Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 417
________________ तत्त्वार्थश्लोकवार्तिके [सू० १६ धर्मात कृत्स्रलोकाकाशावगाहिनौ । गच्छत्तिष्ठत्पदार्थानां सर्वेषामुपकारतः ॥ १ ॥ न हि लोकत्रयवर्तिनां पदार्थानां सर्वेषां गतिपरिणामिनां स्थितिपरिणामिनां च गतिस्थित्युपग्रह युगपदुपकारो धर्माधर्मयोरेकदेशवर्तिनोः संभवत्यलोकाकाशेपि तद्गतिस्थितिप्रसंगात् । ततो लोकाकाशे गच्छत्तिष्ठत्पदार्थानां सर्वेषां गतिस्थित्युपकारमिच्छता धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भ्युपगंतव्यः ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ अवगाह इत्यनुवर्तते लोकाकाशस्येत्यर्थवशाद्विभक्तिपरिणामः । तेन लोकाकाशस्यैक प्रदेशेष्वसंख्येयेषु च पुद्गलानामवगाह इति वाक्यार्थः सिद्धः || कथमित्याह ; ४०८ तस्यैवैकप्रदेशेस्ति यथैकस्यावगाहनं । परमाणोस्तथानेकाणुस्कंधानां च सौक्ष्म्यतः ॥ १ ॥ तथा चैकप्रदेशादिस्तेषां प्रतिविभिद्यतां । सोवगाहो यथायोग्यं पुद्गलानामशेषतः ॥ २ ॥ तस्यैव लोकाकाशस्यैकस्य प्रदेशे यथैकस्य परमाणोरवगाहनमस्ति निर्बाधं तथा व्यादिसंख्येयानां स्कंधानामपि परमसौक्ष्म्यपरिणामानां तद्रव्यादिप्रदेशेषु च । यथैकत्वपरिणाम निरुत्सुकानां व्यादिपरमाणूनामवगाहस्तथा त्र्यादिसंख्येयासंख्येयानंतपरमाणुमय स्कंधानामपि तादृशात् सौक्ष्म्यपरिणामादित्यशेषतो यथायोगं प्रविभज्यतां न च पुद्गलस्कंधानां तादृशसौक्ष्म्यपरिणामोऽसिद्धः स्थूलानामपि शिथिलावयव कर्पासपिंडादीनां निबिडावयवदशायां सौक्ष्म्यदर्शनात्, कूष्मांडमातुलिंगबिल्वामलकबदर सौक्ष्म्यात्तारतम्यदर्शनाच्च क्वचित्कार्मणस्कंधादिषु परमसौक्ष्म्यानुमानात् महत्त्व तारतम्यदर्शनात् कचित्परममहत्त्वानुमानवत् ॥ असंख्येयभागादिषु जीवानाम् ॥ १५ ॥ लोकाकाशस्येति संबंधनीयं अवगाहो भाज्य इति चानुवर्तते । तेनासंख्येयभागे असंख्येयप्रदेशे कस्यचिज्जीवस्य सर्वजघन्यशरीरस्य नित्यनिगोतस्यावगाहः, कस्यचिद्वयोस्तदसंख्येयभागयोः कस्यचित्र्यादिषु सर्वस्मिंश्च लोके स्यादित्युक्तं भवति । नाना जीवानां केषांचित्साधारणशरीराणामेकस्मिन्न संख्येयभागेवगाहः, केषांचिद्वयोरसंख्येयभागयोख्यादिषु चासंख्येयभागेष्विति भाज्योवगाहो न चैकस्य तदसंख्येयभागस्य द्व्याद्यसंख्येयभागानां चासंख्येयप्रदेशत्वाविशेषात् सर्वजीवानां समानोवगाहः शंकनीयः असंख्येयस्यासंख्येयविकल्पत्वात् च सिद्धं लोकाकाशैका संख्येयप्रदेश परिणमनत्वाद्ब्राद्यसंख्येयभागानामिति नानारूपावगाहसिद्धिः । धर्मादीनां सकललोकाकाशादिव्यवहारवचनात्सामर्थ्याल्लोकाकाशस्यैकस्मिन्नेकस्मिन् प्रदेशे चैकस्य कालपरमाणोरवगाहः प्रतीयते । तथा च सूत्रकारस्य नासंग्रहदोषः ।। ननु च लोकाकाशप्रमाणत्वे जीवस्य व्यवस्थापिते कथं तदसंख्येयभागावगाहनं न विरुध्यत इत्याशंक्याह ; प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ असंख्येयभागादिषु जीवानामवगाहो भाज्य इति साध्यत इत्याह ; न जीवानामसंख्येयभागादिष्ववगाहनं । विरुद्धं तत्प्रदेशानां संहारात्प्रविसर्पतः ॥ १ ॥ प्रदीपवदिति ज्ञेया व्यवहारनयाश्रया । आधाराधेयतार्थानां निश्चयात्तदयोगतः ॥ २ ॥ अमूर्तस्वभावस्याप्यात्मनोऽनादिसंबंधं प्रत्येकत्वात् कथंचिन्मूर्ततां बिभ्रतो लोकाकाशतुल्यप्रदेश स्थापि कार्मणशरीरवशादुपात्तं सूक्ष्मशरीरमधितिष्ठतः शुष्कचर्मवत्संकोचनं प्रदेशानां संहारस्तस्यैव बादरशरीरमधितिष्ठतो जले तैलवद्विसर्पणं विसर्पः प्रसर्पस्ततोऽसंख्येयभागादिषु वृत्तिः प्रदीपवन्न विरुध्यते । न Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522