Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 415
________________ ४०६ तत्त्वार्थश्लोकवार्तिके [सू० ११ व्यवसायित्वान्न विपर्ययः संशयो वा तद्विपरीतत्वादितिचेयाहतमेतत् । स्खलक्षणानालंबनश्च निश्चयो दृष्टार्थाव्यवसायी चेति, ततः स्खलक्षणाव्यवसायी स्वलक्षणालंबन एवेति वस्तुविषयो निश्चयोन्यथानुपपत्तेः सिद्धः । एवं च तद्भावाभावाभ्यां वस्तुखभावभेदोवश्यंभावीति सत्त्वे द्रव्यत्वादिस्वभावेन निश्चीयमानाः परमाणवो अणुत्वादिखभावेन वा निश्चीयमाना नानास्वभावाः सिद्धा एव । केशादित्वेन निश्चीयमानाः प्रविरलत्वादिना वा निश्चीयमानाः प्रतिपत्तव्याः सर्वथा तदनिश्चये तत्र विभ्रमाभावप्र- . संगात् तद्भावे अतिशक्तेः । सत्त्वादिना च निश्चीयमानोवयवी बहिर्न परमाणव इत्ययुक्तं, सर्वानिश्चयेऽवयवसिद्धेः । तीमूलदानक्रियिणः परमाणवः प्रत्यक्षबुद्धावात्मानं च न समर्पयंति प्रत्यक्षतां च खीकुवैतीति ततः परमार्थसंतः पुद्गलानां स्कंधा व्यणुकादयोऽनेकविधा इति तेषां संख्येयादिप्रदेशाः प्रातीतिका एव ॥ नाणोः ॥ ११ ॥ संख्येयासंख्येयाश्च प्रदेशा इत्यनुवर्तनात्त एवाणोः प्रतिषिध्यते । तथा चनाणोरितिनिषेधस्य वचनान्नाप्रदेशता । प्रसिद्धैवैकदेशत्वात्तस्याणुत्वं नचान्यथा ॥१॥ न टेकप्रदेशोप्यणुन भवतीति युक्तं तस्यावस्तुत्वप्रसंगात् । ननु चाणोः प्रदेशत्वे प्रदेशी कः स्यात् ? स एव स्पर्शादिगुणाश्रयत्वाद्गुणीति ब्रूमः । कथं स एव प्रदेशः प्रदेशी च ? विरोधादिति चेत् , तदुभयखभावत्वोपपत्तेः । प्रदेशत्वस्वभावत्वस्यास्ति स्कंधावस्थायां तद्भावान्यथानुपपत्तेः प्रदेशित्वखभावः पुद्गलद्रव्यत्वात् । एकेन प्रदेशेन पुद्गलद्रव्यस्याप्रदेशित्वे यादिप्रदेशैरप्यप्रदेशित्वप्रसंगात् विरुद्धं चेदं परमागुरेकप्रदेशोऽप्रदेशी चेति प्रदेशप्रदेशिनोरन्योन्याविनाभावात् प्रदेशिनमंतरेण प्रदेशस्यासंभवात् खपुप्पवत् प्रदेशमंतरेण च प्रदेशिनोनुपपत्तेस्तद्वदेव । तत एव न प्रदेशो नापि प्रदेशी परमाणुरिति चेन्न, द्रव्यत्वविरोधात् गुणादिवत् । न चाद्रव्यं परमाणुर्गुणवत्त्वात् स्कंधवत् । न चाप्रदेशि प्रदेशिखभावं किंचिद्रव्यं सिद्धं गगनाद्यसिद्धमिति चेन्न, तस्यानंतादिप्रदेशत्वसाधनेन प्रदेशित्वव्यवस्थापनात् । स्यादाकूतं ते अनेकप्रदेशः परमाणुव्यत्वाद् घटाकाशादिवदिति । तदसत्, धर्भिग्राहकप्रमाणबाधितत्वात् पक्षस्य कालात्ययापदिष्टत्वात् हेतोः कालेन व्यभिचाराच्च । स्याद्वादिनां मीमांसकानां च शब्दद्रव्येणानेकांतात् । तथाहि-घटादिर्भिद्यमानपर्यंतो भेद्यत्वान्यथानुपपत्तेः योसौ तस्य पर्यंतः स परमाणुरिति परमाणुग्राहिणा प्रमाणेनानेकप्रदेशित्वं बाध्यते तस्यानेकप्रदेशत्वे परमाणुत्वविरोधात् ॥ अष्टप्रदेशरूपाणुवादोऽनेन निवारितः । तत्रापि परमस्कंधविदभावप्रसंगतः ॥२॥ परमाणूनामनेकप्रदेशत्वाभावे सर्वात्मनैकदेशेन च संयोगेणुमात्रेपि अणुप्रसक्तेः । सावयवत्वेनवस्थाप्रसंगाच्च परमस्कंधस्य प्रतीतिविरोधादष्टप्रदेशरूपाणुभिद्यमानपर्यंतः सर्वदा स्वयमवेद्यः सिद्ध्यति न पुनरनंशः परमाणुस्तस्य बुद्ध्या परिकल्पनादिति केषांचिदष्टप्रदेशरूपाणुवादः सोप्यनेनैव प्रदेशपरमागुस्कंधस्य वचनेन विचारितो द्रष्टव्यः, रूपाणोरप्रदेशस्य सर्वदाप्यस्य भेद्यत्वायोगात् । तथाहि-भेद्यो रूपाणुः मूर्तत्वे सत्यनेकावयवत्वात् घटवत् । नात्र हेतोराकाशादिभिरनेकांतो मूर्तिमत्त्वे सतीति विशेषणात्तेषाममूर्तत्वात् । ततः परमाणुरेकप्रदेश एव भिद्यमानपर्यंतः सिद्धः । नन्वेवं परमस्कंधप्रतीत्यभावप्रसंग इति चेन्न, तस्याष्टप्रदेशाणुवादेपि समानत्वात् । तथाहि; यथाणुरणुभिर्नानादिक्कैः संबंधमादधत् । देशतोवयवी तद्वत्प्रदेशोन्यैः प्रदेशतः ॥३॥ सर्वात्मना च तैस्तस्यापि संबंधेणुमात्रकः। पिंडः स्यादन्यथोपात्तदोषाभावः समो न किम्॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522