Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 418
________________ पञ्चमोऽध्यायः। ४०९ हि प्रदीपस्य निरावरणनभोदेशावधृतप्रकाशपरिमाणस्यापि प्रभापवरकाद्यावरणवशात् प्रकाशप्रदेशसंहारविसौ कस्यचिदसिद्धौ यतो न दृष्टांतता स्यात् । स्यादाकूतं, नात्मा प्रदेशसंहारविसर्पवान् अमूर्तद्रव्यत्वादाकाशवदिति । तदयुक्तं, पक्षस्य बाधितप्रमाणत्वात् । तथाहि-आत्मा प्रदेशसंहारविसर्पवानस्ति महापरिमाणदेशव्यापित्वात् प्रदीपप्रकाशवदित्यनुमानेन तावत्पक्षो बाध्यते । न चात्र हेतुरसिद्धः शिशु. शरीरव्यापिनः पुनः कुमाश्शरीरष्यापित्यप्रतीतेः । स्थूलशरीरव्यापिनश्च सतो जीवस्य कृशशरीरव्यापित्वसंवेदनात् । न च पूर्वापरशरीरविशेषव्यापिनो जीवस्य भेद एव प्रत्यभिज्ञानाभावप्रसंगात् । न वेह तदेकत्वप्रत्यभिज्ञानं भ्रांतं बाधकाभावादियुक्तत्वात् । तथागमबाधितश्च पक्षः स्याद्वादागमे जीवस्य संसारिणः प्रदेशसंहारविसर्पवत्कथनात् । न च तदप्रमाणत्वं सुनिर्णीतासंभवबाधकत्वात् प्रत्यक्षार्थप्रतिपादकागमवत् । सर्वगतत्वादात्मनो न प्रदेशे संहारविसर्पवत्त्वमाकाशवदिति चेन्न, तस्यासर्वगतत्वसाधनात् । येषां पुनर्घटकणिकामात्रः सहस्रधा भिन्नो वा केशाग्रमात्रोंगुष्ठपर्वप्रमाणो वात्मा तेषां सर्वशरीरे खसंवेदनविरोधः, तस्याशु संचारित्वात्तथा संवेदने सकलशरीरेषु तथा संवेदनापत्तेरेकात्मवादावतरणात् । शक्यं हि वक्तुं सकलशरीरेष्वेक एवात्माणुप्रमाणोप्याशु संचारित्वात् संवेद्यत इति तत्राश्वेवाचेतनत्वप्रसंगोऽन्यत्र संचारणादिति चेत् , शरीरावयवेष्वपि तन्मुक्तेष्वचेतनत्वमुपसज्येत तद्युक्तस्यैव चोपशरीरैकदेशस्य सचेतनत्वोपपत्तेरिति यत्किचिदेतत् यथाप्रतीतेः शरीरपरमाणानुविधायिनो जीवस्याभ्युपगमनीयत्वात् । तथासति तस्यानित्यत्वप्रसंगः प्रदीपवदिति चेन्न किंचिदनिष्टं, पर्यायार्थादेशादात्मनोऽनित्यत्वसाधनात् । द्रव्यार्थादेशात्तन्नित्यत्ववचनात् प्रदीपवदेव । सोपि हि पुद्गलद्रव्यार्थादेशानित्य एवान्यथा वस्तुत्वविरोधात् । जीवस्य सावयवत्वे भंगुरत्वे वावयवविशरणप्रसंगो घटवदिति चेन्न, आकाशादिनानेकांतात् । न ह्याकाशादि कथंचिदनित्योपि सावयवोपि प्रमाणसिद्धो न भवति । न चावयवविशरणं तस्येति प्रतीतं किंचिदात्मनोवयवा विशीर्यते कारणपूर्वकत्वादाकाशादिप्रदेशवत् परमाण्वेकप्रदेशवद्वा । कारणपूर्वका एव हि पटादिस्कंधावयवा विशीर्यमाणा दृष्टास्तथाश्रयत्वेनावयवव्यपदेशात् । अवयूयंते विश्लिष्यंते इत्यवयवा इति व्युत्पत्तेः । नचैवमात्मनः प्रदेशाः, परमाणुपरिमाणेन प्रदिश्यमानतया तेषां प्रदेशव्यपदेशादाकाशादिप्रदेशवत् । ततो न विशरणं जीवस्याविभागद्रव्यत्वादाकाशादिवत् नावयवविशरणमविभागद्रव्यमात्मा अमूर्तत्वानुभवात् । प्रसाधितं चास्यामूर्तद्रव्यत्वमिति न पुनरत्रोच्यते । तदेवं लोकाकाशमाधारः कास्येनैकदेशेन वा धर्मादीनां यथासंभवं । धर्मादयः पुनराधेयास्तथाप्रतीते व्यवहारनयाश्रयादिति विज्ञेयार्थानामाकाशधर्मादीनामाधाराधेयता घटोदकादीनामिव वाधकाभावात् । न तेषामाधाराधेयता सहभावित्वात् सव्येतरगोविषाणवदित्येतद्वाधकमिति चेन्न, नित्यगुणिगुणाभ्यां व्यभिचारात् । न लोकाकाशद्रव्ये धर्मादीनि द्रव्याण्याधेयानि युतसिद्धत्वादनेककालद्रव्यवदिति चेन्न, कुंडबदरादिभिरनेकांतात् । साधारणशरीराणामात्मनामपि परस्परमाधाराधेयत्वोपगमादश्वमनुष्यादीनां च दर्शनात् साध्यशून्यमुदाहरणं । न तानि तत्राधेयानि शश्वदसमवेतत्वे सति सहभावादिति चेन्न , हेतोरन्यथानुपपन्ननियमासिद्धेः । न हि यत्र यदाधेयं तत्र शश्वत्समवेतं तदसहभावि च सर्व दृष्टं व्योमादौ नित्यमहत्त्वादिगुणस्याधेयस्य शश्वत्समवेतस्य सिद्धावपि तदसहभावाप्रतीतेः, कुंडादौ बदरादेराधेयस्य सहभावसिद्धावपि शश्वत्समवेतत्वाप्रसिद्धिरिति समुदितस्य हेतोः साध्यव्यावृत्तौ व्यावृत्त्यभावादप्रयोजको हेतुः । नभःपुद्गलद्रव्याभ्यां व्यभिचाराच्च । न हि नभसि पुद्गलद्रव्यमाधेयं न भवति तस्य तदवगाहित्वेन प्रतीतेस्तदाधेयत्वसिद्धेः पयसि मकरादिवत् , तत्र तस्य शश्वदसमवेतत्वे सति सहभावश्च हेतुः प्रसिद्धः । खपुद्गलद्रव्यस्य सदा समवायासंभवान्नित्यत्वेन सहभावत्वेपि विपक्षेपि भावात् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522