Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 430
________________ पञ्चमोऽध्यायः । ४२१ प्रोक्ता शब्दादिमंतस्तु पुंगलाः स्कंधभेदतः । तथा प्रमाण सद्भावादन्यथातदभावतः ॥ १ ॥ न हि परमाणवः शब्दादिमंतः संति विरोधात् स्कंधस्यैव शब्दादिमत्तया प्रतीतेः । शब्दस्याकाशगुणत्वान्न तद्वान् पुद्गलस्कंध इत्येके, तस्यामूर्तद्रव्यत्वादित्यन्ये । तान् प्रत्याह; — न शब्दः खगुणो बाह्यकरणज्ञानगोचरः । सिद्धो गंधादिवन्नैव सोमूर्तद्रव्यमप्यतः ॥ २ ॥ न स्फोटात्मापि तस्यैव स्वभावस्याप्रतीतितः । शब्दात्मनस्सदा नानास्वभावस्यावभासनात् ३ अंतःप्रकाशरूपस्तु शब्दे स्फोटोपरे ध्वनेः । यथार्थगतिहेतुः स्यात्तथा गंधादितोपरः ॥ ४ ॥ गंधरूपरसस्पर्शः स्फोटः किं नोपगम्यते । तत्राक्षेपसमाधानसमत्वात्सर्वथार्थतः ॥ ५ ॥ नाकाशगुणः शब्दो बाचेंद्रियविषयत्वाद्धादिवदित्यत्र न हेतुर्व्यभिचारी विपक्षावृत्तित्वात् । पटाकाशसंयोगेन व्यभिचार इतिचेन्न, तस्याकाशगुणत्वैकांताभावात् तदुभयगुणत्वात् । तत्र बाचेंद्रियवि - षयत्वासिद्धेः संयोगिनो गगनस्यातींद्रियत्वात् । पटस्येंद्रियविषयत्वेपि तत्संयोगस्य तद्योगात् । तदुक्तमन्यैः । “द्वयसंबंधसंवित्तिर्नैकरूपप्रवेदनात् । द्वयवरूपग्रहणे सति संबंध वेदनं ॥” इति । एतेनैतदपि प्रत्युक्तं । यदुक्तं यौगैः-न स्पर्शवद्रव्यगुणः शब्दोऽस्मदादिप्रत्यक्षत्वे सत्ययावद्द्रव्यभावित्वादकारणगुणपूर्वकत्वाद्वा सुखादिवदिति, पक्षस्य प्रकृतानुमानबाधितत्वात् । शब्दस्य द्रव्यार्थादेशादयावद्रव्य - भावित्वासिद्धिः खरूपादिवत् । पर्यायार्थादेशादकारणगुणपूर्वत्वस्याप्यसिद्धिः शब्दपरिणतानां पुद्गलानामपरापरसदृशशब्दारंभकत्वात् । अन्यथा वक्तृदेशादन्यत्र शब्दस्याश्रवणप्रसंगात् । ननु च वक्रुव्यापारात्पुद्गलस्कंधः शब्दतया परिणमन्नेकोनेको वा परिणमेत् ? न तावदेकस्तस्य सकृत्सर्वदिक्षु गमनासंभवात् । यदि पुनर्यावद्भिः सर्वदिकैः श्रोतृभिः श्रूयते शब्दस्तावानेव वक्रूव्यापारनिष्पन्नः तच्छ्रोत्राभिमुखं गच्छतीति तैर्मतं, तदा सदृशशब्दकोलाहलश्रवणं श्रोतृजनस्य कुतो न भवेत् ? सर्वेषां शब्दानामेकैकश्रोतृग्राह्यत्वपरिणामाभावादिति चेत्, त कैकः शब्द एकैकश्रोतृग्राह्यत्वपरिणतः सर्वदिक्कं गच्छन्नेकैकेनैव श्रोत्रा श्रूयते इत्यायातं । तच्चायुक्तं, एकदिकेषु सप्रणिधिषु श्रोतृषु स्थितेष्वत्यासन्न श्रोतृश्रोत्रस्य परापरश्रोतृश्रवणविरोधात् । परापर एव शब्दः परापरश्रोतृभिः श्रूयते न पुनः स एवेति चेत्, स तर्हि परा - परशब्दः किं वक्रुव्यापारादेव प्रादुर्भवदाहोखित्पूर्व श्रोतृशब्दात् ! प्रथमपक्षे कथमसौ परापरैः श्रोतृभिः श्रूयमाणः पूर्वपूर्वैः सममाकाशश्रेणिस्थैरपि न श्रूयते इति महदाश्चर्य । न चैवं कारणगुणपूर्वकः शब्दः सिद्ध्येत् । द्वितीयविकल्पे पर्यंतस्थित श्रोतृश्रुतशब्दादपि शब्दांतरोत्पत्तिः कथं न भवेत् ? पुद्गलस्कंधस्य तदुपादानस्य सद्भावात् । वनृव्यापारजनितवायुविशेषस्य तत्सहकारिणस्तत्राभावादिति चेत्, तर्हि वायवीयः शब्दोस्तु किमपरेण पुद्गलविशेषेण तदुपादानेन कल्पितेनादृष्टकल्पनामात्रहेतुना किं कर्तव्यं, तथोपगमे स्वमतविरोधात् । ततः स्याद्वादिनो दुर्निवार इति कश्चित् । सोप्यनालोचितवचनः, शब्दस्य गगनगुणत्वेपि प्रतिपादितदोषस्य समानत्वात् । तथाहि - शंखमुखसंयोगादाकाशे शब्दः प्रादुर्भवन्नेक एव प्रादुर्भवेदनेको वा ? प्रथमपक्षे कुतस्तस्य नानादिकैः श्रोतृभिः श्रवणं ? सकृत्सर्वदिक्कगमनासंभवात् । अथानेकस्तदा शब्दकोलाहलश्रुतिप्रसंगः समानः शब्दस्यानेकस्य सकृदुत्पत्तेः, सर्वदिक्काशेषश्रोतृश्रूयमाणस्य तावद्वा भेदसिद्धेः । यदि पुनरेकैकस्यैव शब्दस्यैकैकश्रोतृग्राह्यस्वभावतयोत्पत्तेर्न समानशब्दकलकलश्रुतिरिति मतं, तदैकदिक्षु समानप्रणिधिषु श्रोतृषु प्रत्यासन्नतम श्रोतृश्रुतस्य शब्दस्यांत्यत्वाच्छब्दांतरा - रंभकत्वविरोधाच्छेषश्रोतॄणां तच्छ्रवणं न स्यात् । तस्यापरशब्दारंभकत्वे चांत्यत्वाव्यवस्थितिः । प्रत्यासन्नतम श्रोतृश्रवणमपि न भवेत् तद्भावे वाद्य एव शब्दः श्रूयते नांत्य इति सिद्धांतव्याघातः । अथ प्रत्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522