Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 438
________________ पञ्चमोऽध्यायः। ४२९ वक्तुः शब्दोच्चारणार्थक्यात् । तृतीयपक्षे तु उभयदोषानुषंगः । एतेन क्रियासामान्येन क्रियाविशेषण तदुभयेन चान्वितस्य साधनसामान्यस्याभिधानं निरस्तं, क्रियायाश्च साधनसामान्येन साधनविशेषेण तदुभयेन वान्वितयोः प्रतिपादनमाख्यातं, ततो न प्रतिपाद्यबुद्धावन्वितानां पदार्थानामभिधानं प्रतीतिविरोधात् । प्रतिपादकबुद्धौ तु तेषामन्वितत्वप्रतिपत्तावपि नान्विताभिधानसिद्धिस्तत्र तेषां परेणाभिहितानामन्वयात् । अत एवाभिहितान्वयः श्रेयानित्यन्ये, तेषामप्यभिहिताः पदार्थाः शब्दांतरेणान्वीयंते बुद्ध्या वा ? न तावदाद्यः पक्षः, शब्दांतरस्याशेषपदार्थविषयस्य कस्यचिदनिष्टेः । द्वितीयपक्षे तु बुद्धिरेव वाक्यं स्यान्न पुनः पदान्येव, ततो वाक्यार्थाप्रतिपत्तेः पदार्थेभ्योपेक्षाबुद्धिसंनिधात् परस्परमन्वि. तेभ्यो वाक्यार्थप्रतिपत्तिः । परंपरया पदेभ्य एव भावान्न ततो व्यतिरिक्तं वाक्यमस्तीति चेत् , तर्हि प्रकृतिप्रत्ययेभ्यः प्रकृतिप्रत्ययार्थाः प्रतीयंते तेभ्योपेक्षाबुद्धिसंनिधानादन्योन्यमन्वितेभ्यः पदार्थप्रतिपत्ति. रिति प्रकृत्यादिव्यतिरिक्तं पदमपि मा भूत् , प्रकृत्यादीनामन्वितानामभिधानमभिहितानामन्वये पदार्थप्रतिपत्तिसिद्धेः । स्यान्मतं, पदमेव लोके वेदे वार्थप्रतिपत्तये प्रयोगार्ह न तु केवला प्रकृतिः प्रत्ययो वा पदादयो वांत्यतदुत्पादनार्थ यथाकथंचित्तदभिधानात्तत्त्वतस्तदभावः । तदुक्तं । अथ गौरित्यत्र कः शब्द ? गकारौकारविसर्जनीया इति भगवान् पवर्ष इति । यथैव हि वर्णोनंशः प्रकल्पितमात्राभेदस्तथा गौरिति पदमप्यनंशमपोद्धृत्य गकारादिभेदं स्वार्थप्रतिपत्तिमवसीयते इति । तदप्यनालोचितवचनं, वाक्यस्यैवं तात्त्विकत्वसिद्धेस्तयुत्पादनार्थ ततोपोद्धृत्य पदानामुपदेशाद्वाक्यस्यैव लोके शास्त्रे वार्थप्रतिपत्तये प्रयोगार्हत्वात् । तदुक्तं । “द्विधा कैश्चित्पदं भिन्नं चतुर्धा पंचधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिति ॥” ततः प्रकृत्यादिभ्योवयवेभ्यः कथंचिद्भिन्नमभिन्नं च पदं प्रातीतिकमभ्युपगंतव्यं न पुनः सर्वथानंशवर्णवत्तद्राहकाभावात् । तद्वत्पदेभ्यः कथंचिद्भिन्नं च वाक्यं प्रतीतिपदमास्कंददुपगम्यतां न च द्रव्यरूपं भावरूपं वा । एकानेकखभावं चिंतितप्रायमिति स्थितमेतच्छब्दवतः पुद्गला इति । शब्दस्य वर्णपदवाक्यरूपस्यान्यस्य च पुद्गलस्कंधपर्यायत्वसिद्धेराकाशगुणत्वेनामूर्तद्रव्यत्वेन स्फोटात्मतया वा विचार्यमाणस्यायोगात् ॥ कः पुनर्बधः? पुद्गलपर्याय एव प्रसिद्धो येन बंधवंतः पुद्गला एव स्युरित्यारेकायामिदमाह; बंधो विशिष्टसंयोगो व्योमात्मादिष्वसंभवी । पुद्गलस्कंधपर्यायः सक्तुतोयादिबंधवत ॥ ६॥ द्रव्ययोरप्राप्तिपूर्विका प्राप्तिः संयोगः स चाबाधितसंयुक्तप्रत्ययात्प्रसिद्धः, संयोगमंतरेण तस्यानुपपत्तेः । प्रत्यक्षतः कचित्संयुक्तप्रत्ययोऽसिद्धस्तस्य तत्पृष्टभाविविकल्परूपत्वादिति चेत् न, अगृहीतसंकेतस्यापि प्रत्तिपत्तुः शब्दयोजनामंतरेण खार्थव्यवसायात्मनि प्रत्यक्षे संयुक्तप्रत्ययप्रसिद्धेनिर्विकल्पकप्रत्यक्षस्य सर्वथा निराकृतत्वात् । तथा दृष्टे कचित्संयोगे संयुक्तविकल्पो युक्तो नीलप्रत्ययवत् तस्यासत्यत्वप्रसंगात् । न चासावसत्यो बाधकाभावात् । ननु च संयुक्तप्रत्ययः सत्यस्तद्विषयस्य वृत्तविकल्पानवस्थादिदोषदूषितत्वादवयविप्रत्ययवदित्येतदस्ति तद्बाधकं । तथाहि-संयोगः खाश्रये वर्तमानो यद्येकदेशेन वर्तते तदा सावयवः स्यात् , खावयवेषु च खतो भिन्नेषु तस्यैकदेशांतरेण वृत्तौ परापरदेशकल्पनेऽनवस्था । सर्वात्मना प्रत्येकं तत्र तस्य वृत्तौ संयोगानेकत्वप्रसंगस्तथा सत्येकैकस्मिन् संयोगे संयोगप्रत्ययप्रसंगः । सकृदने कसंयुक्तप्रत्ययप्रसंगश्च । नैकदेशेन वर्तते नापि सर्वात्मना । किं तर्हि ? वर्तत एवेति चायुक्तं, प्रकारांतरेण कचित्कस्यचिद्वर्तमानस्यादृष्टेः खाश्रयाभिन्नरूपस्तत्संयोगिना चैव प्रत्यासनतयोत्पत्तौ न ततोर्थातरं किंचिदित्येकांतवादिनामुपालंभो न पुनः स्याद्वादिनां, तेषां खाश्रयात्कथंचिदिन्नस्य संयोगस्याभिमतत्वात् संयोगव्यतिरेकेणानुपलब्धेः संयोगस्य तद्भिन्नत्वसिद्धेः, प्राक् पश्चाच्च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522