Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 412
________________ पञ्चमोऽध्यायः। ४०३ दृष्टमिष्टं वा परस्य । गुणाः प्रदेशा इति चेन्न, गुणांतराश्रयत्वविरोधात् । साधारणगुणा हि संयोगविभागसंख्यादयस्तत्रेष्यते घटसंयोगोन्यस्याकाशप्रदेशस्य कुड्यसंयोगोन्यस्य द्वार्विभागोऽन्यस्य दंडविभागोन्यस्येति संयोगविभागयोः प्रतीतेः । एकः खस्य प्रदेशो द्वौ चेति संख्यायाः संप्रत्ययात् परो गगनप्रदेशोऽपरो वेति परत्वापरत्वयोरवबोधात् पृथगेतस्मात् पाटलिपुत्राकाशप्रदेशाच्चित्रकूटाद्याकाशप्रदेश इति पृथक्त्वस्योपलंभात् । तथा घटाकाशप्रदेशान्महान् मंदराकाशप्रदेश इति परिमाणस्य सन्निर्णयात् । प्रदेशिन्येवाकाशे संयोगादयो गुणा न प्रदेशेष्विति चेन्न, अवयवसंयोगपूर्वकावयविसंयोगोपगमाद्धि तंतुकवीरणसंयोगवत् । पटादीनामाकाशप्रदेशसंयोगमंतरेणाकाशप्रदेशे संयोगोपरः एकवीरणस्य सिद्धिः । सिद्धे तंतुकसंयोगे द्वितंतुकसंयोगप्रसंगात् संयोगजसंयोगाभावः । एतेन विभागजविभागाभावः प्रतिपादितः । संख्या पुनर्द्वित्वादिकाकाशे प्रदेशिन्यनुपपन्नैव तस्यैकत्वात् । एतेन परत्वापरत्वपृथक्त्वपरिमाणभेदाभावः प्रतिनिवेदितः तत्रैकत्र तदनुपपत्तेः । ततः खप्रदेशेप्वेवैते गुणाः सिद्धा इति न गुणाः प्रदेशा गुणित्वात् पृथिव्यादिवत् । नापि कर्माणि तत एव परिस्पंदात्मकत्वाभावाच्च । नापि सामान्यादयोनुवृत्तिप्रत्ययादिहेतुत्वाभावात् । पदार्थातराणि खप्रदेशा इत्ययुक्तं । षट्पदार्थनियमविरोधात् । अत एव न मुख्याः खस्य प्रदेशा इति चेन्न, मुख्यकार्यकारणदर्शनात् । तेषामुपचरितत्वे तदयोगात् । न ह्युपचरितोग्निः पाकादावुपयुज्यमानो दृष्टस्तस्य मुख्यत्वप्रसंगात् । प्रतीयते च मुख्य कार्यमनेकपुद्गलद्रव्याद्यवगाहकलक्षणं । निरंशस्यापि विभुत्वात्तद्युक्तमिति चेत् , कथं विभुर्निरंशो वेति न विरुध्यते । ननु प्रमाणसिद्धत्वाद्वादिप्रतिवादिनोराकाशे विभुत्वभावं न विप्रतिषिद्धं । तत एव निरंशत्वसिद्धिः । तथाहि-निरंशमाकाशादि सर्वजगद्व्यापित्वात् यन्न निरंशं न तत्तथा दृष्टं यथा घटादि सर्वजगद्व्यापि चाकाशादि तस्मान्निरंशमिति कश्चित् । तदसमीचीनं, हेतोः पक्षाव्यापकत्वात् परमाणौ निरंशे तदभावात् । तस्या विवादगोचरत्वादपक्षीकरणाददोष इति चेन्न, सांशपरमाणुवादिनस्तत्रापि विप्रतिपत्तेः पक्षीकरणोपपत्तेः । साधनांतरात्तत्र निरंशत्वसिद्धेरिहापक्षीकरणमिति चेत् , एवं तर्हि न कश्चित्पक्षाव्यापको हेतुः स्यात् चेतनास्तरवः खापात् मनुष्यवदित्यत्रापि तथा परिहारस्य संभवात् । शक्यं हि वक्तुं येषु तरुषु खापादयोऽसिद्धास्त एव पक्षीक्रियते, तेनेतरे तत्र हेत्वंतराच्चेतनत्वप्रसाधनात् । ततो न पक्षाव्यापको हेतुरिति किल कालात्ययापदिष्टो हेतुर्निरंशत्वसाधने; सर्वजगद्व्यापित्वादिति पक्षस्यानुमानागमबाधितत्वात् अत्र हेतोः सामान्यादिभिर्व्यभिचारासंभवात् , तेषां सकृद्भिन्नदेशद्रव्यसंबंधस्य प्रमाणसिद्धस्याभावात् । तथा धर्माधर्मेकजीवलोकाकाशानां तुल्यासंख्येयप्रदेशत्वात् प्रदेशसमवाय इत्याद्यागमस्यापि तत्सांशत्वप्रतिपादकस्य सुनिश्चितासंभवबाधकस्य सद्भावाच्च । यदप्युच्यते निरंशमाकाशादि सदावयवानारभ्यत्वात् परमाणुवदिति तदप्यनेन निरस्तं, हेतोः कालात्ययापदिष्टत्वविशेषात् । किं च यदि सर्वथा सदावयवानारभ्यत्वं हेतुस्तदा प्रतिवाद्यसिद्धः पर्यायार्थादेशात् पूर्वपूर्वाकाशादिप्रदेशोत्पत्तेरारभ्यारंभकभावोपपत्तेः । अथ कथंचित्सदावयवानारभ्यत्वं हेतुस्तदा विरुद्धः, कथंचिन्निरंशत्वस्य सर्वथा निरंशत्वविरुद्धस्य साधनात् । कथंचिन्निरंशत्वस्य साधने सिद्धसाधनमेव पुद्गलस्कंधवत्सर्वदावयवविभागाभावात् सावयवत्वाभावोपगमात् । स्यान्मतं, नाकाशादीनां प्रदेशा मुख्याः संति खतोऽप्रदिश्यमानत्वात् परमाणुवत् । परमाण्वादीनां हि मुख्याः प्रदेशाः खतोवधार्यमाणाः सिद्धा इति । तदयुक्तं, परमाणोरेकप्रदेशाभावप्रसंगात् छद्मस्थैः खतोऽप्रदिश्यमानत्वा विशेषात् । परमागुरेकप्रदेशोत्यन्तपरोक्षत्वादस्मदादीनां स्वतोप्रदिश्यमान इति चेत् , त एवाकाशादिप्रदेशाः खतोपदिश्यमानाः संत्वस्मदादिभिः । अतींद्रियार्थदर्शिनां तु यथा परमाणुरेकप्रदेशः खतः प्रदेश्यस्तथाकाशादिप्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522