Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 413
________________ ४०४ तत्त्वार्थश्लोकवार्तिके [सू० ९ देशोपीति खतोऽप्रदिश्यमानत्वादित्यसिद्धो हेतुः । पटादिद्यणुकाद्यवयवैरनेकांतिकश्च तेषामस्मदादिभिः खतोऽप्रदिश्यमानानामपि भावात् । किं च कथंचित्सांशमाकाशादि परमाणुभिरेकदेशेन युज्यमानत्वात् स्कंधवत् । तस्य तैः सर्वात्मना संयुज्यमानत्वे परमाणुमात्रत्वप्रसंगात् । तथा चाकाशादिबहुत्वापत्तिः । स्यान्मतं, नैकदेशेन सर्वात्मना वा परमाणुभिराकाशादिर्युज्यते । किं तर्हि ? युज्यते एव यथावयवी स्वावयवैः सामान्यं वा स्वाश्रयैरिति । तदसत् साध्यसमत्वान्निदर्शनस्य । तस्याप्यवयव्यादेः सर्वथा निरंशत्वे स्वावयवादिभिरेकांततो भिन्नैः संबंधो यथोक्तदोषानुषंगात् कात्स्यैकदेशव्यतिरिक्तस्य प्रकारांतरस्य तत्संबंधनिबंधनस्यासिद्धेः । कथंचित्तादात्म्यस्य तत्संबंधत्वे स्याद्वादिमतसिद्धिः, सामान्यतद्वतोरवयवावयविनोश्च कथंचित्तादात्म्योपगमात् । न चैवमाकाशादेः परमाणुभिः कथंचित्तादात्म्यमित्येकदेशेन संयोगोभ्युपगंतव्यः । तथा च सांशत्वसिद्धिः । किं च सांशमाकाशादि श्येनमेषाद्यन्यतोभयकर्मजसंयोगविभागान्यथानुपपत्तेः । श्येनेन हि स्थाणोः संयोगो विभागश्चान्यतर कर्मजस्तत्रोत्पन्नं कर्म स्वाश्रयं श्येनं तदाकाशप्रदेशाद्वियोज्य स्थाण्वाकाशदेशेन संयोजयति ततो वा विभिद्याकाशदेशांतरेण संयोजयतीति प्रतीयते न चाकाशस्यैकदेशाभावे तद्धटनात् कर्मणः स्वाश्रयान्याश्रययोरेकदेशत्वात् । एतेन शेषयोरुभयकर्मजः संयोगो विभागश्चाकाशस्याप्रदेशत्वेन घटत इति निवेदितं क्रियानुपपत्तिश्च तस्याः देशांतरप्राप्तिहेतुत्वेन व्यवस्थितत्वात् देशांतरस्य वा संभवात् । तत एव परत्वापरत्वपृथक्त्वाद्यनुपपत्तिः पदार्थानां विज्ञेया । तत्सकलमभ्युपगच्छतांजसा सांशमाकाशादि प्रमाणयितव्यं ॥ कुतः पुनराकाशस्याताः प्रदेशा इत्यावेदयति ; अनंतास्तु प्रदेशाः स्युराकाशस्य समंततः । लोकत्रयाद्बहिः प्रांताभावात्तस्यान्यथागतेः ॥ १ ॥ अनंतप्रदेशमाकाशं लोकत्रयाद्वहिः समंततः प्रांताभावात् यन्नानतप्रदेशं न तस्य ततो बहिः समंततः प्रांताभावो यथा परमाण्वादेः । इत्यन्यथानुपपत्तिलक्षणो हेतुः खसाध्यं साधयत्येव । ततो बहिः समं - ततः प्रांताभावस्याभावे पुनराकाशस्य गत्यभावप्रसंगात् । भावेपि कथमाकाशस्य गतिरित्याह ; जगतः सावधेस्तावद्भावो बहिरवस्थितिः । संतानात्मा न युज्येत सर्वथार्थक्रियाक्षमः ॥ २ ॥ न गुणः कस्यचित्तत्र द्रव्यस्यानभ्युपायतः । तदाश्रयस्य कर्मादेरपि नैवं विभाव्यते ॥ ३ ॥ द्रव्यं तु परिशेषात्स्यात्तन्नभो नः प्रतिष्ठितं । प्रसक्तप्रतिषेधे हि परिशिष्टव्यवस्थितिः ॥ ४ ॥ अनंता लोकधातवः इत्याकाशत्ववादिनां दर्शनमयुक्तं प्रमाणाभावात् । स्वभावविप्रकृष्टानां भावाभावनिश्चयासंभवात् संभवे वा खतः क्षतिप्रसंगात् तदागमस्य प्रमाणभूतस्यानभ्युपगमात् । ततः सावधिरे - व लोको व्यवतिष्ठते । तस्य च खतो बहिः समंतादभावस्तावत्सिद्धः स च नीरूपो न युज्यते प्रमाणाभावात् । भावधर्मखभावो न गुणः कर्मसामान्यं विशेषो वा कस्यचिद्रव्यस्य तदाश्रयस्यानभ्युपगमात् परिशेषाद्द्रव्यमिति विभाव्यते । प्रसक्तप्रतिषेधे परिशिष्टव्यवस्थितेः तदस्माकमाकाशं सर्वतोऽवधिरहितI मित्यनंत प्रदेशसिद्धिः । परेषां पुनरनंता लोकधातवः संतोपि यदि निरंतरास्तदा अंतरालप्रतीतिर्न स्यात् सर्वथा तेषां निरन्वये चैकं लोकधातुमात्रं स्यात् । परेषां लोकधातूनां तत्रानुप्रवेशात् । एकदेशेन नैरंतर्ये सावयवत्वं तदवयवेनापि तदवयवांतरैः सर्वात्मना नैरंतर्ये तदेकावयवमात्रं स्यात्, तदेकदेशेन नैरंतर्ये तदेव सावयवत्वमेवं अनंतपरमाणूनां । सर्वात्मना नैरंतर्ये परमाणुमात्रं जगद्भवेत् तदेकदेशेन नैरंतर्ये सावयवत्वं परमाणूनां । तन्नानिष्टं, इति सांतरा एव लोकधातवः प्रतिपरमाणु वक्तव्याः । तदंतर एवाकाशमेवोक्त व्यापादनादनंतप्रदेशमायातं । आलोकतमः परमाणुमात्रमंतरमिति चेन्न, आलोकत Jain Education International For Private & Personal Use Only L www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522