Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 442
________________ पञ्चमोऽध्यायः । 1 वत् । चक्षुर्बुद्धौ रूपं प्रतिभासते न पुनस्तदभिन्नोवयवीति ब्रुवाणः कथं स्वस्थः ? कथं रूपादभिन्नोवयवी रूपमेव न स्यादिति चेत् तस्य ततः कथंचिद्भेदात् । न हि सर्वथा गुणगुणिनोरभेदमात्रमाचक्ष्महे प्रतीतिविरोधात् पर्यायार्थतस्तयोर्भेदस्यापि प्रतीतेः । सर्वथाभेदे तयोर्भेद इव गुणगुणिभावानुपपत्तेः गुणखात्मवत्कुटपटवच्च । तत्र द्रव्यार्थिकप्राधान्याद्रव्यखरूपादभिन्नत्वाद्रूपस्य चाक्षुषत्वे द्रव्यस्य चाक्षुषत्वसिद्धिः स्पृश्यादभिन्नस्य स्पर्शस्याभावात्तत्र तस्य स्पर्शनत्वसिद्धिरिति चेत् पर्यायार्थिकप्राधान्याच्च द्रव्याद्भेदेपि रूपस्येव द्रव्यस्यापि चाक्षुषत्वोपगमान्न तस्याचाक्षुषत्वं नाप्यस्पर्शनत्वं स्पर्शस्येव तद्रव्यस्य स्पर्शनत्वप्रतीतेः । न च दर्शनं स्पर्शनं च द्रव्यमिति द्वींद्रियग्राह्यं द्रव्यमुपगम्यते तस्य प्राणरसनश्रोत्रमनोग्राह्यत्वेनापि प्रसिद्धेः । रूपादिरहितस्य द्रव्यस्यैव द्रव्यरहितानां रूपादीनां प्रत्यक्षाद्यविषयत्वादसर्वपर्यायाणां द्रव्याणां मतिश्रुतयोर्विषयत्वव्यवस्थापनात् । इदमेव हि प्रत्यक्षस्य प्रत्यक्षत्वं यदनात्मन्यविवेकेन बुद्धौ स्वरूपस्य समर्पणं । इमे पुना रूपादयो द्रव्यरहिता एवामूल्यदानक्रयिणः स्वरूपं च नोपदर्शयंति प्रत्यक्षतां च खीकर्तुमिच्छंतीति स्फुटमभिधीयतां । एतेन श्रुतज्ञानेप्यप्रतिभासमानाः श्रुतज्ञानप - रिच्छेद्यत्वं स्वीकर्तुमिच्छंतस्त एवामूल्यदानक्रयिणः प्रतिपादितास्तदा हितद्रव्यवत् । ततः प्रतीतिसिद्धमवयविनः चाक्षुषत्वं स्पर्शनत्वादि समुपलक्षयति बाधकाभावात् ॥ किं पुनर्द्रव्यस्य लक्षणमित्याह ; सद्द्रव्यलक्षणम् ॥ २९ ॥ अथ विशेषतः सद्द्रव्यस्य लक्षणं सामान्यतो वा ? यदि विशेषतस्तदा पर्यायाणां द्रव्यत्वप्रसंगादतिव्याप्तिर्नाम लक्षणदोषः, अव्याप्तिश्च त्रिकालानुयायिनि द्रव्ये सद्विशेषाभावात् वर्तमानद्रव्य एव तद्भावात् । यदि पुनः सामान्यतस्तद्रव्यस्य लक्षणं शुद्धमेव द्रव्यं स्यादिति सैवाव्याप्तिरशुद्धद्रव्ये तदभावादिति वदतं प्रत्युच्यते ; सद्रव्यलक्षणं शुद्धमशुद्धं सविशेषणं । प्रोक्तं सामान्यतो यस्मात्ततो द्रव्यं यथोदितं ॥ १ ॥ न हि विशेषतः सद्द्रव्यलक्षणं यतोत्रातिव्याप्यव्याप्ती स्यातां सामान्यतस्तस्य तल्लक्षणत्वात् । न चैवं शुद्धद्रव्यमेव सल्लक्षणं स्यादशुद्धद्रव्यस्यापि लक्षणत्वोपपत्तेः । ततो नाव्याप्तिर्लक्षणस्य । यथैव हि देशकॉलेरविच्छिन्नं सर्वत्र सर्वदा सर्वथा वस्तुनि सत्सदिति प्रत्ययाभिधानव्यवहारनिबंधनं सत्तासामान्यं शुद्धद्रव्यलक्षणमबाधमनुभूयमानमाबालप्रसिद्धं तथा सर्वद्रव्यविशेषेषु द्रव्यं द्रव्यमित्यनुभूतबुद्ध्यभिधाननिबंधनद्रव्योपाधि सदेव द्रव्यत्वमशुद्धद्रव्य सविशेषणस्य सत्त्वस्याशुद्धत्वात् । एवं जीवपुद्गलधर्माधर्माकाशकालद्रव्यं प्रत्येतव्यं । क्रमयौगपद्यवृत्ति स्वपर्यायव्यापि जीवत्वविशेषणस्य सत्त्वस्य जीवद्रव्यत्वात्तादृक् पुद्गलत्वविशिष्टस्य पुद्गलद्रव्यत्वात् क्रमाक्रमभाविधर्मपर्यायव्यापिधर्मत्व विशेषणस्य धर्मद्रव्यत्वात्, तथाविधाधर्मत्वोपहितस्याधर्मद्रव्यत्वात् तादृशाकाशत्वोपाधेराकाशद्रव्यत्वात्, क्रमाक्रमभाविपर्यायव्यापिकालत्वविशिष्टस्य कालद्रव्यत्वात् ॥ I 2 Jain Education International ४३३ नन्वस्तु सद्द्रव्यस्य लक्षणं तत्तु नित्यमेव, तदेवेदमिति प्रत्यभिज्ञानात् । तदनित्यत्वेऽघटनात् सर्वदा बाधकरहितत्वादिति कश्चित्, प्रतिक्षणमुत्पादव्ययात्मकत्वान्नश्वरमेव तद्विच्छेदप्रत्ययस्याभ्रांतस्यान्यथानुपतेरित्यपरः । तं प्रत्याह; - ५५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522