Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 450
________________ पञ्चमोऽध्यायः । ४४१ पर्याय एव च द्वेधा सहक्रमविवर्तितः । शुद्धाशुद्धत्वभेदेन यथाद्रव्यं द्विधोदितं ॥ २ ॥ तेन नैव प्रसज्येत नयद्वैविध्यबाधनं । संक्षेपतोन्यथा त्र्यादिनयसंख्या न वार्यते ॥ ३ ॥ संक्षेपतो हि द्रव्यार्थिकः पर्यायार्थिकश्चेति नयद्वयवचनं गुणवचने न बाध्यते पर्यायस्यैव सहक्रम - विवर्तनवशाद्गुणपर्यायव्यपदेशात् द्रव्यस्य निरुपाधित्ववशेन शुद्धाशुद्धव्यपदेशवत् । प्रपंचस्तु यथा शुद्धद्रव्यार्थिकोऽशुद्धद्रव्यार्थिकश्चेति द्रव्यार्थिको द्वेधा । तथा सहभावी पर्यायार्थिकः क्रमभावी पर्यायार्थिकश्चेति पर्यायार्थिकोप द्वेधा अभीयतां । ततख्यादिसंख्या न वार्यत एव द्विभेदस्य पर्यायार्थिकस्यैकविधस्य द्रव्यार्थिकस्य विवक्षायां नयत्रितयसिद्धेः । पर्यायार्थिकस्यैकविधस्य द्रव्यार्थिकस्य द्विभेदस्य विवक्षायामिति कश्चित् । द्वयोर्विभेदयोर्विवक्षायां तु नयचतुष्टयमिष्यते । ते नैगमसंग्रह व्यवहार विकल्पाद्रव्यार्थिकस्य त्रिविधस्य पर्यायार्थिकस्य चार्थपर्यायव्यंजनपर्यायार्थिकभेदेन द्विविधस्य विवक्षायां नयपंचकं शुद्धाशुद्धद्रव्यार्थिकद्वयस्य ऋजुसूत्रादिपर्यायार्थिकचतुष्टयस्य विवक्षायां नयष्टुं नैगमादिसूत्रपाठापेक्षया नयसप्तकमिति । नयानामष्टादिसंख्यापि न वार्यते । ततो न गुणेभ्यः पर्यायाणां कथंचिद्भेदेन कथनमयुक्तं, गुणपर्यवद्रव्यमिति द्रव्यलक्षणं निरवद्यं न भवेत् ॥ प्रतीयतामेवमजीवतत्त्वं समासतः सूत्रितसर्वभेदं । प्रमाणतस्तद्विपरीतरूपं प्रकल्प्यतां सन्नयतो निहत्य ॥ १ ॥ इति पंचमाध्यायस्य द्वितीयमाह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥ ५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522