Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 406
________________ पञ्चमोऽध्यायः । विरुध्यते । एकैकमस्तु लघुत्वात् प्रसिद्धत्वाद्द्रव्यगतेरिति चेन्न वा द्रव्यापेक्षयैकत्वख्यापनार्थत्वादेकद्रव्याणीतिवचनस्य पर्यायार्थादेशाद्बहुत्वप्रतिपत्तेः ॥ एकसंख्याविशिष्टानीत्येकद्रव्याणि सूचयन् । अनेकद्रव्यतां हंति धर्मादीनामसंशयम् ॥ १॥ आ आकाशादितिख्यातिः पुद्गलानां नृणामपि । कालाणूनामनेकत्वविशिष्टद्रव्यतां विदुः ॥२ आ आकाशादेकत्वसंख्याविशिष्टान्येकद्रव्याणीति सूत्रयन्न केवलं द्रव्यापेक्षयानेकद्रव्यतामेषामपास्यति । किं तर्हि ? जीवपुद्गल कालद्रव्याणामेकत्वं च ततोनेकत्वविशिष्टद्रव्यतामेषां वार्तिककारादयो विदुः । कथमिति चेत्, उच्यते ३९७ एकद्रव्यमयं धर्मः स्यादधर्मश्च तत्त्वतः । महत्त्वे सत्यमूर्तत्वात्खवत्तत्सिद्धिवादिनाम् ॥ ३ ॥ महत्त्वादित्युच्यमाने पुद्गलस्कंधैर्व्यभिचारो मा भूदित्यमूर्तत्ववचनं, अमूर्तत्वादित्युक्ते कालाणुभिर्वादिनः सुखादिभिः प्रतिवादिनोऽनेकांतो मा भूदिति महत्त्व विशेषणं । न चामूर्तत्वमसिद्धं धर्माधर्मयोः पुद्गलादन्यत्वे सति द्रव्यत्वादाकाशवदिति तत्साधनात् । नापि महत्त्वं त्रिजगद्व्यापित्वेन साधयिष्यमाणत्वात् । ततो निरवद्यो हेतुः । खमुदाहरणमपि न साध्यसाधनधर्मविकलं तत्सिद्धिवादिनां तदेकद्रव्यत्वस्य साध्यधर्मस्य साधनधर्मस्य च महत्त्वामूर्तत्वस्य तत्त्वस्य तत्र प्रसिद्धत्वात् । गगनासत्त्ववादिनां प्रति तस्य तथात्वेनाग्रे साधनाद्धर्माधर्मद्रव्यवत् । तत एव नाश्रयासिद्धो हेतुस्तदाश्रयस्य धर्मस्याधर्मस्य च प्रमाणत्वे सिद्धत्वात् ॥ नानाद्रव्यमसौ नानाप्रदेशत्वाद्धरादिवत् । इत्ययुक्तमनेकांतादाकाशेनैकता हृता ॥ ४ ॥ तस्य नान प्रदेशत्वसाधनादग्रतो नयात् । निरंशस्य स तत्सर्वमूर्तद्रव्यैर संगतः ॥ ५ ॥ ततो न पक्षस्यास्यानुमाने बाधा तस्याप्रयोजकत्वात् । नापि हेतोः कालात्ययापदिष्टतेति धर्माधर्मयोरेकद्रव्यत्वसिद्धिः ॥ यथा च तानि धर्माधर्माकाशान्येकद्रव्याणि तथा— निष्क्रियाणि च ॥ ७ ॥ उभयनिमित्तापेक्षः पर्यायविशेषो द्रव्यस्य देशांतरप्राप्तिहेतुः क्रिया, न पुनः पदार्थोंतरं तथा प्रतीयमानत्वात् गुणसामान्यविशेषसमवायवत् । ननु क्रिया द्रव्यात्पदार्थांतरं तद्भिन्नलक्षणत्वाद्गुणादिवदिति । पदार्थांतरत्वेनाप्रतीयमानत्वमसिद्धमिति चेत्, कथंचिद्भिन्नलक्षणत्वस्य द्रव्यव्यक्तिभिरनेकांतात् । कालादिद्रव्यव्यक्तीनां न द्रव्याद्भिन्नलक्षणत्वं क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणस्य तत्र भावादि चेन्न, कालादिषु क्रियावत्त्ववर्जितस्य द्रव्यलक्षणस्योपगमात् । पृथिव्यादिषु तदवर्जितस्य तस्य व्याख्या - नात् कथंचितेषां द्रव्यलक्षणभेदसिद्धेः । पदार्थांतरत्वे तु द्रव्यव्यक्तीनां गुणादिव्यक्तीनामपि पदार्थीतरस्वप्रसक्तेः कुतः षट्पदार्थनियमः ? द्रव्यत्वप्रतीतिमात्रं द्रव्यलक्षणं सकलद्रव्य व्यक्तीनामभिन्नं नास्य कर्मणि मनागप्यभावात् । सर्वथा तद्भिन्नलक्षणत्वं हेतुरिति चेत्, प्रतिवाद्यसिद्धः सद्रव्यलक्षणमिति कर्मण्यपि द्रव्यप्रत्ययमात्रस्य द्रव्यलक्षणस्य भावादन्यथा तदसत्त्वप्रसंगात् । न हि सत्तामहासामान्यमेव द्रव्यमिति स्याद्वादिनां दर्शनं तस्याः शुद्धद्रव्यत्वोपगमात् । गुणपर्ययवद्द्रव्यमित्यशुद्धद्रव्यलक्षणस्य कर्मण्यभावेपि कथंचिदेकद्रव्याभिन्नलक्षणत्वं तस्य सिध्येन सर्वथा । तच्च कथंचित्पदार्थांतरत्वं साधयेदिति विरुद्धसाधनाद्विरुद्धं परैः सर्वथा पदार्थांतरत्वस्य तत्र साध्यत्वात् । कर्म सर्वथा न द्रव्यपदार्थांतरं कथंचित्तद्भिन्नलक्षणत्वाद्गुणादिवदिति परमतसिद्धेः । न चात्र कर्माप्रतिपन्नं येनाश्रयासिद्धिः साधनस्य । नापि सर्वथा पदार्थांतरत्वेन द्रव्यात्प्रतिपन्नं कुतश्चित्प्रमाणात् स्याद्वादिभिः, येन धर्मिग्राहक प्रमाणबाधा - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522