककारणत्वप्रतिपत्त्यर्थ चोपग्रहग्रहणमित्यप्ययुक्तं, गतिस्थिती धर्माधर्मकृते इत्यवचनादेव तसिद्धेः । उपकारवचनाजीवपुद्लानां गतिस्थिती खयमारभमाणानां धर्माधर्मों तदनुग्रहमात्रवृत्तित्वादुपकारकाविति प्रतिपत्तेः । यथासंख्यनिवृत्त्यर्थमुपग्रहवचनमित्यप्यसारं, तद्भावे तदनिवृत्तेः । शक्यं हि वक्तुं जीवस्य गत्युपग्रहो धर्मस्योपकारः पुद्गलस्य स्थित्युपग्रहोऽधर्मस्योपकार इति यथासंख्यमुपग्रहवचनसद्भावेपि जीवपुद्गलानां बहुत्वाच द्वाभ्यां समत्वाभावादेव यथासंख्यनिवृत्तिसिद्धिर्न तदर्थ तद्वचनं युक्तं । धर्माधर्माभ्यां यथासंख्यप्रतिपत्त्यर्थ गतिस्थित्युपग्रहाविति वचनं व्यवतिष्ठते न गत्युपग्रहो धर्मस्य स्थित्युपग्रहः पुनरधर्मस्येति प्रतीयते । ननु गतिस्थित्युपग्रहौ धर्मस्याधर्मस्य च प्रत्येकमिति कश्चित् ; सोपि न स्थितवादी, उपकाराविति वचनादपि तसिद्धिः गतिरुपकारो धर्मस्य स्थितिरधर्मस्येत्यभिसंबंधत्वात् । तत्किमिदानीमुपग्रहवचनं? न कर्तव्यं । कर्तव्यमेवोपकारशब्देन कार्यसामान्यस्याभिधानात् गतिस्थित्युपग्रहाविति कार्यविशेषकथनात् । तेन धर्माधर्मयोर्न किंचित्कार्यमस्तीति वदन्निवार्यते धर्माधर्मयोरुपकारोस्तीति वचनात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522