Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 424
________________ • पञ्चमोऽध्यायः । ४१५ प्रतिषेधमियान्निर्विषयत्वप्रसंगात् । खरविषाणप्रतिषेधः कथमिति चेत्, न कथमपि सत्त्वाद्येकांतवाद - नामिति ब्रूमः । तदनेकांतवादिनां तु क्वचित्कदाचित्कथंचित् सत एवान्यत्रान्यदान्यथा प्रतिषेध इति सर्वमनवद्यम् । सर्वथैकांतस्य प्रतिषेधः कथमिति चेत्, कोऽयं सर्वथैकांतः । इदमेवेत्थमेवेति वा धर्मिणो धर्मस्य वाभिमननमिति चेत्, तर्हि तस्य सत एव निर्विषयसाधनमेव प्रतिषेधः । स्वरूपप्रतिषेधे तु सर्वथा प्रतीतिविरोधः स्यात् । दर्शन मोहोदये सति सदाद्येकांताभिनिवेशस्य मिथ्यादर्शनविशेषस्य प्रत्यात्मवेद्यत्वात् । निर्विषयत्वसाधने तु तस्य न प्रतीतिबाधा प्रतीयमानस्य वस्तुनि सत्त्वाद्यंशस्य धर्मित्वात् । नायं सर्वथा सत्त्वाद्येकांताभिनिवेशस्य विषयो वस्त्वंशः सर्वथा विरोधात् । एतेन प्रधानादिप्रतिषेधो व्याख्यातः प्रधानाद्यभिनिवेशस्य निर्विषयत्वसाधनात् । ततो नैकांतेनासतः प्रतिषेध इति सत एव परिणामस्य कथंचित्प्रतिषेधोपपत्तेः । सर्वथा नाभावः । स्यान्मतं, नास्ति परिणामोन्यानन्यत्वयोर्दोषादिति नोक्तत्वात् । उक्तमत्रोत्तरं, न वयं बीजादं कुरमन्यमेव मन्यामहे तदपरिणामत्वप्रसंगात् पदार्थतरवत् । नाप्यनन्यमेवांकुरभावानुषंगात् । किं तर्हि ? पर्यायार्थादेशाद्वीजा दंकुरमन्यमनुमन्यामहे द्रव्यार्थादेशादनन्यमिति पक्षांतरानुसरणाद्दोषाभावान्न परिणामाभावः । व्यवस्थिताव्यवस्थितदोषात्परिणामाभाव इति चेन्नानेकांतात् । न हि वयमंकुरे बीजं व्यवस्थितमेव ब्रूमहे विरोधादंकुर भावप्रसंगात् । नाप्यव्यवस्थितमेवांकुरस्य बीजपरिणामत्वाभावप्रसंगात् पदार्थांतर परिणामत्वाभाववत् । किं तर्हि ? स्याद्वीजं व्यवस्थितं स्यादवस्थितमंकुरे व्याकुर्महे । न चैकांतपक्षभावी दोषोऽनेकांतेष्वस्तीत्युक्तप्रायं । स्याद्वादिनां हि बीजशरीरादेरेव वनस्पतिकायिको बीजोंकुरादिः खशरीरपरिणाम भागभिमतो यथा कललशरीरे मनुष्यजीवोर्बुदादिखशरीरपरिणामभृदिति न पुनरन्यथा सः । तथा सति — मनुष्यनामकर्मायुषोरुदयात्प्रतिपद्यते । कललादिशरीरांगोपांगपर्यायरूपताम् ।। २९ । स जीवत्वमनुष्यत्वप्रमुखैरन्वयैर्यथा । व्यवस्थितः खकीयेषु परिणामेष्वशेषतः ॥ ३० ॥ कललादिभिः पुनः पूर्वैर्भावैः क्रमविवर्तिभिः । व्यतिरिक्तैः परत्रासौ न व्यवस्थित ईक्ष्यते ॥ तथा वनस्पतिर्जीवः स्वनामायुर्विशेषतः । वनस्पतित्वजीवत्वप्रमुखैरन्वयैः स्थितः ॥ ३२ ॥ स्वशरीरविवर्तेषु वीजादिषु परं न तु । पूर्वपूर्वेण भावेन तु स्थितः क्रमभाविनः ॥ ३३ ॥ । स्यान्मतं, न बीजमंकुरादित्वेन परिणमते वृद्ध्यभावप्रसंगात् यो हि यत्परिणामः स न ततो वृद्धि - मान् दृष्टो यथा पयःपरिणामो दध्यादिः बीजपरिणामश्चांकुरादिस्तस्मान्न ततो वृद्धिमान् इति बीजमात्रमंकुरादिः स्यादतत्परिणामो वेति । उक्तं च- " किं वान्यद्यदि तद्वीजं गच्छेदंकुरतामिह । विवृद्धिरंकुरस्य स्यात्कथं बीजादपुष्कलात् ॥” “यथेष्टं तै रसैः सोमैरौदकैश्च विवर्धते । तस्यैव सति बीजस्य परिणामो न युज्यते ॥” “आलिप्तं जतुना काष्ठं यथा स्थूलत्वमृच्छति । न तु काष्ठं तथैवास्ते जना विवर्धते ||” “तथैव यत्र तद्वीजमास्ते येनात्मना स्थितं । रसाश्च वृद्धिं कुर्वेति बीजं तत्र करोति किम् ॥” इति । तदेतदनालोचिततत्त्ववचनं, तद्वृद्धेरहेतुकत्वात् ॥ 1 यथा मनुष्यनामायुः कर्मोदय विशेषतः । जातो बालो मनुष्यात्मा स्तन्याद्याहारमाहरन् ॥ ३४ ॥ सूर्यातपादिसापेक्षः कायाग्निबलमादधन् । वीर्यंतराय विच्छेद विशेषविहितोद्भवं ।। ३५ ।। विवर्धते निजाहाररसादिपरिणामतः । निर्माणनामकर्मोपष्टंभादभ्यंतरादपि ॥ ३६ ॥ तथा वनस्पतिर्जीवः स्वायुर्नामोदये सति । जीवाश्रयोंकुरो जातो भौमादिरसमाहरन् ॥३७॥ तप्ताय स्पिडवत्तोयं स्वीकुर्वन्नेव वर्धते । आत्मानुरूपनिर्माणनामकर्मोदयाद्भुवम् ॥ ३८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522