Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 445
________________ ४३६. तत्त्वार्थश्लोकवार्तिके [सू० ३४ किं तर्हि ? संबंध एवेति कथ्यते । तथा परमाणूनामपि युगपत्परस्परमेकत्वपरिणामहेतुर्बधो नैकदेशेन सर्वात्मना वा सावयवत्वानवस्थाप्रसंगादेकपरमाणुमात्रपिंडप्रसंगाच्च । किं तर्हि ? पिंड एव स्निग्धरूक्षत्वविशेषायत्तत्वात्तस्य तथा दर्शनात् सक्ततोयादिवत् ॥ पूर्वापरविदां बंधस्तथाभावात् परो भवेत् । नानाणुभावतः सांशादणोर्वधोऽपरोस्ति किम् ||४|| निरंशत्वं न चाणूनां मध्यं प्राप्तस्य नावतः । तथा ते संविदोर्मध्यं प्राप्ताया: संविदः स्फुटम् संविदद्वैततत्त्वस्यासिद्धौ बंधो न केवलं । स स्यात् किंतु स्वसंतानाद्यभावात्सर्वशून्यता ॥ ६ ॥ तत्संविन्मात्रसंसिद्धौ संतानस्ते प्रसिद्ध्यति । तद्वद्वंघः स्थितोर्थानां परिणामो विशेषतः ||७|| शून्यवादिनापि संविन्मात्रमुपगंतव्यं तस्य चावश्यं कारणमन्यथा नित्यत्वप्रसंगात् कार्यमभ्युपगंतव्य - मन्यथा तदवस्तुत्वापत्तेरिति तत्संतानसिद्धिः । तत्सिद्धौ च कार्यकारणसंविदोर्मध्यमध्यासीनायाः संविदस्तत्संबंधेपि सांशत्वाभाववत्परमाणूनां मध्यमधिष्ठितोपि परमाणोरनंशत्वसिद्धेस्तत्सर्व समुदाय विशेषोप्यनेकपरिणामो बंधः प्रसिद्ध्यत्येव । स च सर्वपरमाणूनामविशेषेण प्रसक्त इत्यनिर्गुणानां बंधप्रतिषेधार्थमाह ; - न जघन्यगुणानाम् ॥ ३४ ॥ जघन्यमिव जघन्यं निकृष्टमिति शाखादित्वादेर्देहांगत्वाद्वा जघनशब्दसिद्धिः जघने भवो जघन्योनिकृष्टः जघन्य इव जघन्योत्यताप्रकृष्ट इति । गुणशब्दस्यानेकार्थत्वे विवक्षावशाद्भागग्रहणं द्विगुणावयवा इति यथा द्विभागा इत्यर्थप्रतिपत्तेर्जघन्यो गुणो येषां ते जघन्यगुणाः परमाणवः सूक्ष्मत्वाद्वा तेषां न बंध इत्यभिसंबंधः । तेनैकगुणस्य स्निग्धरूक्षस्य वा परेण स्निग्धेन रूक्षेण चैकगुणेन द्वित्रिसंख्येयासंख्येयानंतगुणेन वा नास्ति बंधस्तथा व्यादिभिर्द्यादिगुणैरेकगुणैश्चेति सूत्रितं भवति । ननु च जघन्यगुणाः परमाणवः केचित्संतीति कुतो निश्चयः स्निग्धरूक्षगुणयोरप कर्षातिशयदर्शनात् परमापकर्षस्य सिद्धैर्जघन्यगुणसिद्धिः । उष्ट्रीक्षीराद्धि महिषीक्षीरस्यापकृष्टः स्नेहगुणः प्रतीयते ततो गोक्षीरस्य ततोप्यजाक्षीरस्य ततोपि तोयस्येति । तथा रूक्षगुणोपि शर्करातः कणिकानामपकृष्टः प्रतीयते ततोपि पांशूनामिति । स्निग्धरूक्षगुणः कचिदत्यंतमपकर्षमेति प्रकृष्यमाणापकर्षत्वादा नभसः परिमाणे परिमाणवादित्यनुमानाज्जघन्यगुणसिद्धि: । एतेनोत्कृष्टगुणसिद्धिर्व्याख्याता, प्रकर्षातिशयदर्शनात्कचित्परमप्रकर्षसिद्धेः । ननु च कदाचिदबंधः परमाणूनां सर्वदा स्कंधात्मतयैव पुद्गलानामवस्थितेः । बुद्ध्या परमाणुकल्पनोपपत्तेरविभागपरिच्छेदवदिति कश्चित्तं प्रत्याह ; --- न जघन्यगुणानां स्याद्वंध इत्युपदेशतः । पुद्गलानामबंधस्य प्रसिद्धेरपि संग्रहः ॥ १ ॥ स्कंधानामेव केषांचिद्वालुकादीनामबंधोस्तु न परमाणूनामित्ययुक्तं, प्रमाणविरोधात् । "पृथिवी सलिलं छाया चतुरिंद्रियविषयकर्मपरमाणुः षड्विधभेदं भणितं पुद्गलतत्त्वं जिनेंद्रेणे" त्यागमेन पारमार्थिकपरमाणुप्रकाशकेन कल्पितपरमाणुवादस्य विधानात् । परमार्थतो असंबंधपरमाणुवादस्य च परमाणूत्पत्तिसूत्रेण निराकरणात् । भेदादणुः कल्प्यते इति क्रियाध्याहारान्नोत्पत्तिः परमाणूनामिति चेन्न, भेदसंघातेभ्य उत्पद्यंत इत्यत्र स्वयमुत्पद्यंत इति क्रियायाः क्रियांतराध्याहारनिवृत्त्यर्थमुपन्यासात् भेदादणुरिति सूत्रस्य नियमाथत्वात् पूर्वसूत्रेणैव परमाणूत्पत्तेर्विधानात् । किं च, विवादापन्नाः स्कंधभेदाः कचित्प्रकर्षभाजः प्रकृष्यमाणत्वात् परिमाणवदित्यनुमानबाधितत्वान्न परमाणूनामबंधकल्पना श्रेयसी । ननु च परमाणूना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522