Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 436
________________ . पञ्चमोऽध्यायः । इति स्फोट इत्यभिप्रायात् ; तदाप्येतस्यैकानेकात्मकत्वे स्याद्वादसिद्धिरात्मन एव वाक्यार्थग्राहकत्वपरितस्य भाववाक्यस्य संप्रत्ययात्, तस्य स्फोट इति नामकरणे विरोधाभावात् । तस्य निरंशत्वे तु प्रतीतिविरोधः, सर्वदा तस्यैकानेकस्वभावस्य त्रिधांशकस्य प्रतिभासनात् । न चायमभिनिवेशः शब्दस्फोट इति श्रेयान् गंधादिस्फोटस्य तथाभ्युपगमार्हत्वात् । यथैव शब्दः वक्तसंकेतस्य क्वचिदर्थप्रतिपत्तिहेतुस्तथा गंधादिरपि, विशेषाभावात् । एवंविधमेव गंध समाघ्रायेत्थमेवंविधोर्थः प्रतिपत्तव्यः स्पर्श स्पृश्य रसं वाखाद्य रूपं वालोक्येत्थंभूतमीदृशो भावः प्रत्येतव्य इति समयग्राहिणां पुनः क्वचित्तादृशगंधाद्युपलंभात्तथाविधार्थनिर्णयप्रसिद्धेर्गेधादिज्ञाना हितसंस्कारस्यात्मनस्तद्वाक्यार्थप्रतिपत्तिहेतोर्गंधादिपदस्फोट तोपपत्तेः । पूर्वपूर्वगंधादिविशेषज्ञानाहितसंस्कारस्यात्मनोंत्यगंधादिविशेषोपलंभानंतरं गंधादिविशेषसमुदाय - गम्यार्थप्रतिपत्तिहेतोर्गंधादिवाक्यस्फोटत्वघटनात् । तथा लोकव्यवहारस्यापि कर्तुं सुशकत्वात् कायज्ञप्तिवत् । हस्तपादकरणमात्रिकांगहारादिस्फोटवद्वा हस्तादिपदादिस्फोट एवं घटते न पुनः खावयवक्रियाविशेषाभिव्यंग्यो हंसपक्ष्मादिर्हस्तस्फोटः स्वाभिधेयार्थप्रतिपत्तेर्हेतुरिति खल्पमतिसंदर्शनमात्रं । एतेन वित्कुटितादिः पादस्फोटो हस्तपादसमायोगलक्षणः करणस्फोटः करणद्वयरूपमात्रिका सहस्रलक्षणोंगहारादिस्फोटश्च न घटत इति वदन्ननवधेयवचनः प्रतिपादितो बोद्धव्यः, तस्यापि खखावयवाभिव्यंग्यस्य स्वाभिधेयार्थप्रतिपत्तिहेतोरशक्यनिराकरणात् । न चैवं स्याद्वाद सिद्धांतविरोधः श्रोत्रमतिपूर्वस्येव प्राणादिमतिपूर्वस्यापि श्रुतज्ञानस्येष्टत्वात् तत्परिणतात्मनस्तद्धेतोः स्फोट इति संज्ञाकरणात् गंधादिभिः कस्यचिदसंबंधाभावात् तत्र तदुपलंभनिमित्तकप्रत्ययानुपपत्तेर्न तथा परिणतो बुद्ध्यात्मा स्फोट: संभवतीति चेत्, तत एव शब्दस्फोटोपि मास्म भूत् शब्दस्यार्थेन सह योग्यतालक्षणसंबंधसद्भावात् तत्संभवे तत एवेतरसंभवः । गंधादीनामर्थेन सह योग्यताख्य संबंधाभावे संकेतसहस्रेपि ततस्तत्प्रतीत्ययोगाच्छब्दतः शब्दार्थवत्प्रतिपत्तुरगृहीतसंकेतस्य शब्दस्य श्रवणात् किमयमाहेति विशिष्टार्थे संदेहेन प्रश्नदर्शनादर्थ - सामान्यप्रतिपत्तिसिद्धेः । शब्दसामान्यस्यार्थसामान्येन योग्यता संबंध सिद्धिरिति चेत्, तत एव रूपादिसामान्यस्य खदर्थ्यार्थसामान्येन योग्यतासिद्धिरस्तु स्वयमप्रतिपन्नसंकेतस्यांगुल्यादिरूपदर्शने केनचित्कृते किमयमाहेति विशिष्टार्थे संशयेन प्रश्नोपलंभादर्थसामान्यप्रतिपत्तिसिद्धेरविशेषात् । तदेवं शब्दस्येवार्थे गंधादीनां प्रतिपत्तिं कुर्वतामाक्षेपसमाधानानां समानत्वादतः प्रकाशरूपे बुद्ध्यात्मनि स्फोटे शब्दादन्यस्मिन्नुपगम्यमाने गंधादिभ्यः परं स्फोटोर्थप्रतिपत्तिहेतुर्घाणादींद्रिय मतिपूर्वश्रुतज्ञानरूपोभ्युपगंतव्योऽन्यथा शब्दस्फोट|व्यवस्थितिप्रसंगात् । स च नैकस्वभावो नानास्वभावतया सदावभासनात् । एतेनानुसंहति - र्वाक्यमित्यपि चिंतितं, पदानामनुसंहतेर्बुद्धिरूपतया प्रतीतेरनुसंधेयमाणानामेकपदाकारायाः सर्वथैकखभावत्वाप्रतीतेः । अत्रापरे प्राहु:-न पदेभ्योऽर्थांतर मेकखभावमेकानेकखभावं वा वाक्यमाख्यातशब्दरूपं पदांतरापेक्षं, नापि पदसंघातवर्तिजातिरूपं वा न चैकानवयवशब्दरूपं क्रमरूपं वा, नापि बुद्धिरूपमसंहृतिरूपं वा न चाद्यपदरूपमंत्यपदरूपं वा, पदमात्रं वा पदांतरापेक्षं यथा व्यावर्ण्यतेऽन्यैः । "आख्यातशब्दसंघातो जातिः संघातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहति । पदमाद्यपदं चांत्यं पदसापेक्षमित्यपि । वाक्यं प्रतिमितिर्भिन्ना बहुधा न्यायवेदिना" मिति । किं तर्हि ? पदान्येव पदार्थप्रतिपादनपूर्वकं वाक्यार्थावबोधं विदधानानि वाक्यव्यपदेशं प्रतिपद्यते तथा प्रतीतेरिति तेषामपि यदि पदांतरार्थैरन्वितानामेवार्थानां पदैरभिधानात् पदार्थप्रतिपत्तिर्वाक्यार्थावबोधः स्यात्तदा देवदत्तपदाद्देवदत्ता - र्थस्य गामभ्याजेत्यादिपदवाक्यैरर्थैरन्वितस्याभिधानात् तदुच्चारणवैयर्थ्यमेव वाक्यार्थावबोधसिद्धेः । स्वयमविवक्षितपदार्थान्यवच्छेदार्थत्वान्न गामित्यादिपदोच्चारणवैयर्थ्यमिति चेत्, किमेवं 'स्फोटवादिनः प्रथम Jain Education International For Private & Personal Use Only ४२७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522