Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 409
________________ ४०० तत्त्वार्थश्लोकवार्तिके [सू० ७ पुंसः स्वयं समर्थस्य तत्र सिद्धेर्न चान्यथा। तत्रैव द्रव्यसामर्थ्यानिष्क्रियाणामपि स्वयं ॥१५॥ धमोदीनां परत्रास्तु क्रियाकारणमाप्तता । नचैवमात्मनः कायक्रियाहेतुत्वमापतेत ॥ १६ ॥ सर्वथा निष्क्रियस्यापि स्वयं मानविरोधतः । आत्मा हि प्रेरको हेतुरिष्टः कायादिकर्मणि॥१७॥ तृणादिकर्मणीवास्तु पवनादिश्च सक्रियः । वीर्यातरायविज्ञानावरणच्छेदभेदतः ॥ १८ ॥ सक्रियस्यैव जीवस्य ततोंगे कर्महेतुता । हस्ते कर्मात्मसंयोगप्रपन्नाभ्यामुपेयते ॥ १९ ॥ यैस्तेपि च प्रतिक्षिप्तास्तयोस्तच्छक्त्ययोगतः। निष्क्रियो हि यथात्मैषां क्रियावद्वसदृश्यतः॥२० कालादिवत्तथैवात्मसंयोगः सप्रयत्नकः । गुणः स्यात्तस्य तद्वच्च निष्क्रियत्वादिदेशतः ॥ २१ ॥ गुणाः कर्माणि चैतेन व्याख्यातानीति सूचनात् । न तावदात्मसंयोगः केवलः कर्मकारणं॥२२ निःप्रयत्नस्य हस्तादौ क्रियाहेतुत्वहानितः । नैकस्य तत्प्रयत्नस्य क्रियाहेतुत्वमीक्ष्यते ॥ २३ ॥ शरीरायोगिनोन्यस्य ततः कर्मप्रसंगतः । सहितावात्मसंयोगप्रपन्नौ कुरुतः क्रियाः ॥२४॥ हस्तादावित्यसंभाव्यमनयोः सहदृष्टिवत् । अदृष्टापेक्षिणौ तौ चेदकुर्वाणौ क्रियां नरि ॥ २५॥ हस्तादौ कुरुतः कर्म नैवं कचिददृष्टतः । उष्णापेक्षो यथा वन्हिसंयोगः कलशादिषु ॥ २६ ॥ रूपादीन् पाकजान वर्तते वह्नौ स्वाश्रये तथा । नृसंयोगादिरन्यत्र क्रियामारभते न तु ॥२७॥ खाधारे नरि तस्येत्थं सामर्थ्यादितिचेन वै । वैषम्यादसदिष्टस्य सिद्धेः साध्यसमत्वतः ॥२८ प्रतीतिबाधनाच्चैतद्विपरीतप्रसिद्धितः । साध्ये क्रियानिमित्तत्वे दृष्टांतो ह्यक्रियाश्रयः ॥ २९ ॥ स्यादेष विषमस्तावदग्निसंयोग उष्णभृत् । यथा च स्वाश्रये कुर्वन् विकारं कलशादिषु ॥३०॥ करोति वन्हिसंयोगः पुंसो योगस्तथा तनौ । इत्यस्मदिष्टसंसिद्धिः क्रियापरिणतस्य नुः ॥३१ काये क्रियानिमित्तत्वसिद्धेः संयोगिनि स्फुटं । संयोगार्थातरं वन्हेंः कुटादेश्च तदाश्रितः ॥ ३२ समवायात्ततो भिन्नप्रतीत्या बाध्यते न किं । घटादिष्वामरूपादीन् विनाशयति स स्वयं ॥३३ पाकजान् जनयत्येतत्प्रतिपद्येत कः सुधीः । न चैषा पाकजोत्पत्तिप्रक्रिया व्यवतिष्ठते ॥३४॥ वन्हेः पाकजरूपादिपरिणामाः कुटादिषु । खहेतुभेदतः सर्वः परिणामः प्रतीयते ॥ ३५ ॥ पूर्वाकारपरित्यागादुत्तराकारलब्धितः । कुटे पाकजरूपादिपरित्यागेन जायते ॥ ३६॥ वन्हेः पाकजरूपादिस्तथा दृष्टेरबाधनात् । नौष्ण्यापेक्षस्ततो वन्हिसंयोगोत्र निदर्शनं ॥ ३७॥ नुः क्रियाहेतुतासिद्धौ विपरीतप्रसिद्धितः । अनुष्णाशीतरूपश्चाप्रेरकोनुपघातकः ॥ ३८ ॥ कुटेः प्राप्तः कथं रूपाद्युच्छेदोत्पादकारणं । गुरुत्वं निष्क्रिय लोष्ठे वर्तमानं तृणादिषु ॥ ३९ ॥ क्रियाहेतुर्यथा तद्वत्प्रयत्नादिस्तथेक्षणात् । ये त्वाहुस्तेपि विध्वस्ताः प्रत्येतव्या दिशानया ॥४० स्वाश्रये विक्रियाहेतौ ततोन्यत्र हि विक्रिया । द्रव्यस्यैव क्रियाहेतुपरिणामात्पुनः पुनः॥४१ क्रियाकारित्वमन्यत्र प्रतीत्या नैव बाध्यते । पुरुषस्तद्गुणो वापि न क्रियाकारणं तनौ ॥४२॥ निष्क्रियत्वाद्यथा व्योमेत्युक्तिर्यात्मनि बाधकं । नानैकांतिकता धर्मद्रव्येणास्य कथंचन ॥४३ तस्याः प्रेरकतासिद्धेः क्रियाया विग्रहादिषु । एवं सक्रियतासिद्धावात्मनो निर्वतावपि ॥४४॥ सक्रियत्वं प्रसक्तं चेदिष्टमूर्ध्वगतित्वतः । यादृशी सशरीरस्य क्रिया मुक्तस्य तादृशी॥ ४५ ॥ न युक्ता तस्य मुक्तत्वविरोधात् कर्मसंगतः। क्रियानेकप्रकारा हि पुद्गलानामिवात्मनां ॥४६॥ स्वपरप्रत्ययायत्तभेदा न व्यतिकीर्यते । सान्यैव तद्वतो येषां तेषां तद्वयशून्यता ॥४७॥ क्रियाक्रियावतोभैदेनाप्रतीतेः कदाचन । क्रियाक्रियाश्रयौ भिन्नौ विभिन्नप्रत्ययत्वतः ॥ ४८ सह्यविंध्यवदित्येतद्विभेदैकांतसाधनं । धर्मिग्राहिप्रमाणेन हेतोधिननिर्णयात् ॥ ४९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522