Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 448
________________ पञ्चमोऽध्यायः। ४३९ वेद्याद्याकारविवेकं परोक्षं संविदाकारं च प्रत्यक्षमिच्छन्नपि न सहानेकांतं निराकर्तुमर्हति संविदद्वैते प्रत्यक्षपरोक्षाकारयोरपारमार्थिकत्वे परमार्थेतराकारमेकं संवेदनं बलादापतेत् परमार्थाकारस्यैव सत्त्वात् संविदा नापारमार्थिकाकारः, सन्निति ब्रुवाणस्सकृत्सदसत्त्वस्वभावाक्रांतमेकं संवेदनं स्वीकरोत्येव । न सन्नाप्यसत्संवेदनमित्यपि व्याहतं, पुरुषाद्वैतादिवत्ततः सकृदनेकस्वभावमेकं वस्तु तत्त्वतः सर्वस्य खेष्टतत्त्वव्यवस्थानुपपत्तेः । खपररूपोपादानापोहनव्यवस्थापाद्यत्वाद्वस्तुत्वस्येति प्रपंचितप्रायं । तथा क्रमानेकांतनिराकरणवादिनं प्रति पर्यायवद्रव्यं प्रतीयमानत्वात् सर्वस्य परिणामित्वसिद्धेः प्रतिपादितत्वात् । एवं क्रमाक्रमानेकांतनिराकरणप्रवणमानसं प्रति गुणपर्यायवद्र्व्यमित्युक्तं सर्वथा निरुपाधिभावस्याप्रमाणत्वात् । अथवेयं त्रिसूत्री समवतिष्ठते, गुणवद्रव्यं पर्ययवद्रव्यं गुणपर्ययवद्रव्यं द्रव्यत्वान्यथानुपपत्तेरित्यनुमानत्रयं चेदं संक्षेपतो लक्ष्यते । ननु चैवं निष्क्रियं न सर्वद्रव्यसमवायिकारणं चेति पराकूतनिराकृतये क्रियावद्रव्यं समवायिकारणमिति च द्रव्यलक्षणमभिधीयते, पृथिव्यप्तेजोवायुननसां क्रियावत्त्वसिद्धेः सर्वद्रव्याणां समवायिकारणत्वस्य च गुणवत्त्ववत्प्रतीतेरित्येतदपि च परेषां वचोऽसमीचीनं, द्रव्यवद्विशेषवत्सामान्यवच्च द्रव्यमिति द्रव्यलक्षणवचनप्रसंगात् । न कार्यद्रव्यवत्कारणद्रव्यं नापि विशेषवत्सामान्यवद्वेति परद्रव्यविप्रतिपत्तिनिराकरणार्थत्वात् । स्याद्वादिनां पुनः कार्यद्रव्यविशेषसदृशपरिणामलक्षणसामान्यानामपि क्रियावत्समवायवच्च पर्यायत्वान्न तथा वचनं कर्तव्यमिति सर्वमनवद्यं ।। तदेवं जीवपुद्गलधर्माधर्माकाशभेदात्पंचविधमेव द्रव्यमिति वदंतं प्रत्याह; कालश्च ॥ ३९॥ गुणपर्ययवद्रव्यमित्यभिसंबंधनीयम् ॥ कालश्च द्रव्यमित्याह प्रोक्तलक्षणयोगतः । तस्याद्रव्यत्वविज्ञाननिवृत्त्यर्थ समासतः॥१॥ के पुनः कालस्य गुणाः के च पर्यायाः प्रसिद्धा यतो गुणपर्यायवद्र्व्यमिति प्रोक्तलक्षणयोगः सियेत्तस्याद्रव्यत्वविज्ञाननिवृत्तेश्चेत्यत्रोच्यतेनिःशेषद्रव्यसंयोगविभागादिगुणाश्रयः । कालः सामान्यतः सिद्धः सूक्ष्मत्वाद्याश्रयोमिधा २ क्रमवृत्तिपदार्थानां वृत्तिकारणतादयः । पर्यायाः संति कालस्य गुणपर्यायवानतः ॥३॥ सर्वद्रव्यैः संयोगस्तावत्कालस्यास्ति सादिरनादिश्च विभागश्चासर्वगतक्रियावद्रव्यैः संख्यापरिमाणादयश्च गुणा इति सामान्यतोऽशेषद्रव्यसंयोगस्य विभागादिगुणानां चाश्रयः कालः सिद्धः । विशेषेण तु सूक्ष्मामूर्तत्वागुरुलघुत्वैकप्रदेशत्वादयस्तस्य गुणा इति सूक्ष्मत्वादिविशेषगुणाश्रयश्च । क्रमवृत्तीनां पदार्थानां पुद्गलादिपर्यायाणां वृत्तिहेतुत्वपरिणामक्रियाकारणत्वपरत्वापरत्वप्रत्ययहेतुत्वाख्याः पर्यायाश्च कालस्य संति यैस्तत्तानुमानमिति । गुणपर्यायवान् कालः । कथं द्रव्यलक्षणभाक् ? ततः कालो द्रव्यं गुणपर्ययवत्त्वाज्जीवादिद्रव्यवदिति तस्याद्रव्यत्वविज्ञाननिवृत्तिः ॥ सोऽनंतसमयः॥४०॥ परमसूक्ष्मः कालविशेषः समयः अनंताः समया यस्य सोनंतसमयः कालोवबोद्धव्यः । पर्यायतो द्रव्यतो वा व्यवहारतः परमार्थतो वेति शंकायामिदमुच्यते सोनंतसमयः प्रोक्तो भावतो व्यवहारतः । द्रव्यतो जगदाकाशप्रदेशपरिमाणकः ॥१॥ भावः पर्यायस्तेनानंतसमयः कालोनंतपर्यायवर्तनाहेतुत्वात् । एकैको हि कालाणुरनंतपर्यायान् वर्त सानसि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522