Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 423
________________ तत्त्वार्थश्लोकवार्तिके [ सू० २२ अत एवाह;कालस्योपग्रहाः प्रोक्ता ये पुनर्वर्तनादयः । स्यात्त एवोपकारोतस्तस्थानुमितिरिष्यते ॥ २८॥ वर्तना हि जीवपुद्गलधर्माधर्माकाशानां तत्सत्तायाश्च साधारण्याः सूर्यगत्यादीनां च खकार्यविशेषानुमितखभावानां बहिरंगकारणापेक्षाकार्यत्वातंदुलपाकवत् । यत्तावबहिरंगकारणं स कालः । ननु कालवर्तनया व्यभिचारः खयं वर्तमानेषु कालाणुषु तदभावात् । न हि कालाणवः स्वसत्तानुभूतौ प्रयोजक- ' मपरमपेक्षते सर्वप्रयोजकस्वभावत्वात्स्वसर्वप्रयोजकस्वभावत्वविरोधात् । खस्य खावगाहहेतुत्वाभावे सर्वावगाहहेतुत्ववभावत्वविरोधात् । सर्वज्ञविज्ञानस्य खरूपपरिच्छेदकत्वाभावत्वविरोधवद्वा दिशः खस्मिन् पूर्वापररादिप्रत्ययहेतुत्वाभावे सर्वत्र पूर्वापरादिप्रत्ययहेतुत्वविरोधवद्वेति केचित् । कालवर्तनाया अनुपचरितरूपेणासद्भावात् यस्यासावन्येन वर्तते तस्य सा मुख्यवर्तना कर्मसाधनत्वात्तस्याः । कालस्य तु नान्येन वर्तते तस्य स्वयं खसत्तावृत्तिहेतुत्वादन्यथानवस्थाप्रसंगात् । ततः कालमा स्वतो वृत्तिरेवोपचारतो वर्तना । वृत्तिवर्तकयोर्विभागाभावान्मुख्यवर्तनानुपपत्तेः । शक्तिभेदात्तयोविभागे तु सा कालस्य यथा मुख्या तथा च बहिरंगनिमित्तापेक्षात्वं वर्तकशक्तेर्बहिरंगकारणत्वात् । ततो न तया व्यभिचारः। अकालवृत्तित्वे सति कार्यत्वादिति सविशेषणो वा हेतुः सामर्थ्यादवसीयते । यथा पृथिव्यादयः खतो. थीतरभूतज्ञानवेद्याः प्रमेयत्वादित्युक्तेप्यज्ञानत्वे सतीति गम्यते, अन्यथा ज्ञानेन स्वयं वेद्यमानेन व्यभिचारप्रसंगात् । नन्वत्र प्रमेयत्वादेवेत्यवधारणात्तदप्रमाणत्वे सतीति विशेषणमनुक्तमपि शक्यमवगंतुमन्यत्र तु कथमिति चेत्, कार्यत्वादेवेत्यवधारणाश्रयणादन्यत्राप्यकारणत्वे सतीति विशेषणं लभ्यत एव सामर्थ्यात् ततो न प्रकृतौ हेतुविशेषमिच्छंतौ हेत्वंतरं । नन्वेवं कालवृत्तेः कार्यत्वे तया व्यभिचाराभावादनर्थकं विशेषणोपादानमिति चेन्न, पर्यायार्थादेशात्कार्यत्वस्य तत्र भावात्तया व्यभिचारप्रसंगात् । तत्परिहारार्थ विशेषणोपादानस्यानर्थकत्वायोगात् । ततो वर्तनोपकारः कालसत्तां साधयत्येव ॥ कः पुनः परिणामः? द्रव्यस्य स्वजात्यपरित्यागेन प्रयोगविस्रसालक्षणो विकारः परिणामः । तत्र विस्रसापरिणामोनादिरादिमांश्च । चेतनद्रव्यस्य तावत्खजातेश्चेतनद्रव्यत्वाख्याया अपरित्यागेन जीवत्वभव्यत्वाभव्य - स्वादिरनादिरौपशमिकादिः पूर्वाकारपरित्यागाजहद्वृत्तिरादिमान् स तु कर्मोपशमाद्यपेक्षत्वादपौरुषेयत्वाद्वैस्रसिकः । अचेतनद्रव्यस्य तु लोकसंस्थानमंदराकारादिरनादिरिति । द्रव्यतयादिमानपुरुषप्रयत्नानपेक्षत्वादेव वैससिकः । प्रयोगजः पुनर्दानशीलभावनादिश्चेतनस्याचार्योपदेशलक्षणपुरुषप्रयत्नापेक्षत्वात् , घटसंस्थानादिरचेतनस्य कुलालादिपुरुषप्रयोगापेक्षत्वात् । धर्मास्तिकायादिद्रव्यस्य तु वैस्रसिकोऽसंख्येयप्रदेशित्वादिरनादिः परिणामः प्रतिनियतगत्युपग्रहहेतुत्वादिः । आदिमान् प्रयोगजो यंत्रादिगत्युपग्रहहेतुत्वादिः पुरुषप्रयोगापेक्षत्वात् । समर्थो हि बहिरंगकारणापेक्षो कालपरिणामत्वे सति कार्यत्वात् ब्रीह्यादिवदिति । यत्तत्कारणं बाह्यं स कालः । परिणामोऽसिद्ध इति चेन्न, बाधकाभावात् । परिणामस्याभावः सत्त्वासत्त्वयोर्दोषोपपत्तेरिति चेन्न, पक्षांतरत्वात् । न हि सन्नेव बीजादावंकुरादिः परिणामस्तत्परिणामत्वविरोधाद्वीजखात्मवत् । नाप्यसन्नेव तत एव खरविषाणवत् । किं तर्हि ? द्रव्यार्थादेशात् सन् पर्यायार्थादेशादसन् । न चोभयपक्षभावी दोषोत्रावतरति सदसदेकांतपक्षाभ्यामनेकांतपक्षस्यान्यस्वात् हिंसकत्वपारदारिकत्वाभ्यामहिंसकापारदारिकत्ववत् वियुक्तगुडशुंठीभ्यां तत्संयोगवद्वा जात्यंतरत्वाच्च रसांतरसंभवात् । एतेन विरोधादयः परिद्रुता द्रष्टव्याः । किं च परिणामस्य प्रतिषेधो न तावत्सतः सत्त्वादेव परिणामप्रतिषेधवत् सतोपि प्रतिषेधस्यापि प्रतिषेधप्रसंगात् प्रतिषेधाभावः अप्रतिषेधः सत्त्वान्न प्रतिषिध्यते । तत एव परिणामोपि न प्रतिषेद्धव्य इति स एव प्रतिषेधाभावः । नाप्यसत; Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522