Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 420
________________ पञ्चमोऽध्यायः। किं पुनस्तत्कार्यमित्यारेकायां गतिस्थित्युपग्रहावित्युच्यते गतिस्थिती इति तयोस्तदनिर्वय॑त्वात् धर्माधर्मों हि न जीवपुद्गलानां गतिस्थिती निर्वर्तयतः । किं तर्हि ? तदनुग्रहावेव । कुत इत्येवं सकृत्सर्वपदार्थानां गच्छतां गत्युपग्रहः । धर्मस्य चोपकारः स्यात्तिष्ठतां स्थित्युपग्रहः ॥१॥ तथैव स्यादधर्मस्थानुमेयाविति तो ततः । तादृक्कार्य विशेषस्य कारणाव्यभिचारतः ॥२॥ क्रमेण सर्वपदार्थानां गतिपरिणामिनां गत्युपग्रहस्य स्थितिपरिणामिनां स्थित्युपग्रहस्य च क्षित्यादिहेतुकस्य दर्शनस्य धर्माधर्मनिबंधनमिति चेन्न सकृद्रहणात् । सकृदपि केषांचित्पदार्थानां तस्य क्षित्यादिकृतत्वसिद्धेश्च तन्निमित्तत्वमित्यपि न मंतव्यं, सर्वग्रहात् । ततः सकृत्सर्वपदार्थगतिस्थित्युपग्रहौ सर्वलो. कव्यापिद्रव्योपकृतौ सकृत्सर्वपदार्थगतिस्थित्युपग्रहत्वान्यथानुपपत्तेरिति कार्यविशेषानुमेयौ धर्माधौं । न हि धर्माधर्माभ्यां विना सकृत्सर्वार्थानां गतिस्थित्युपग्रहौ संभाव्येते, यतो न तदव्यभिचारिणौ स्यातां । ताभ्यां विनैव परस्परतः संभाव्येते ताविति चेत्, किमिदानीं युगपद्गच्छता सर्वेषां तिष्ठंतो हेतवः सर्वे, तिष्ठतां च सकृत्सर्वेषां गच्छंतः सर्वेषां आहोखित् केचिदेव केषांचित् ? । न तावत्प्रथमः पक्षः परस्पराश्रयप्रसंगात् । नापि द्वितीयः श्रेयान् सर्वार्थगतिस्थित्युपग्रहयोः सर्वलोकव्यापिद्रव्योपकृतत्वेन साध्यत्वात् । प्रतिनियतार्थगतिस्थित्यनुग्रह्योः कादाचित्कयोः प्रतिविशिष्टयोः क्षित्यादिद्रव्योपकृतत्वाभ्युपगमात् । गगनोपकृतत्वात् सिद्धसाधनमिति चेन्न, लोकालोकविभागाभावसंगताल्लोकस्य सावधित्वसाधनात् । निरवधित्वे संस्थानत्वविरोधात् प्रमाणाभावाच्च । यदि पुनर्लोकैकदेशवर्तिद्रव्योपकृतौ सकलाथगतिस्थित्युपग्रहौ स्यातां तदापि लोकालोकविभागासिद्धिः, क्वचिद्वर्तमानयोर्धर्माधर्मास्तिकाययोः सर्वलोकाकाशे इवालोकाकाशेपि सर्वार्थगतिस्थित्युपग्रहोपकारित्वप्रसक्तेस्तस्य लोकत्वापत्तेः । ततः सर्वगताभ्यामेव द्रव्याभ्यां सकलार्थगतिस्थित्यनुग्रहोपकारिभ्यां भवितव्यं । तौ नो धर्माधर्मों ॥ आकाशस्यावगाहः ॥ १८ ॥ उपकार इत्यनुवर्तते । कः पुनरवगाहः ? अवगाहनमवगाहः स च न कर्मस्थस्तस्यासिद्धत्वालिंगत्वायोगात् । किं तर्हि ? कर्तृस्थ इत्याह उपकारोवगाहः स्यात् सर्वेषामवगाहिनां । आकाशस्य सकृन्नान्यस्येत्येतदनुमीयते ॥१॥ जीवादयो ह्यवगाहकास्तत्र प्रतीतिसिद्धत्वालिंगमवगाह्यस्य कस्यचित् यत्तदवगाह्यं सकृत्सर्वार्थानां तदाकाशमिति कर्तृस्थादवगाहादनुमीयते । गगनादन्यस्य तथाभावानुपपत्तेः । आलोकतमसोरवगाहः सर्वेषामवगाहकानां जलादेर्भस्मादिवदिति चेन्न, तयोरप्यवगाहकत्वादवगाह्यांतरसिद्धेः । नन्वेवमाकाशस्याप्यवगाहकत्वादन्यदवगाचं कल्प्यतां तस्याप्यवगाहकत्वे अपरमवगाह्यमित्यनवस्था स्यादिति चेन्न, आकाशस्यानंतस्यामूर्तस्य व्यापिनः खावगाहित्वसिद्धेश्वगायांतरासंभवात् । न चैवमालोकतमसोः सर्वार्थानां वा खावगाहित्वप्रसक्तिरसर्वगतत्वात् । न च किंचिदसर्वगतं खावगाहि दृष्टं, मत्स्यादेर्जलाधवगाहित्वदर्शनात् । सर्वार्थानां क्षणिकपरमाणुस्वभावत्वात् अवगाह्यावगाहकभावाभाव इति चेन्न, स्थूलस्थिरसाधारणार्थप्रतीतेः । न चेयं भ्रांतिर्बाधकाभावात् एकस्यानेकदेशकालव्यापिनोर्थस्याभावे सर्वशून्यता. पत्तेः । भावे पुनरवगाह्यावगाहकभावाविरोध एवाधाराधेयभावादिवत् शीतवातातपादीनामभिन्नदेशकाल. तया प्रतीतेः खावगाडावगाहकभावसिद्धिः परस्परमवगाहानुपपत्तौ भिन्नदेशत्वप्रसंगाल्लोष्ठद्वयवत् । ततो यथाप्रतीतिनियतानामवगाहकानां प्रतिनियतमवगाह्यमसिद्धं तया सकृत्सर्वावगाहिनामवगाह्यमाकाशमनुमंतव्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522