Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 446
________________ • पञ्चमोऽध्यायः । ४३७ मबंधसाधने तेषां पुनर्बंधाभावः साकल्येनैकदेशेन बंधस्याघटनादिति चेन्न, सूक्ष्मस्कंधानामपि बंधाभावप्रसंगात् । तेषामपि कात्रुर्येन बंधे सूक्ष्मैकस्कंध मात्रपिंडप्रसक्तेः । एकदेशेन संबंधे चैकस्कंधदेशस्य स्कंधांतरदेशेन बंधो नैकदेशेन वा भवेत् ? कात्सूर्येन चेत्तदेकदेशमात्रप्रसक्तिः, एकदेशेन चेदनवस्था स्यात् प्रकारांतरेण तद्वन्द्वे परमाणूनामपि बंधस्तथैव स्यात् स्निग्धरूक्षत्वाद्वेध इति निःप्रतिद्वंद्वस्य बंधस्य साधनात् । ततः सूक्तं न जघन्यगुणानां बंध इति । प्रतिषेधवत्पुद्गलानामबंधसिद्धेरपि संग्रह इति । येषां परमाणूनां बंधस्तेषां बंध एव सर्वदा, येषां त्वबंधस्तेषामबंध एवेत्येकांतोप्यनेनापास्तः । केषांचिदबंधानामपि कदाचिद्वंधदर्शनाद्वंघवतां वा बंधप्रतीतेर्बाधकाभावात् परमाणुष्वपि तन्नियमानुपपत्तेः ॥ गुणसाम्ये सदृशानाम् ॥ ३५ ॥ गुणवैषम्ये बंधप्रतिपत्त्यर्थं सदृशग्रहणं । सदृशानां स्निग्धगुणानां परस्परं रूक्षगुणानां वान्योन्यं भागसाम्ये बंधस्य प्रतिषेधात् । नन्वेवं विसदृशानां गुणसाम्ये बंधप्रतिषेधो न स्यादिति न मंतव्यं, सदृशग्रहणस्य विसदृशव्यवच्छेदार्थत्वाभावात् सदृशानामेवेत्यवधारणानाश्रयणात् । गुणसाम्ये वे सूत्रोपदेशे हि सदृशानां गुणवैषम्येपि बंधप्रतिषेधप्रसक्तौ तद्वत्तत्सिद्धये सदृशग्रहणं कृतं, तेन स्निग्धरूक्षजात्या साम्येपि गुणवैषम्ये बंधसिद्धिः । किमर्थमिदं सूत्रमब्रवीदित्याह ; अजघन्यगुणानां तत्प्रसक्तावविशेषतः । गुणसाम्ये समानानां न बंध इति चाब्रवीत् ॥ १ ॥ केषां पुनर्बंध: स्यादित्याह ; धिकादिगुणानां तु ॥ ३६ ॥ व्यधिकश्चतुर्गुणः । कथं ? एकगुणस्य केनचिद्वंधप्रतिषेधाद्विगुणस्य बंधसंभवात्ततोयधिकस्य चतुर्गुणत्वोपपत्तेः । प्रकारवाचिनादिग्रहणेन पंचगुणादिपरिग्रहः, त्रिगुणादीनां बंधे पंचगुणादीनां व्यधिकतोपपत्तेः । एवं च तुल्यजातीयानां विजातीयानां च व्यधिकादिगुणानां बंधः सिद्धो भवति । तु शब्दस्य प्रतिषेधानिवृत्त्यर्थत्वात् । तथाहि अधिकादिगुणानां तु बंधोस्तीति निवेदयत् । सर्वापवादनिर्मुक्तविषयस्याह संभवम् ॥ १॥ उक्तं च । “णिद्धस्स णिद्वेण दुराहिएण लुक्खस्स लक्खेण दुराहिएण । णिद्धस्स लुक्खेण उ एइ बंध जहणजे विसमे समे वा ॥" विषमोऽतुल्यजातीयः समः सजातीयो न पुनः समानभाग इति व्याख्यानान्न समगुणयोर्बंधप्रसिद्धिः ॥ कुतः पुनर्द्वावेव गुणावधिको सजातीयस्य विजातीयस्य वा परेण बंधहेतुतां प्रतिपद्येते नान्यथेत्याह; - jarat पारिणामिकौ ॥ ३७ ॥ यस्मादिति शेषः । प्रकृतत्वाद्गुणसंप्रत्ययः । क्व, प्रकृतौ गुणौ व्यधिकादिगुणानां त्वित्यत्र समासे गुणीभूतस्यापि गुणशब्दस्यानुवर्तनमिह सामर्थ्यात् तदन्यस्यानुवर्तनासंभवात् । गुणाविति वाभिसंबंधोर्थवशाद्विभक्तिवचनयोः परिणामात् भावांतरापादकौ पारिणामिकौ, रेणोः क्लिन्नगुडवत् । तथाहि बंधेधिको गुणौ यस्मादन्येषां पारिणामिकौ । दृष्टौ सक्कुजलादीनां नान्यथेत्यत्र युक्तिवाक् १ तथैव हि रूक्षाणां सक्तूनां स्निग्धा जलकणास्ततो द्वाभ्यां गुणाभ्यामधिका: पिंडात्मतया पारिणामिका दृश्यते नान्यथा । तथैव परमाणोर्द्विगुणस्य चतुर्गुणः परमाणुः परिणामकः स्यादन्यथा द्वयोः परमाण्वो - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522