Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 427
________________ ४१८ तत्त्वार्थश्लोकवार्तिके [सू० २२ वस्थितस्य द्रव्यार्थादेशात् , स्यादनवस्थितस्य पर्यायार्थादेशादित्यादि सप्तभंगीभाक् परिणामो वेदितव्यः । सोयं परिणामः कालस्योपकारः, सकृत्सर्वपदार्थगस्य परिणामस्य बाह्य कारणमंतरेणानुपपत्तेर्वर्तनात् यत्तद्वाह्यं निमित्तं स कालः । ननु च कालस्य परिणामो यद्यस्ति तदासौ बाह्यान्यनिमित्तापेक्षं सन्निमित्तं परिणाममात्मसात्कुर्वदपरनिमित्तापेक्षमित्यनवस्था स्यात् । कालपरिणामस्य बाह्यनिमित्तानपेक्षत्वे पुद्गला. दिपरिणामस्यापि बाह्यनिमित्तापेक्षा मा भूत् । अथ कालस्य परिणामो नास्ति पूर्व परिणामिसत्त्वादिति । साधनमप्रयोजकं स्यात्तेन व्यभिचारात् । ततो न कालस्य परिणामोऽनुमापक इति कश्चित् । सोपि न विपश्चित् ; कालस्य सकलपरिणामनिमित्तत्वेन वपरिणामनिमित्तत्वसिद्धेः । सकलावगाहहेतुत्वेनाका. शस्य खावगाहहेतुवत् सर्वविदः सकलार्थसाक्षात्कारित्वेन खात्मसाक्षात्कारित्ववद्वान्यथा तदनुपपत्तेः । न चैवं पुद्गलादयः सकलपरिणामहेतवः, खपरिणामहेतुत्वेपि सकलपरिणामहेतुत्वाभावात् प्रतिनियतखपरिणामहेतुत्वात् । ये त्याहुः, नान्योन्यं परिणामयति भावान् नासौ स्वयं च परिणमते विविधपरिणामभाजां निमित्तमात्रं भवति काल इति । तेपि न कालस्यापरिणामित्वं प्रतिपन्नाः, सर्वस्य वस्तुनः परिणामित्वात् । न च स्वयं परिणमते इत्यनेन पुद्गलादिवत् महत्त्वादिपरिणामप्रतिषेधात् । न चासौ भावानन्योन्यं परिणमयतीत्यनेनापि तेषां स्वयं परिणममानानां कालस्य प्रधानकर्तृत्वप्रतिषेधात् । तस्यापि परिणामहेतुत्वं निमित्तमात्रं भवति काल इति वचनात् । ततः सर्वो वस्तुपरिणामो निमित्तद्रव्यहेतुक एवान्यथा तदनुपपत्तेरिति प्रतिपत्तव्यं । का पुनः क्रिया ? ॥ परिस्पंदात्मको द्रव्यपर्यायः संप्रतीयते । क्रिया देशांतरप्राप्तिहेतुर्गत्यादिभेदभृत् ॥ ३९ ॥ प्रयोगविस्रसोत्पादाद्वेधा संक्षेपतस्तु सा । प्रयोगजा पुनर्नानोत्क्षेपणादिप्रभेदतः ॥ ४० ॥ विस्रसोत्पत्तिका तेजोवातांभःप्रभृतिष्वियं । सर्वाप्यदृष्टवैचित्र्यात् प्राणिनां फलभागिनां ॥४१ क्रिया क्षणक्षयैकांते पदार्थानां न युज्यते । भूतिरूपापि वस्तुत्वहानेरेकांतनित्यवत् ॥ ४२ ॥ क्रमाक्रमप्रसिद्धेस्तु परिणामिनि वस्तुनि । प्रतीतिपदमापन्ना प्रमाणेन न वाध्यते ॥४३॥ . कथं पुनरेवं विधा क्रिया कालस्योपकारोस्तु यतस्तं गमयेत् कालमंतरेणानुपपद्यमानत्वात् परिणामवत् । तथाहि-सकृत्सर्वद्रव्यक्रिया बहिरंगसाधारणकारणा, कारणापेक्षकार्यत्वात् परिणामवत् सकृत्सवपदार्थगतिस्थित्यवगाहवद्वा यत्तद्वहिरंगसाधारणकारणं स कालोन्यासंभवात् । के पुनः परत्वापरत्वे ? विप्रकृष्टेतरदेशापेक्षाभ्यां प्रशस्तेतरापेक्षाभ्यां च परत्वापरत्वाभ्यामनेकांतप्रकरणात् अपरदिक्संबंधिनि निवेद्ये वृद्धलुब्धके परत्वप्रत्ययकारणं परत्वं, परदिक्संबंधिनि च प्रशस्ते कुमारतपखिन्यपरत्वप्रत्ययहेतुरपरत्वं न तद्धि गुणकृतं न वाहेतुकमिति तद्धेतुना विशिष्टेन भवितव्यं । स नः काल इति । काले तर्हि दिग्भेदगुणदोषानपेक्षे परत्वापरत्वे परः कालोऽपरः काल इति प्रत्ययविशेषनिमित्ते किं कृते स्यातामिति चेत् , अध्यारोपकृते गौणे इति केचित् । स्वहेतुके मुख्ये एवास्त्वन्यप्रत्ययसमधिगमत्वादित्यन्ये । न चैवं सर्वद्रव्येषु खहेतुके परत्वापरत्वे प्रसज्येते, निंबादौ खहेतुकस्य तिक्तत्वादेर्दर्शनादोदनादावपि तस्य स्खहेतुकत्वप्रसंगात् निंबादिसंस्कारानपेक्षत्वापत्तेः । व्यवहारकालस्य परिणामक्रियापरत्वापरत्वैरनुमेयत्वाच्च न मुख्यकालापेक्षया चोद्यमनवा । द्विविधो ह्यत्र कालो मुख्यो व्यवहाररूपश्च । तत्र मुख्यो वर्तनानुमेयः, परस्तु परिणामाद्यनुमेयः प्रतिपादितः सूत्रेऽन्यथा परिणामादिग्रहणानर्थक्यप्रसंगात् वर्तनाग्रहणेनैव पर्याप्तत्वात् । कः पुनरसौ मुख्यः कालो नाम ? ॥ लोकाकाशप्रभेदेषु कृत्स्नेष्वेकैकवृत्तितः । प्रतिप्रदेशमन्योन्यमबद्धाः परमाणवः ॥ ४४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522