Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 387
________________ ૩૭૮ [ सू० १३ त्रिनवतियोजनशतत्रयप्रमाणत्वादुत्सेधयोजनापेक्षया दूरोदयत्वाच्च स्वाभिमुखलंबीद्धप्रतिभाससिद्धेः । द्वितीये अहनि तथा प्रतिभासः कुतो न स्यात्तदविशेषादिति चेन्न, मंडलांतरे सूर्यस्योदयात् तदंतरस्योत्सेधयोजनापेक्षया द्वाविंशत्येकषष्टिभागयोजन सहस्रप्रमाणत्वात्, उत्तरायणे तदुत्तरतः प्रतिभासस्योपपत्तेः । दक्षिणायने तद्दक्षिणतः प्रतिभासनस्य घटनात् । सूर्यपरिणामदक्षिणोत्तरसमप्रणिधिभूभागादन्यप्रदेशे कुतः प्राची सिद्धिरिति चेत्, तदनंतरमंडले तथा सर्वाभिमुखमादित्यस्योदयादेवेति सर्वमनवद्यं, क्षेत्रांतरेपि तथा व्यवहारसिद्धेः । तदेतेन प्राचीदर्शनाद्धरायां गोलाकारतासाधनमप्रयोजकमुक्तं तत्र तत्र दर्पणाकारतायामपि प्राचीदर्शनोपपत्तेः । यदा तु सूर्यः सर्वाभ्यंतरमंडले चतुश्चत्वारिंशद्योजन सहस्रैरष्टाभिश्च योजनशतैर्विस्तरैर्मेरुमप्राप्य प्रकाशयति तदाहन्यष्टादश मुहूर्ता भवंति । चत्वारिंशषछताधिकनवनवतियोजन सहस्र विष्कंभस्य त्रिगुणसातिरेक परिधेस्तन्मंडलस्यैकान्नविंशद्योजनषष्टिभागाधिकैकं पंचाशद्द्द्विशतोत्तरयोजनसहस्रपंचकमात्रमुहूर्त गतिक्षेत्रत्वसिद्धेः शेषाप्रकर्षपर्यंततः प्राप्ता दिवावृद्धिर्हानिश्च रात्रौ सूर्यगतिभेदादभ्यंतरमंडलात् सिद्धा । यदा च सूर्यः सर्व बाह्यमंडले पंचचत्वारिंशत्सहसैस्त्रिभिश्च शतैस्त्रिशैर्योजनानां मेरुमप्राप्य भासयति तदाहनि द्वादश मुहूर्ताः । षष्ट्यधिकशतपट्रोत्तरयोजनशतसहस्रविष्कंभस्य तत्रिगुणसातिरेक परिधेः तन्मंडलस्य पंचदशैकयोजनषष्टिभागाधिकपंचोत्तरशतत्रय सहस्रपंचकपरिमाणगतिमुहूर्त क्षेत्रत्वात् शेषा परमप्रकर्षपर्यंतप्राप्ता तावद्दिवाहानिर्वृद्धिश्च रात्रौ सूर्यगतिभेदाद्वाह्याद्गगनखंडमंडलात् सिद्धा । मध्ये त्वनेकविधा दिनस्य वृद्धिहनिश्चानेकमंडलभेदात् सूर्यगतिभेदादेव यथागमं मंडलं यथागणनं च प्रत्येतव्या तथा दोषावृद्धिहनिश्च युज्यते । तदेतेन दिनरात्रिवृद्धिहानिदर्शनाद्भुवो गोलाकारतानुमानमपास्तं, तस्यान्यथानुपपत्तिवैकल्यादन्यथैव तदुपपत्तेः । तथा छाया महती दूरे सूर्यस्य गतिमनुमापयति अंतिकेऽतिखल्पां न पुनर्भूमेर्गोलकाकारतामिति छायावृद्धिहानिदर्शनमपि सूर्यगतिभेदनिमित्तकमेव । मध्याह्ने कचिच्छायाविरहेपि परत्र तद्दर्शनं भूमेर्गोलाकारतां गमयति समभूमौ तदनुपपत्तेरिति चेन्न तदापि भूमिनिम्नत्वोन्नतत्व विशेषमात्रस्यैव गतेः तस्य च भरतैरावतयोर्दृष्टत्वात् “भरतैरावतयोर्वृद्धिहासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्यां " इति वचनात् । तन्मनुष्याणामुत्सेधानुभवायुरादिभिर्वृद्धिहासौ प्रतिपादितौ न भूमेरपरपुद्गलैरिति न मंतव्यं, गौणशब्दप्रयोगान्मुख्यस्य घटनाद्न्यथा मुख्यशब्दार्थातिक्रमे प्रयोजनाभावात् । तेन भरतैरावतयोः क्षेत्रयोर्वृद्धिहासौ मुख्यतः प्रतिपत्तव्यौ, गुणभावतस्तु तत्स्थमनुष्याणामिति तथा वचनं सफलतामस्तु ते प्रतीतिश्चानुल्लंघिता स्यात् । सूर्यस्य ग्रहोपरा गोपि न भूगोलछायया युज्यते तन्मते भूगोलस्याल्पत्वात् सूर्यगोलस्य तच्चतुर्गुणत्वात् तया सर्वग्रासग्रहण विरोधात् । एतेन चंद्रछायया सूर्यस्य ग्रहणमपास्तं चंद्रमसोपि ततोरूपत्वात् क्षितिगोलचतुर्गुणछायावृद्धिघटनाच्चंद्रगोल वृद्धिगुणछायावृद्धिगुणघटनाद्वा । ततः सर्वग्रासे ग्रहण - मविरुद्धमेवेति चेत् कुतस्तत्र तथा तच्छायावृद्धिः । सूर्यस्यातिदूरत्वादिति चेन्न, समतलभूमावपि तत एव छायावृद्धिप्रसंगात् । कथं च भूगोलादेरुपरि स्थिते सूर्ये तच्छायाप्राप्तिः प्रतीतिविरोधात् तदा छायाविरहप्रसिद्धेर्मध्यंदिनवत् ततः तिर्यक् स्थिते सूर्ये तच्छायाप्राप्तिरिति चेन्न, गोलात्पूर्वदिक्षु स्थिते रवौ पश्चिमदिगभिमुखछायोपपत्तेस्तत्प्रात्ययोगात् । सर्वदा तिर्यगेव सूर्यग्रहणसंप्रत्ययप्रसंगात् । मध्यं दिने खस्योपरि तत्प्रतीतेश्च क्षितिगोलस्याधः स्थिते भानौ चंद्रे च तच्छायया ग्रहणमिति चेन्न, रात्राविव तददर्शनप्रसंगात् । ननु च न तयावरणरूपया भूम्यादिछायया ग्रहणमुपगम्यते तद्विद्भिर्थतोऽयं दोषः । किं तर्हि ? उपरागरूपया चंद्रादौ भूम्याद्युपरागस्य चंद्रादिग्रहण व्यवहारविषयतयोपगमात् । जपाकुसुमाद्युपरागवत् तत्र तदुपपत्तेरिति कश्चित् ; सोपि न सत्यवाक्, तथा सति सर्वदा ग्रहणव्यव तत्त्वार्थश्लोकवार्तिके Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522