Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 367
________________ ३५८ तत्त्वार्थश्लोकवार्तिके [ सू० ३७ प्रसिद्धस्यान्यनारोप्यो हि कल्पना दृष्टा विकल्पमात्रस्था गत्यंतराभावात् उभयथाचार्येतरभावकल्पनायां वास्तवस्तद्भावसिद्धेः प्रधानाद्वैतादिकल्पनानामपि हि निर्बीजानामनुपपतिरेव सत्त्वरजस्तमसां साम्यवास्तवस्य प्रधानत्वेन नराधिपादौ प्रसिद्धेनाध्यारोपस्य प्रधानकल्पनत्वात् । क्वचिच्चैकत्वस्याद्वैतस्य प्रमाणतः सिद्धस्य सर्ववस्तुष्वध्यारोपणस्याद्वैतकल्पनात्वादन्यथा तदसंभवात् । कथं वा कचित्संप्रदायात् पारमार्थिकी ध्यवस्थामाचक्षाणो मनुष्येष्वेवार्येतरभावव्यवस्थां काल्पनिकीमाचक्षीत, प्रमाणांतराविषयत्वादिति चेत् । न, आर्यम्लेच्छव्यवस्थाया गुणदोषनिबंधनायाः प्रत्यक्षानुमानाभ्यामिति प्रसिद्धरतः । तथाहि-खसंतानवर्तिनी हि मनुष्याणां आर्यत्वव्यवस्थितिः सम्यग्दर्शनादिगुणनिबंधना म्लेच्छव्यवस्थितिश्च मिथ्यात्वादिदोषनिबंधना खसंवेदनसिद्धा खरूपवत् । संतानांतरवर्तिनी तु सा व्यापारव्याहाराकारविशेषस्य कार्यस्य विनिश्चयादनुमेया चेति न प्रमाणांतरागोचरा प्रत्यक्षानुमानाभ्यां प्रसिद्धायां च गुणनिबंधनायामार्यत्वव्यवस्थायां कासुचित् मनुष्यव्यक्तिषु युगादावव्यवच्छिन्नसंतानास्तथाभूतगुणैरर्यमाणा जात्यार्याः प्रसिद्धा भवंति क्षेत्राचार्यवत् ॥ तथा म्लेच्छाःनित्यसर्वगतामूर्तस्वभावा सर्वथा तु या । जाति ह्मण्यचांडाल्यप्रभृतिः कैश्चिदीर्यते ॥११॥ सा न सिद्धा प्रमाणेन बाध्यमाना कदाचन । ब्राह्मणत्वादिजातिः सर्वगता सर्वत्र खप्रत्ययहेतुत्वादाकाशवत् सत्तावद्वा, तथा नित्या सर्वदोत्पादकविनाशककारणरहितत्वात् तद्वदेव इत्येके । तेत्र प्रष्टव्याः, सा सर्वगता सती व्यत्यंतराले कस्मात्स्वप्रत्ययं नोत्पादयतीति ? खव्यंजकविशेषाभावादनभिव्यक्तत्वादिति चेन्न, तदभिव्यक्तेः साकल्येन करणे क्वचिदुपलंभे सर्वत्रोपलंभप्रसंगात् , देशतः करणे सावयवत्वप्रसक्तेः । ननु च कायेनाभिव्यक्तावपि जातेन सर्वत्रोपलंभः सामग्र्यभावात् खव्यक्तिदेश एव हि तदुपलंभसामग्री प्रतीता इंद्रियमनआकाशादिवत् नच व्यक्त्यंतराले सास्तीति केचित् । तदप्यसंगतं, घटादेरेवं सर्वगतत्वप्रसक्तेः । शक्यं हि वक्तुं घटादीनां सर्वगतत्वेपि न सर्वत्रोपलंभः सामग्र्यभावात् कपालादिदेश एव हि तदुपलंभसामग्री न च सा सर्वत्रास्तीति कपालादेरप्यवयविनः सर्वगतत्वेपि न सर्वत्रोपलंभः सावयवोपलंभसामग्र्यभावादित्येवमनंतशः परमाणूनामनवयवित्वादसर्वगतत्वे सर्वत्रोपलंभाभावात्ययानुयोगनिवृत्तिरिति । यदि पुनर्घटादेः सर्वगतत्वकल्पनाया प्रत्यक्षविरोधः प्रतिनियतसंस्थानस्य प्रत्यक्षत्वात् अनुमानविरोधश्च । न सर्वगतो घटादिः सावयवत्वात् मूर्तिमत्त्वात् परमाणुवत् इत्यनुमानादसर्वगतत्वसिद्धेरिति मतं, तदा जातिसर्वगतत्वकल्पनायामपि स एव प्रत्यक्षादिविरोधः सादृश्यलक्षणाया एव जातेरसर्वगतायाः प्रतिनियतव्यक्तिगतायाः प्रत्यक्षत्वात् । तथा न जातिः सर्वगता प्रतिनियतव्यक्तिपरिणामत्वाद्विशेषवदित्यनुमानाजातेरसवंगतत्वसिद्धेः । कुतः पुनः सादृश्यलक्षणं सामान्यं सिद्धमिति चेत्. सिद्धं सादृश्यसामान्यं समाना इति तद्हात् । कुतश्चित्सदृशेष्वेव मनुष्येषु गवादिवत् ॥ १२ ॥ स एवं मनुष्य इति प्रत्ययान्न समाना इति तद्रहोस्ति यतः सादृश्यसामान्यं सिद्धयेदिति चेत् न, सदृशे मनुष्यादौ स एवायमिति प्रत्ययस्योपचरितैकत्वविषयत्वात् । द्विविधं ह्येकत्वं मुख्यमुपचरितं च, मुख्यमूर्खतासामान्यमुपचरितं तिर्यक् सामान्यं सादृश्यमिति सुनिश्चितमन्यत्र । सा पुनर्ब्राह्मणत्वादि जाति:कांततो नित्या शक्या व्यवस्थापयितुमनित्यव्यक्तितादात्म्यात् , सर्वथा तस्यास्तदतादात्म्ये वृत्तिविकल्पानवस्थादिदोषानुषंगात् । नाप्येकांतेनामूर्ता मूर्ततादात्म्यविरोधात् । ततः स्यान्नित्या जातिनित्यसादृश्यरूपत्वात् , स्यादनित्या नश्वरसादृश्यखभावत्वात् , स्यात्सर्वगता सर्वपदार्थान्वयित्वात् , स्याद Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522