Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 435
________________ तत्त्वार्थश्लोकवार्तिके [ सू० २४ वाक्यात्मैकस्वभाव एव कथंचिदनेकस्वभावस्य तस्य प्रतीतेः । एतेन पदमाद्यमंत्यं चान्यद्वा पदांतरापेक्षं वाक्यमेकस्वभावमिति निरस्तं, तस्याप्याख्यातशब्दवत्कथंचिदनेकस्वभावस्य प्रतिभासनात् । एकोनवयवः शब्दो वाक्यमित्ययुक्तं, तस्य सावयवस्य प्रतिभासनात् । तस्य चावयवेभ्यो नर्थांतरत्वेऽनेकत्वमेव स्यात्, तदर्थीतरत्वे संबंधासिद्धिः उपकारकल्पनायां वाक्यस्यावयव कार्यत्वप्रसंगस्तैरुपकार्यत्वादवयवानां वा वाक्यकार्यता तेनोपक्रियमाणत्वात् उपकारस्य ततोर्थीतरत्वे संबंधासिद्धिरनुपकारात् तदुपकारांतरकल्पनायामनवस्थाप्रसंग इति वाक्यतदवयवाभेदभेदैकांतवादिनामुपालंभः । स्याद्वादिनां यथाप्रतीति कथंचित्तदभेदोपगमात् एकानेकाकारप्रतीतेरेका नेकात्मकस्य जात्यंतरस्य व्यवस्थितेः । न हि वाक्यश्रवणानंतरमनेकाकारप्रतीतिवत्सर्वदा सर्वत्र सद्भावप्रसंगात् । नापि वर्णपदमात्र हेतुका तदाकारत्वप्रसंगा - पदप्रतीतिवत् । ततो वाक्याकारपरिणतशब्दद्रव्यहेतुका वाक्यप्रतीतिवच्च तथा परिणतशब्दद्रव्यमेकानेकाकारं परमार्थतः सिद्धं बाधकाभावात् । कथं नानाभाषावर्गणापुद्गलपरिणामवर्णानामेकद्रव्यत्वमिति चेत्, तत्रोपचारान्नानाद्रव्यादिसंतानवत् । किं पुनस्तदनेकत्वोपचारनिमित्तमिति चेत्, तथा सदृशपरिणाम एव तद्वत् वर्णक्रमो वाक्यमित्यपरः । सोपि वर्णेभ्यो भिन्नमेकखभावं क्रमं यदि ब्रूयात्तदा प्रतीतिविरोधः तस्य श्रोत्रबुद्धावप्रतिभासनात् । तत्संबंधानुपपत्तेश्चानवयववाक्यवत् । वर्णेभ्योनतरत्ववत् क्रमस्य वर्णा एव न कश्चित्क्रमः स्यात् । सत्यमेतदेवं, यावंतो यादृशा ये च पदार्थप्रतिपाद वर्णा विज्ञातसामर्थ्यास्ते तथैव बोधका इति वचनात् ततोन्यस्य वाक्यस्य निराकरणादितीतरः । सोपि यदि वर्णानां क्रमं प्रत्याचक्षीत तदाग्निष्टोमेन यजेत स्वर्गकाम इत्याकारादयो ये यावंतश्च वर्णाः खेष्टवा - क्यार्थप्रतिपादने विज्ञातसामर्थ्यास्ते तावंत एव वेत्युद्गमेनापि समुच्चार्यमाणास्तथा स्युर्विशेषाभावात् । अथ येन क्रमेण विशिष्टास्ते तथा दृष्टास्तादृशा एव तदर्थस्यावबोधका इति मतं, तहींष्टः क्रमो वर्णानामन्यथा तेन विशेषणाघटनात् वर्णाभिव्यक्तेः क्रमो वर्णानां तेषामक्रमत्वात् । उपचारात्तु तस्य तत्र भावात्तद्विशेषणत्वमुपपद्यत एवेति चेन्न, एकांतनित्यत्वे वर्णानामभिव्यक्तेः सर्वथानुपपत्तेः उत्पत्तिसमर्थनात्तत्र मुख्यक्रमस्य प्रसिद्धेः । कः पुनरयं क्रमो नाम वर्णानामिति चेत्, कालकृता व्यवस्थेति ब्रूमः । कथमसौ वर्णानामिति चेत्, वर्णोपादानादुदात्ताद्यवस्थावत् । तपाधिकः क्रमो वर्णानामिति चेन्न, उदात्ताद्यवस्थानामप्यौपाधिकत्वप्रसंगात् । औपाधिक्युदात्ताद्यवस्था एव वाचो वर्णत्वात् ककारादिवदिति चेन्न, तेषां स्वयमनंशत्वासिद्धेः । स्वभावतस्तथात्वोपपत्तेरन्यथा ध्वनीनामपि स्वाभाविकोदात्तत्वाद्ययोगात् । ततः स्वकारणविशेषवशात् क्रमविशेषविशिष्टानामकारादिवर्णानामुत्पत्तेः कथंचिदनर्थांतरक्रमः । स च सादृश्यसामान्यादुपचारादेकः, प्रतिनियतविशेषाकारतया त्वनेक इति स्याद्वादिनामेकानेकात्मकः क्रमोपि वाक्यं न विरुध्यते । वर्णसंघातो वाक्यार्थप्रतिपत्तिहेतुर्वाक्यमित्यन्ये; तेषामपि न वर्णेभ्यो भिन्नः संघातोनंशः प्रतीतिमार्गावतारी, संघातत्व विरोधादवर्णोतरवत् । नापि ततोऽनर्थौतरमेव संघातः प्रतिवर्णसंघातप्रसंगात् । न चैको वर्णः संघातो भवेत् । कथंचिदन्योन्यखवर्णेभ्यः संघात इति चेत्, कथमेकानेकखभावो न स्यात् ? कथंचिदनेकवर्णादभिन्नत्वादने कस्तत्वात्मवत् । संघातत्व परिणाम देशाततो भिन्नत्वादेकः स्यादिति प्रतीतिसिद्धेः । एतेन संघातवर्तिनी जातिर्वाक्यमिति चिंतितं, तस्याः संघातेभ्यो भिन्नायाः सर्वथानुत्पत्तेः । कथंचिदभिन्नायास्तु संघातवदेकानेकस्वभावत्वसिद्धेर्नानंशः शब्दात्मा कश्चिदेको वाक्यस्फोटोस्ति श्रोत्रबुद्धौ जात्यंतरस्यार्थप्रतिपत्तिहेतोः प्रतिभासनात् एकानेकात्मन एव सर्वात्मना वाक्यस्य सिद्धेः । यदि पुनरंतः प्रकाशरूपः शब्दस्फोट : पूर्ववर्णज्ञानाहितसंस्कारस्यात्मनोंत्यवर्णश्रवणानंतरं वाक्यार्थनिश्चय हेतुर्बुद्ध्यात्मा ध्वनिभ्योऽन्योभ्युपगम्यते, स्फुटत्यर्थोस्मिन् प्रकाशत ४२६ Jain Education International For Private & Personal Use Only L www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522