Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 440
________________ पञ्चमोऽध्यायः। ४३१ माणूनामपि प्रमाणसिद्धत्वात् । तथाहि-अष्टाणुकादिस्कंधो भेद्यो मूर्तत्वे सति सावयवत्वात् कलशवत् । योसौ तद्भेदाज्जातोनंशोवयवः स परमाणुरिति प्रमाणसिद्धाः परमाणवः स्कंधवत् ॥ भेदसंघातेभ्य उत्पद्यते ॥ २६ ॥ संहतानां द्वितयनिमित्तवशाद्विदारणं भेदः, विविक्तानामेकीभावः संघातः । द्वित्वाविवचनप्रसंग इति चेन्न, बहुवचनस्यार्थविशेषज्ञापनार्थत्वात्ततो भेदेन संघात इत्यस्याप्यविरोधः । उत्पूर्वः पदिर्जात्यर्थस्तेनोत्पद्यते जायत इत्युक्तं भवति । तदपेक्षो हेतुनिर्देशो भेदसंघातेभ्य इति निमित्तकारणहेतुषु सर्वासां प्रदर्शनाद्भेदसंघातेभ्य उत्पद्यत इति । ननु च नोत्पद्यतेणवोऽकार्यत्वाद्गगनादिवदिति कश्चित् , स्कंधाश्च नोत्पद्यते सत्त्वमेव तेषामाविर्भावादित्यपरः । तं प्रत्यभिधीयते; उत्पद्यतेणवः स्कंधाः पर्यायत्वाविशेषतः । भेदात्संघाततो भेदसंघाभ्यां वापि केचन ॥१॥ इति सूत्रे बहुत्वस्य निर्देशाद्वाक्यभिद्गतेः । निश्चीयतेन्यथा दृष्टविरोधस्यानुषंगतः ॥२॥ स्कंधस्यारंभका यद्वदणवस्तद्वदेव हि । स्कंधोणूनां भिदारंभनियमस्यानभीक्षणात् ॥३॥ उत्पद्यतेऽणवः पुद्गलपर्यायत्वात् स्कंधवत् । न हि पार्थिवादिपरमाणवोपि पृथिव्यादिद्रव्याण्येव, पृथिव्यादिपरमाणुस्कंधद्रव्यगतिषु पृथिवीत्वादिप्रत्ययहेतोरूर्खतासामान्याख्यस्य पृथिव्यादिद्रव्यस्य व्यवस्थापनात् । ततो न तेषां पर्यायत्वमसिद्धं । परमाणूनां कारणद्रव्यत्वनियमादसिद्धमेवेति चेन्न, तेषां कार्यत्वस्यापि सिद्धेः । यथैव भेदात् संघाताभ्यां च स्कंधानामुत्पत्तेः कार्यत्वं तथाणूनामपि भेदादुत्पत्तेः कार्यत्वसिद्धेरन्यथा दृष्टविरोधस्यानुषंगात् । न हि स्कंधस्यारंभकाः परमाणवो न पुनः परमाणोः स्कंध इति नियमो दृश्यते, तस्यापि भिद्यमानस्य सूक्ष्मद्रव्यजनकत्वदर्शनात् भिद्यमानपर्यंतस्य परमाणुजनकत्वसिद्धेः ॥ भेदादणुः ॥ २७ ॥ सामर्थ्यादवधारणप्रतीतेरेवकारावचनं अब्भक्षवत् । यस्मात्भेदादणुरिति प्रोक्तं नियमस्योपपत्तये । पूर्वसूत्रात्ततोणूनामुत्पादे विदितेपि च ॥१॥ अणवः स्कंधाश्च भेदसंघातेभ्य उत्पद्यते इति वचनात्स्कंधानामिवाणूनामपि तेभ्य उत्पत्तिविधानान्नियमोपपत्त्यर्थमिदं सूत्रं भेदादणुरिति प्रोच्यते । तस्माद्भेदादेवाणुरुत्पद्यते न संघाताद्भेदसंघाताभ्यां वा स्कंधवत् । भेदादणुरेवेत्यवधारणानिष्टेश्च न स्कंधस्य भेदादुत्पत्तिर्निवृत्तिभैंदादेवेत्यवधारणस्येष्टत्वात् ॥ विभागः परमाणूनां स्कंधभेदान्न वाणवः । नित्यत्वादुपजायते मरुत्पथवदित्यसत् ॥ २॥ संयोगः परमाणूनां संघातादुपजायते । न स्कंधस्तद्वदेवेति वक्तुं शक्तेः परैरपि ॥३॥ ननु च संघाततः संयोगविशेष एव ततः कथं परमाणूनां परस्परं संयोगः समुपजायेत तस्यासंयोगजत्वात् । सर्वत्रावयवसंयोगपूर्वस्यावयविसंयोगस्य प्रसिद्धेरिणादौ द्वितंतुकसंयोगवत् परस्परमवयवानां तु संयोगस्यान्यतरकर्मजस्योभयकर्मजस्य वा प्रतीतेस्खलद्रूपत्वात् । ततः संघातादवयविन एव स्कंधापरनाम्न उत्पत्तिर्न संयोगस्येति चेत् , तर्हि विभागो भेद एव प्रतिपाद्यते ततः कथं व्यणुकादेः स्कंधस्य विभागः समुपजायेत तस्याविभागजत्वात्सर्वत्रावयवविभागपूर्वस्यावयविविभागस्य विभागजविभागस्य वा प्रसिद्धेराकाशस्कंधदलविभागवत् । परस्परमवयवानां तु विभागस्यान्यतरकर्मजस्योभयकर्मजस्य वा प्रतीते. रबाध्यत्वात् कथं घणुकादिस्कंधभेदाद्विभागस्यैवोत्पत्तिरभ्युपगम्यते भवद्भिः? तस्यावयवभेदादाकाशाद्वि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522