Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 386
________________ • चतुर्थोऽध्यायः । ३७७ योजनमात्रस्यैव समभूभागस्याप्रतीतेः कुरुक्षेत्रादिषु भूद्वादशयोजनादिप्रमाणस्यापि समभूतलस्य सुप्रसिद्धत्वात् । तच्छतगुण विष्कंभ भूगोल परिकल्पनायामनवस्थाप्रसंगात् । कथं च स्थिरेपि भूगोले गंगासिंध्वादयो नद्यः पूर्वापरसमुद्रगामिन्यो घटेरन् ? भूगोलमध्यांतप्रभवादिति चेत्, किं पुनर्भूगोलमध्यं ? । उज्जयिनीति चेत्, न ततो गंगासिंध्वादीनां प्रभवः समुपलभ्यते । यस्मात्तत्प्रभवः प्रतीयते तदेव मध्यमिति चेत्, तदिदमतिव्याहतं । गंगाप्रभवदेशस्य मध्यत्वे सिंधुप्रभवभूभागस्य ततोतिव्यवहितस्य मध्यत्वविरोधात् । स्वबाह्यदेशापेक्षया त्वस्य मध्यत्वे न किंचिदमध्यं स्यात् खसिद्धांत परित्यागश्वोज्जयिनीमध्यवादिनां । तदपरित्यागे चोज्जयिन्या उत्तरतो नद्यः सर्वा उदङ्मुख्यस्तस्या दक्षिणतोऽवाङ्मुख्यस्ततः पश्चिमतः प्रत्यमुख्यस्ततः पूर्वतः प्राङ्मुख्यः प्रतीयेरन् । भूम्यवगाहभेदान्नदीगतिभेद इति चेन्न, भूगोलमध्ये महावगाहप्रतीतिप्रसंगात् । न हि यावानेव नीचैर्देशेवगाहस्तावानेवोर्ध्व भूगोले युज्यते । ततो नदीभिर्भूगोलानुरूपतामतिक्रम्य वतीति भूगोलविदारणमिति सममेव धरातलमवलंबितुं युक्तं, समुद्रादिस्थितिविरोधश्च तथा परिहृतः स्यात् । तद्भूमिशक्तिविशेषात्स परिगीयत इति चेत्, तत एव समभूमौ छायादि - भेदोस्तु । शक्यं हि वक्तुं लंकाभूमेरीदृशी शक्तिर्यतो मध्याह्ने अल्पछाया मान्यखेटाद्युत्तरभूमेस्तु तादृशी यतस्तदाधिष्ठिततारतम्यभा छाया । तथा दर्पणसमतलायामपि भूमौ न सर्वेषामुपरि स्थिते सूर्ये छायाविरहस्तस्यास्तदभेदनिमित्तशक्तिविशेषासद्भावात् । तथा विषुमति समरात्रमपि तुल्यमध्यदिने वा भूमिशक्तिविशेषादस्तु । प्राच्यामुदयः प्रतीच्यामस्तमयः सूर्यस्य तत एव घटते । कार्यविशेषदर्शनाद्रव्यस्य शक्तिविशेषानुमानस्याविरोधात् अन्यथा दृष्टहानेरदृष्टकल्पनायाश्चावश्यं भावित्वात् । सा च पापीयसी महामोहविजृंभितमावेदयति । न च वयं दर्पणसमतलामेव भूमिं भाषामहे प्रतीतिविरोधात् तस्याः काला दिवशादुपचयापचयसिद्धेर्निम्नोन्नताकारसद्भावात् । ततो नोज्जयिन्या उत्तरोत्तरभूमौ निम्नायां मध्यं दिने छायावृद्धिर्विरुध्यते । नापि ततो दक्षिणक्षितौ समुन्नतायां छायाहानिरुन्नतेतरा कारभेदद्वारायाः शक्तिभेदप्रसिद्धेः । प्रदीपादिवादित्यान्न दूरे छायाया वृद्धिघटनात् निकटे प्रभातोपपत्तेः । तत एव नोदयास्तमययोः सूर्यादेबिंबार्धदर्शनं विरुध्यते । भूमि संलग्नतया वा सूर्यादिप्रतीतिर्न संभाव्या, दूरादिभूमेस्तथाविधदर्शनजननशक्तिसद्भावात् ॥ न च भूमात्र निबंधनाः समरात्रादयस्तेषां ज्योतिष्कगतिविशेषनिबंधनत्वादित्यावेदयति ; समरात्रंदिवावृद्धिर्हानिर्दोषाच्च युज्यते । छायाग्रहोपरागादिर्यथा ज्योतिर्गतिस्तथा ॥ १५ ॥ खखंडभेदतः सिद्धा बाह्याभ्यंतरमध्यतः । तथाभियोग्यदेवानां गतिभेदात्स्वभावतः ॥ १६ ॥ सूर्यस्य तावच्चतुरशीतिशतं मंडलानि । तत्र पंचषष्टिरभ्यंतरे जंबूद्वीपस्याशीतिशतयोजनं समवगाह्यप्रकाशनाज्जंबूद्वीपाद्वाह्यमंडलान्येकान्नविंशतिशतं लवणोदस्याभ्यंतरे त्रीणि त्रिंशानि योजनशतान्यवगाह्य तस्य प्रकाशनात् । द्वियोजनमेकैकमंडलांतरं द्वे योजने अष्टाचत्वारिंशद्योजनै कषष्टिभागाश्चैकैकमुदयांतरं । तत्र यदा त्रीणि शतसहस्राणि षोडशसहस्राणि सप्तशतानि यधिकानि परिधिपरिमाणं बिभ्रति तुलमेषप्रवेशदिनगोचरे सर्वमध्यमंडले मेरुं पंचचत्वारिंशद्योजन सहस्रैः पंचपंचाशद्योजनैरष्टाविंशत्या योजनैकषष्टिभागैश्च प्राप्य सूर्यः प्रकाशयति तदाहनि पंचदशमुहूर्ता भवंति रात्रौ चेति समरात्रं सिद्ध्यति । विषुमति दिने द्वाविंशत्येकषष्टिभागः सातिरेकाष्टसप्ततिद्विशतपंचसहस्रयोजन परिमाणां कमुहूर्त गति क्षेत्रोपपतेः । दक्षिणोत्तरे समप्रणिधीनां च व्यवहितानामपि जनानां प्राच्यमादित्यप्रतीतिश्च लंकादिकुरुक्षेत्रांतरदेशस्थानामभिमुखमादित्यस्योदयात् । अष्टचत्वारिंशद्योजनै कषष्टि भागत्वात् प्रमाणयोजनापेक्षया सातिरेक ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522