Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 414
________________ पञ्चमोऽध्यायः। ४०५ मःपरमाणुभिरपि सांतरैभवितव्यं । तन्नरंतर्ये प्रतिपादितदोषानुषंगात् । तदंतराण्याकाशप्रदेशा एवेत्यवश्यभावि नमोऽनंतप्रदेशं ॥ आगमज्ञानसंवेद्यमनुमानं विनिश्चितं । सर्वज्ञैर्वा परिच्छेद्यमप्यनंतप्रमाणभाव ॥४॥ यद्विज्ञानपरिच्छेद्यं तत्सांतमिति योब्रवीत् । तस्य वेदो भवादिर्वा नानंत्यं प्रतिपद्यते ॥६॥ __ स्वयं वेदस्येश्वरस्य पुरुषादेर्वा अनाद्यनंतत्वं कुतश्चित्प्रमाणात् परिच्छिदन्नपि तत्सादिपर्यंतत्वमिति छिन्नाकाशस्यानुमानागमयोगिप्रत्यक्षैः परिच्छिद्यमानस्यानंतत्वं प्रतिक्षिपतीति कथं खस्थः? प्रमाणस्य यथावस्थितवस्तुपरिच्छेदनखभावत्वादनंतस्यानंतत्वेनैवपरिच्छेदने को विरोधः स्यादसंख्यातादसंख्यातादेस्तथा परिच्छेदनवत् । ततः सूक्तमाकाशस्यानंताः प्रदेशा इति ॥ संख्येयासंख्येयाश्च पुद्गलानाम् ॥ १०॥ प्रदेशा इत्यनुवर्तते । चशब्दादनंताश्च समुच्चीयंते । कुतस्ते पुद्गलानां तथेत्याह;संख्येयाः स्युरसंख्येयास्तथानंताश्च तत्त्वतः। प्रदेशाः स्कंधसंसिद्धेः पुद्गलानामनेकधा ॥१॥ संख्येयपरमाण्वारब्धानामनेकधा स्कंधानामसंख्यातानंतानंतपरमाण्वारब्धानां च संसिद्धेः पुद्गलानां स्युरेवं संख्येयाश्चासंख्येयाश्चानंताश्च प्रदेशास्तत्त्वतः सकलबाधवैधुर्यात् । ननु च स्कंधस्य ग्रहणं तदारंभकावयवग्रहणपूर्वकं तदग्रहणपूर्वकं वा ? प्रथमपक्षेऽनंतशः परमाणूनां तदवयवानामतींद्रियत्वादग्रहणे स्कंधाग्रहणमिति सर्वाग्रहणमवयव्यसिद्धेः, द्वितीयपक्षेत्र सकलावयवशून्येपि देशेऽवयविग्रहणप्रसंगः । कतिपयावयविग्रहणपूर्वकेपि स्कंधग्रहणे सर्वाग्रहणमेव कतिपयावयवानामप्यनंतशः परमाणूनां व्यवस्थानात्तेषां च ग्रहणसंभवात् । ततो न परमार्थतः स्कंधसंसिद्धिः । अनाद्यविद्यावशादत्यासन्नेष्वसंसृष्टेषु बहिरंतश्च परमाणुषु तदाकारप्रतीतेः तादृशकेशादिष्वप्यनाकारप्रतीतिवदिति कश्चित् , तस्यापि सर्वाग्रहणमवयव्यसिद्धेः । परमाणवो हि बहिरंतर्वाबुद्धिगोचरा एवातींद्रियत्वात् न चावयवी तदारब्धोभ्युपगतः इति सर्वस्य बहिरंगस्यांतरंगस्य चार्थस्याग्रहणं कथं विनिवार्यते? । अथ केचित्संचिताः परमाणव एव स्वप्रत्ययविशेषादिंद्रियज्ञानपरिच्छेद्यखभावा जायंते तेषां ग्रहणसिद्धेर्न सर्वाग्रहणमिति मतं; तदपि न समीचीनं, कदाचित्वचित्कस्यचित्परमाणुप्रतीत्यभावात् । एको हि ज्ञानसन्निवेशी खधियानाकारः परिस्फुटमवभासते । परमाणव एव चेतनात्मन्यविद्यमानमप्याकारं स्थवीयांसं कुतश्चिद्विभ्रमादर्शयंतीति चेत् , कथंचित्प्रतिभातास्ते तमुपदर्शयेयुरप्रतिभाता ? न तावदप्रतिभाताः सर्वत्र सर्वदा, सर्वथा सर्वस्य तदुपदर्शनप्रसंगात् ; प्रतिभाता एव ते तमुपदर्शयंति सत्त्वादिनातिकेशादिवदिति चेन्न । परमाणुत्वादिनापि तेषां प्रतिभातत्वप्रसंगात् । सत्यं, तेनाप्रतिभाता एव परमाणवः “एकस्यार्थखभावस्य प्रत्यक्षस्य खतः खयं । कोन्यो न दृष्टो भागः स्याद्वा प्रमाणैः परीक्षते॥” इति वचनात् केवलं तथा निश्चयात्तथानुत्पत्तेस्तेषामप्रतिभातत्वमुच्यते । “तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भ्रांतेनिश्चीयते नेति साधनं संप्रवर्तते ॥” इति वचनात् सत्त्वादिनैव खभावेन तत्र निश्चयोत्पत्तेरभ्यासप्रवरबुद्धिपाटवार्थित्वलक्षणस्य तत्कारणस्य भावाद्वस्तुखभावात् । वस्तुखभावो ह्येष परं प्रतीतिकानुभवपटीयान् कचिदेव स्मृतिबीजमाधत्ते प्रबोधयति चांतरं संसारमिति चेत् , कथमेवं सत्त्वादेरणुत्वादिखभावः परमाणुषु भिन्नो न भवेद्विरुद्धधर्माध्यासात् सह्यविंध्यवत् । यदि पुनर्निश्चयस्यावस्तुविषयत्वान्न तद्भावाभावानां वस्तुखभावभेद इति मतं, तदा कथं दर्शनस्य प्रमाणेतरभावव्यवस्था निश्चयोत्पत्त्यनुत्पत्तिभ्यां विपर्ययोपजननानुपजननाभ्यामिति तद्व्यवस्थानुषंगात् । दर्शनप्रामाण्यहेतुर्यथार्थनिश्चय एव दृष्टार्था Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522