Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 433
________________ ४२४ तत्त्वार्थश्लोकवार्तिके [सू० २४ यस्य च गुणत्वात् । तथा चाहुरकलंक देवाः, 'शब्दः पुद्गलपर्यायः स्कंधः छायातपादिवदिति । स्यान्मतं, न शब्दः न पुद्गलस्कंधपर्यायोऽस्मदाद्यनुपलभ्यमानस्पर्शरूपरसगंधा श्रयत्वात्सुखादिवदिति । तदसत्, द्व्यणुकादिरूपादिना हेतोर्व्यभिचारात् । शब्दाश्रयत्वेस्मदाद्यनुपलभ्यमानानामप्यनुद्भूततया स्पर्शादीनां सद्भावसाधनात् । गंधाश्रयत्वे स्पर्शरूपरसवत् । गंधो हि कस्तूरिकादेर्गंधद्रव्याद्दूरे गंधं समुपलभ्यमाने घ्राणेंद्रिये संप्राप्तः खाश्रयद्रव्यरहितः न संभवति, गुणत्वाभावप्रसंगात् । नापि तदाश्रयद्रव्यमस्मदादिभिरुपलभ्यमानस्पर्शरूपरसं । न च तत्रानुभूतवृत्तयः स्पर्शरूपरसा न संति पार्थिवेष्यविरोधात् । यथा वायोरनुपलभ्यमानरूपरसगंधस्य तेजसश्चानुपलभ्यमानरसगंधस्य सलिलस्य चानुपलभ्यमानगंधस्य पर्या........... गगं स्पर्शरूपरसगंधाः प्रसिद्धास्तथानुपलभ्यमानस्पर्शरूपरसगंधस्यापि भाषावर्गणापुद्गलस्य पर्यायः शब्दो निस्संदेहं प्रसिद्ध्यत्येव । कथमन्यथैवमाचक्षाणः प्रतिक्षिप्यते परैः । न वायुगुणोनुष्णाशीतस्पर्शोपाकजः उपलभ्यत्वे सत्यस्मदाद्यनुपलभ्यमानरूपरसगंधाश्रयत्वात्सुखादिवत् । तथा न भासुररूपोपण स्पर्शस्तेजोद्रव्यगुण उपलभ्यत्वे सत्यस्मदाद्यनुपलभ्यमानगंधाश्रयत्वात् तद्वत् । तथा न शीतस्पर्शनीलरूपमधुररसाः सलिलगुणाः उपलभ्यत्वे सत्यस्मदाद्यनुपलभ्यमानगंधाश्रयत्वात्तद्वदेवेति । यदि पुनः स्पर्शादयो द्रव्याश्रया एव गुणत्वात्सुखादिवत् यत्तद्रव्यं तदाश्रयः स वायुरनलः सलिलं क्षितिरित्यनुमानसिद्धत्वात्स्पर्शविशेषादीनां वाय्वादिगुणत्वस्य सामान्यार्पणया किं न भाषावर्गणपुद्गलद्रव्येण सहभावीष्टो येन तद्गुणो न स्यात् । विशेषार्पणात् यथा रूपादयः पर्यायास्तथा शब्दोपि पुद्गपर्याय इति कथमसौ द्रव्यं स्यात् ? षड्द्रव्यप्रतिज्ञानविरोधाच्च । शब्दद्रव्यस्य पृथिव्यादिवत्पुद्गलद्रव्येंतर्भावान्न तद्विरोध इति चेत्, गंधद्रव्यादीनामपि तद्वत्तत्रांतर्भावात्तद्विरोधासिद्धेर्गुणत्वं किमभिधीयते ज्ञानादीनां च द्रव्यत्वमस्तु जीवद्रव्येंतर्भावत्वाप्रसक्तेः द्रव्यसंख्यानियमाविघातात् । तथा च न कश्चिद्गुण इति द्रव्यस्याप्यभावः तस्य गुणवत्त्वलक्षणत्वात् । ततो द्रव्यगुणपर्यायव्यवस्थामिच्छता ज्ञानादिरूपादीनामिव शब्दस्य सहभाविनो गुणत्वं क्रमभुवस्तु पर्यायत्वमभ्युपगंतव्यं । क्रियावत्त्वं च शब्दस्यासिद्धं गंधादिवत् तदाश्रयस्य पुद्गलद्रव्यस्य क्रियावत्त्वोपचारात् । स्यान्मतं, न शब्दपर्यायः श्रोत्रग्राह्यो द्रव्यं साध्यते किं तु तदाश्रयः पुद्गलविशेष इति, तर्हि क्रियावद्रव्यपर्यायः शब्दः परमार्थतः साध्यः । स्यादाकूतं ते; न द्रव्यं शब्दः साध्यते, नापि सर्वथा पर्यायं । किं तर्हि ? द्रव्यपर्यायात्मा, ततो न कश्चिद्दोषः क्रियावत्त्वस्य हेतोरपिं परमार्थतस्तत्र सिद्धेः अनुवातप्रतिवाततिर्यग्वातेषु शब्दस्य प्रतिपत्त्यप्रतिपत्तीषत्प्रतिपत्तिदर्शनात् क्रियाक्रियावत्त्वसाधनादिति । किमेवं गंधादिर्द्रव्यपर्यायात्मा न साध्यते ? ' द्रव्यपर्यायात्मार्थ' इत्यकलंकदेवैरभिधानात् स्पर्शादीनां चेंद्रियार्थत्वकथनात्, स्पर्शरसरूपगंधशब्दास्तदर्था इति सूत्रसद्भाव पर्यायार्थप्राधान्यात् पर्याय एव गंधादयः शब्दस्तथा किमपर्यायः शब्दो ! द्रव्यार्थादेशात् द्रव्यमिति चेत्, तर्हि तथा विशेषणं कर्तव्यं । स्याद्द्रव्यं शब्द इति तदप्रयुक्तमपि वा तत्रैषितव्यं । ततो नैकांतेन द्रव्यं शब्दः स्याद्वादिनां सिद्धो यतस्तस्य द्रव्यत्वप्रतिषेधेपसिद्धांतः तस्यामूर्तद्रव्यत्वप्रतिषेधाद्वा न दोषः कश्चिदवतरति । कश्चिदाह-स्फोटोऽर्थप्रतिपत्तिहेतुर्न ध्वनयस्तेषां प्रत्येकं समुदितानां वार्थप्रतिपत्तिनिमित्ततानुपपत्तेः । देवदत्तादिवाक्ये दकारोच्चारणादेव तदर्थप्रतिपत्तौ शेषशब्दोच्चारणवैयर्थ्यान्न प्रत्येकं तन्निमित्तत्वं युक्तं, दकारस्य वाक्यांतरेपि दर्शनात् । संशयनिरासार्थं शब्दांतरोच्चारणमुचितमेवेति चेन्न, आवृत्त्या वाक्यार्थप्रतिपत्तिप्रसंगात् । वर्णातरेपि तस्यैवार्थस्य प्रतिपादनात् । न च समुदितानामेव वाक्यार्थप्रतिपत्तिहेतुत्वं प्रतिक्षणं विनाशित्वे समुदायासंभवात् । कल्पितस्य तत्समुदायस्य तद्धेतुत्वेतिप्रसंगात् । नित्यत्वाद्वर्णानां समुदायः संभवतीति चेत् न, अभिव्यक्तानां तेषां क्रमवृत्तित्वात्तदभिव्यंजकवायूनामनि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522