Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 421
________________ तत्त्वार्थश्लोकवार्तिके शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् ॥ १९ ॥ उपकार इत्यनुवर्तनीयं, तत्र शरीर मौदारिकं व्याख्यातं । वाक् द्विधा - द्रव्यवाक् भाववाक् च । तत्रेह द्रव्यवाक् पौगलिकी गृह्यते । मनोपि द्विविधं द्रव्यभावविकल्पात् । तत्रेह द्रव्यमन: पौगलिकं ग्राह्यं, प्राणापानौ श्वासोच्छ्रासौ । त एते पुद्गलानां शरीरवर्गणादीनामतींद्रियाणामुपकारः कार्यमनुमापकमि - त्यावेदयति ; ४१२ शरीरवर्गणादीनां पुद्गलानां स संमतः । शरीरावयव इत्येतैस्तेषामनुमितिर्भवेत् ॥ १ ॥ संति शरीरवाङ्मनोवर्गणाः प्राणापानारंभकाश्च सूक्ष्माः पुद्गलाः शरीरादिकार्यान्यथानुपपत्तेः । न प्रधानं कारणं शरीरादीनां मूर्तिमत्त्वाभावादात्मवत् । न ह्यमूर्तिमतः परिणामः कारणं दृष्टं । पृथिव्यादिपरमाणवः कारणमिति केचित् तेषां सर्वेप्यविशेषेण पृथिव्यादिपरमाणवः शरीराद्यारंभकाः स्युः प्रतिनियतखभावाः ? न तावदादिविकल्पोऽनिष्टप्रसंगात् । द्वितीयकल्पनायां तु शरीरादिवर्गणा एव नामांतरेणोक्ता भवेयुरिति सिद्धोऽस्मत्सिद्धांतः ॥ " सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥ 1 पुद्गलानामुपकार इत्यभिसंबंध: । केषां पुनः पुद्गलानामिमे कार्यमित्याह ; -- सुखाद्युपग्रहाश्चोपकारो जीवविपाकिनाम् | सातवेद्यादिकर्मात्मपुद्गलानामितोनुमा ॥ १ ॥ सुखं तच्चेत्सद्यस्य कर्मणः कार्यं दुःखमसद्वेद्यस्य, जीवितमायुषः, मरणमसद्वेद्यस्यैवायुः क्षये तदुदयात्परमदुःखात्मना तस्यानुभवात् । ततः सातवेद्यादि कर्मात्मानः पुद्गलाः सुखाद्युपग्रहेभ्योऽनुमीयंते । अत्रोपग्रहवचनं सद्वेद्यादिकर्मणां सुखाद्युत्पत्तौ निमित्तमात्रत्वेनानुग्राहकत्वप्रतिपत्त्यर्थं परिणाम - कारणं जीवः सुखादीनां तस्यैव तथ्यपरिणामात् । अत एव जीवविपाकित्वं सद्वेद्यादिकर्मणां जीवे तद्विपाकोपलब्धेः । नन्वायुः भवविपाकि श्रूयते तत्कथं जीवविपाकि स्यात् ? भवस्य जीवपरिणामत्वविवक्षायां तथा विधानाददोषः । तस्य कथंचिदजीव परिणामविशेषत्वे वा जीवपरिणाममात्राद्भेदविवक्षायामायुर्भवविपाकि प्रोक्तमिति न विरोधः । नन्वाभरणादिपुद्गलानां सुखाद्युपग्रहे वृत्तिदर्शनात्तेषां सुखाद्युपग्रह उपकारोस्त्विति चेन्न, तेषामनुमेयत्वात् नियमाभावाच्च कस्यचित्कदाचित्सुखोपग्रहे वर्तमानस्यापि बंधनादेरपरस्य दुःखाद्युपग्रहेपि वृत्त्यविरोधान्न नियमः । सद्वेद्यादिकर्माणि सुखाद्युपग्रहे प्रतिनियतखभावान्येवान्यथा तत्संभावनानुपपत्तेरिति तेभ्यस्तदनुमानम् ॥ [ सू० २२ परस्परोपग्रहो जीवानाम् ॥ २१ ॥ Jain Education International उपकार इत्यनुवर्तते, ततः परस्परं जीवानामनुमानमित्याह ; जीवानामुपकारः स्यात्परस्परमुपग्रहः । संतानांतरवद्भाजां व्यापारादिरतोनुमा ॥ १ ॥ संतानांतरभाजो हि जीवाः परस्परमसंविदात्मानः कार्यतोनुमेयाः स्युर्न पुनरैक्यभाजः । तच्च कार्यं परस्परमुपग्रहः । स च व्यापारादिरालिंगनादिवाहनादिभिर्व्यापारः । अनुनयनं हितप्रतिपादनादिर्व्याहारः । स च परस्परमुपलभ्यमानः संतानांतरत्वं साधयतीति तदनुमेयाः संतानांतरभाजो जीवाः परस्परं संवृत्त्या संतानांतरव्यवहार इत्ययुक्तं, पुरुषाद्वैतवादस्य पूर्वमेव निरस्तत्वात्संवेदनाद्वैतवादवत् ॥ वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ २२ ॥ वर्तते वर्तनमात्रं वा वर्तना, वृत्तेर्ण्यन्तात्कर्मणि भावे वा युक् तस्यानुदात्तत्वाद्वा ताच्छीलिको वायुच् For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522