Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 403
________________ ३९४ तत्त्वार्थश्लोकवार्तिके [सू०२ मेयमित्यादिप्रत्यया द्रव्यांतरहेतुकाः संतु विशिष्टप्रत्ययत्वाविशेषात् तद्भेदेष्वपि पूर्वापरादिप्रत्ययाः परद्रव्यहेतुका इत्यनवस्था । दिक्षु भेदेषु द्रव्यांतरमंतरेण पूर्वापरादिप्रत्ययस्योत्पत्तौ तेनैव हेतोरनेकांतिकत्वास्कुतो दिसिद्धिः? विषुवति दिने यत्र सवितोदेति स पूर्वो दिग्भागो, यत्रास्तमेति सोऽपर इति दिग्भेदेषु पूर्वापरादिप्रत्ययसिद्धौ गगनप्रदेशपंक्तिष्वपि तथैव तत्सिद्धिरस्तु किमत्र दिग्द्रव्यांतरकल्पनया तद्देशद्रव्यकल्पनाप्रसंगात् । अयमतः पूर्वो देश इत्यादिप्रत्ययस्य देशद्रव्यमंतरेणानुपपत्तेः । पृथिव्यादिरेव देशं द्रव्यमित्ययुक्तं, तत्र पृथिव्यादिप्रत्ययोत्पत्तेः । पूर्वादिदिकृतः पृथिव्यादिषु पूर्वदेशादिप्रत्यय इति चेत्, पूर्वाद्याकाशकृतस्तत्रैव पूर्वादिदिक्प्रत्ययोस्त्विति व्यर्था दिक्कल्पना । नन्वेवमादित्योदयादिवशादेवाकाशप्रदेशश्रेणिष्विव पृथिव्यादिष्वेव पूर्वापरादिप्रत्ययसिद्धेराकाशश्रेणिकल्पनाप्यनर्थिका भवत्विति चेत् न, पूर्वस्यां दिशि पृथिव्यादय इत्याद्याधाराधेयव्यवहारदर्शनात् । पृथिव्यायधिकरणभूताया गगनप्रदेशपंक्तेः परिकल्पनस्य सार्थकत्वात् गगनस्य प्रमाणांतरत्वतः साधयिष्यमाणत्वाच्च । ततो न धर्मादीनामजीवादीनां दिग्द्रव्यरूपतोपसंख्यातव्या । पृथिव्यादिरूपतावत्स्कंधस्वरूप एवाजीवपदार्थ इत्यप्ययुक्तं, धर्माधर्मादीनामपि ततो भिन्नखभावानामजीवद्रव्याणामग्रे समर्थयिष्यमाणत्वात् । पुद्गलद्रव्यव्यतिरेकेण रूपस्कंधस्यासंभवाच्च सूक्तं धर्मादय एवाजीवपदार्था इति ॥ द्रव्याणि ॥ २॥ खपरप्रत्ययोत्पादविगमपर्यायैर्दूयंते द्रवंति वा तानीति द्रव्याणि, कर्मकर्तृसाधनत्वोपपत्तेः द्रव्यशब्दस्य स्याद्वादिनां विरोधानवतारात् । सर्वथैकांतवादिनां तु तदनुपपत्तिर्विरोधात् । द्रव्यपर्यायाणां हि भेदैकांतेन द्रव्याणां पर्यायैवणं तथा खयमसिद्धत्वात् । सिद्धरूपैरेव हि देवदत्तादिभिः प्रसिद्धसत्ताका ग्रामाद्रयो द्रूयमाणा दृष्टाः न पुनरसिद्धसत्ताकैरसिद्धसत्ताका वंध्यापुत्रादिभिः कूर्मरोमादय इति । न च द्रव्येभ्यः पर्यायाः पृथक् सिद्धसत्त्वाः पर्यायत्वविरोधात् द्रव्यांतरवत् , द्रव्यपरतंत्राणामेव खभावानां पर्यायत्वोपपत्तेः । पृथग्भूता अपि द्रव्यतो द्रव्यपरतंत्राः पर्यायास्तत्समवायादिति चेन्न, कथंचित्तादात्म्यव्यतिरेकेण समवायस्य निरस्तपूर्वत्वात् । पर्यायेभ्यो भिन्नानां द्रव्याणां च सत्त्वसिद्धौ पर्यायपरिकल्पनावैयर्थ्यात् । कार्यनानात्वपरिकल्पनायां त्वभिन्नपर्यायसंबंधनानात्वसिद्धितस्तन्निबंधनपर्यायांतरपरिकल्पनाप्रसंगात् । सुदूरमपि गत्वा पर्यायांतरतादात्म्योपगमे प्रथमत एव पर्यायतादात्म्योपगमे च न पर्यायैद्रव्याणि यंते कथंचिद्भिन्नानामेव प्राप्यप्रापकभावोपपत्तेः । स्याद्वादिनां तु भेदनयार्पणात् पर्यायाणां द्रव्येभ्यः कथंचि दे सति यथोदितपर्यायैर्दूयंते प्राप्यते इति द्रव्याणि 'कर्मणि यस्त्ये युज्यते' द्रवंति प्राप्नुवंति पर्यायानिति द्रव्याणीति च कर्तरि बहुलवचनादुपपद्यते द्रव्या इव भवंतीति द्रव्याणीति चेवार्थे द्रव्यशब्दस्य निपातनात् । द्रव्यत्वयोगाद्रव्याणीत्यपरे, तेषां द्रव्यत्ववंतीति स्याइंडीत्यभिधानवत् । अथाभेदोपचारः क्रियते यष्टियोगात् पुरुषो यष्टिरिति यथा तदपि द्रव्यत्वानीति स्यान्न तु द्रव्याणि, द्रव्यत्वाभावलक्षणाभावात् । तच्च द्रव्यत्वं द्रवणं द्रव्यमिति द्रव्यशब्दाभिधेयमपि सामान्यं । यदि सर्वगतामूर्तानां स्वखभावं द्रव्येभ्यः सर्वथा भिन्नं तदा न प्रमाणसिद्धं, द्रव्येषु सदृशपरिणामस्यैव द्रव्यत्वाख्यस्यानुवृत्त्यप्रत्ययहेतुत्वोपपत्तेरित्यन्यत्र निरूपणात् । अथ तदेव सादृश्यं सामान्यं तदाभिमतमेव पर्याय यंत इति द्रव्याणीति वचनात् सादृश्यव्यंजनपर्यायत्वात् धर्मादयोनुवर्तते इति सामानाधिकरण्यात् द्रव्याणीति वचनात् । पुल्लिंगत्वप्रसंग इति चेन्न, आविष्टलिंगत्वाद्रव्यशब्दस्य वनादिशब्दवत् ॥ किं पुनरत्रानेन सूत्रेण कृतमित्याह; Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522