Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 439
________________ तत्त्वार्थश्लोकवार्तिके [ सू० २५ तदाश्रयद्रव्यसद्भावेपि संयोगस्याभावात्ततो भेदस्यापि प्रतीतिविरोधाभावात् । नन्वसंयुक्तद्रव्यलक्षणाभ्यामुपसर्पणाप्रत्ययवशात्संयुक्तयोस्तयोरुत्पत्तेर्नापरः संयोगोवभासत इति चेन्न, तयोर संयुक्त परिणाम त्यागेन संयुक्त परिणामस्य प्रतीतेः । संयुक्तयोः पुनर्विभागपरिणामवत् । यावेव संयुक्तौ तत्तूभयोपलब्धौ तावेव च संप्रति भक्तौ दृश्येते इति प्रत्यभिज्ञानात् संयोगविभागाश्रयद्रव्ययोरवस्थितत्वसिद्धेः । न च प्रत्यभिज्ञानमप्रमाणं तस्य प्रत्यक्षवत्स्वविषये प्रमाणत्वेन पूर्वं समर्थनात् । नन्वेवं प्रसिद्धोपि संयोगः कथं व्योमात्मादिष्वसंभवी विशेषः पुद्गलेषु सिध्येद्यतो बंध : पुद्गलानामेव पर्यायः स्यादिति चेत्, तदेकत्व - परिणामहेतुत्वात्तस्य विशिष्टत्वसिद्धिः सक्ततोयादिबंधवत् । तर्हि यथा सक्ततोयादीनां संयोगः पिंडैकत्वपरिणामहेतुस्तथा व्योमात्मादीनां तेषामेकद्रव्यत्वप्रसंगात् । संयोगमात्रे तु सत्यपि न तत्प्रसंग: । पुरुषतदासरणवत् । ततोति पुद्गलानां बंधस्तदेकत्वपरिणामान्यथानुपपत्तेः कस्यचिदवयवद्रव्यस्यैकस्मादनेकपुद्गलपरिणामस्यासंभवादसिद्धस्तदेकत्वपरिणाम इति चेन्न तस्य प्राक् साधितत्वात् । जीवकर्मणोबैधः कथमिति चेत्, परस्परं प्रदेशानुप्रवेशान्न त्वेकत्वपरिणामात्तयोरेकद्रव्यानुपपत्तेः 'चेतनाचेतनावेतौ बंघं प्रत्येकतां गतौ' इति वचनात्तयोरेकत्वपरिणामहेतुर्बधोस्तीति चेन्न, उपसरतस्तदेकत्ववचनात् । भिन्नौ लक्षणतोत्यंतमिति द्रव्यभेदाभिधानात् । ततः पुद्गलानामेवैकत्वपरिणाम हेतुबंध इति प्रतिपत्तव्यं बाधकाभावात् । स च स्कंधधर्म एव ॥ ४३० तथैवांतरं सौक्ष्म्यं परमाणुष्वसंभवि । स्थौल्यादिवत्प्रपत्तव्यमन्यथानुपपत्तितः ॥ ७ ॥ परमसौक्ष्म्यस्याणुधर्मत्वमणूनां तत एव व्यवस्थानात् सामर्थ्यादपरसौक्ष्म्यं बिल्वाद्यपेक्षया बदरादिषु स्कंधपरिणामः बाचेंद्रियग्राह्यत्वात् । स्थौल्यसंस्थानभेदतमश्छायातपोद्योतवत् शब्दबंधवच व्यणुकादिष्वबाचेंद्रियग्राह्यमपि सौक्ष्म्यं स्कंधपर्याय एवापेक्षिकसूक्ष्मात्मत्वाद्वदरादिसैौक्ष्म्यवत् । एतेन कार्मणशरीरादौ सौक्ष्म्यस्य स्कंधपर्यायत्वं साधितं । तथास्मदादिबायेंद्रियग्राह्याः स्थौल्यादयः सूक्ष्मपर्याय स्थौल्यत्वादस्मदादिबायेंद्रियग्राह्यस्थौल्यादिवत् ॥ अणवः स्कंधाश्च ॥ २५ ॥ प्रदेशमात्रभाविस्पर्शादिपर्यायप्रसवसामर्थ्येनाण्यं ते शब्दयन्ते इत्यणवः सौक्ष्म्यादात्मादय आत्ममध्या आत्मांताश्च । तथा चोक्तं । "आत्मादिमात्ममध्यं च तथात्मांतमतींद्रियं । अविभागं विजानीयात् परमाणुमनंशकं” इति । स्थौल्यात् ग्रहणनिक्षेपणादिव्यापारास्कंदनात् स्कंधा, उभयत्र जात्यपेक्षा बहुवचनं । अणुजात्याधाराणां स्कंधजात्याधाराणां तावंतरतज्जातिभेदानामनंतत्वात् । अणुस्कंधा इत्यस्तु लघुत्वादिति चेन्नोभयत्रसंबंधार्थत्वाद्भेदकरणस्य । स्पर्शरसगंधवर्णवतोणवः, शब्दबंध सौक्ष्म्य स्थौल्य संस्थानभेदतमश्छायातपोद्योतवंतश्च स्कंधा इति । वृत्तौ पुनः समुदायस्यार्थवत्त्वादवयवार्थाभावात् भेदेनाभिसंबंध: कर्तुमशक्यः ॥ किं पुनरनेन सूत्रेण कृतमित्याह; अणवः पुद्गलाः केचित्स्कंधाचेति निवेदनात् । अण्वेकांतः प्रतिक्षिप्तः स्कंधैकांतश्च तत्त्वतः १ नव एवेत्येकांतः श्रेयान् स्कंधानामक्षबुद्धौ प्रतिभासनात् । तत्र तत्प्रतिभासस्य भ्रांतत्वे बहिरंतश्च परमाणूनामप्रतिभासनान्न प्रत्यक्षमभ्रांतं स्यात् । स्वसंवेदनेपि संवित्परमाणोरप्रतिभासनात् । तथोपगमे सर्वशून्यतापत्तिरनुमानस्यापि परमाणुग्राहिणोसद्भावात् भ्रांतात्प्रत्यक्षतः कस्यचिन्न लिंगस्याव्यवस्थितेः कुतः परमाण्वेकांतवादः पारमार्थिकः स्यात् ? स्कंधैकांतस्तत्त्वतोस्त्वित्यपि न सम्यक्, पर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522