Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 397
________________ ३८८ तत्त्वार्थश्लोकवार्तिके [सू० ३५ सानत्कुमारमाहेंद्रयोः सप्त ॥ ३०॥ अधिकारात् सागरोपमाधिकानि चेति संप्रत्ययः ॥ त्रिसप्तनवैकादशत्रयोदशपंचदशभिरधिकानि तु ॥ ३१ ॥ सप्तेत्यनुवर्तते, तेन सानत्कुमारमाहेंद्रयोरुपरि द्वयोः कल्पयोः सप्तसागरोपमाणि त्रिभिरधिकानि इति . दश साधिकानि स्थितिः, तयोरुपरि द्वयोः कल्पयोः सप्त सप्ताधिकानीति चतुर्दशाधिकानीति, तयोरुपरि द्वयोः सप्त नवभिरधिकानीति षोडशाधिकानि, तयोरुपरि द्वयोः सप्तैकादशभिरधिकानीत्यष्टदशाधिकानि, तयोरुपरि द्वयोरानतप्राणतयोः सप्तत्रयोदशभिरधिकानीति विंशतिरेव, तयोरुपरि द्वयोरारणाच्युतयोः सप्तपंचदशभिरधिकानीति द्वाविंशतिरेव । तुशब्दस्य विशेषणार्थत्वात् । आसहस्रादधिकारात् परत्राधिकानीत्यभिसंबंधाभावः ॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ।। ३२॥ अधिकारादधिकसंबंधः । ग्रैवेयकेभ्यो विजयादीनां पृथग्रहणमनुदिशसंग्रहार्थं । प्रत्येकमेकैकवृद्ध्यभिसंबंधार्थ नवग्रहणं । सर्वार्थसिद्धस्य पृथग्ग्रहणं विकल्पनिवृत्त्यर्थ ॥ का पुनरियं भवनवास्यादीनां स्थितिरुक्तेत्याह;स्थितिरित्यादिसूत्रेण योक्ता भवनवासिनां । विशेषेण स्थितिर्या च तदनंतरकीर्तिता ॥ १॥ सूत्रैश्चतुर्भिरभ्यासायथागमविशेषतः । परा वैमानिकानां च सोत्तरत्रावरोक्तितः ॥३॥ अवरायाः स्थितेरुत्तरत्र वचनादिह भवनवासिनामेकेन सूत्रेण वैमानिकानां च चतुर्भिः सूत्रैविशेषेण या स्थितिः परोक्ता सा परोत्कृष्टेति गम्यते ॥ का पुनरवरेत्याह; __ अपरा पल्योपममधिकम् ॥ ३३ ॥ परिशेषात्सौधर्मेशानयोर्देवानामवरा स्थितिरियं विज्ञायते, ततोन्येषामुत्तरत्र जघन्यस्थितेर्वक्ष्यमाणत्वात् ॥ पल्योपममतिरिक्तमवरास्थितिमब्रवीत् । सौधर्मेशानयोः सेह सूत्रेर्थात्संप्रतीयते ॥ १॥ तत एवानंतरसूत्रेण सानत्कुमारादिषु जघन्या स्थितिरुच्यते; परतः परतः पूर्वा पूर्वानंतरा ॥ ३४ ॥ अपरेत्यनुवर्तते, तेन परतः परतो या च परा स्थितिः सा पूर्वा पूर्वानंतरा परस्मिन्नवरा स्थितिरिति संप्रत्ययः । अधिकग्रहणानुवृत्तेः सातिरेकसंप्रत्ययः । आ विजयादिभ्योधिकारः । अनंतरेति वचनं व्यवहितनिवृत्त्यर्थ । सर्वेत्येतावत्युच्यमाने व्यवहितग्रहणप्रसंगस्तत्रापि पूर्वशब्दप्रवृत्तेः ॥ नारकाणां च द्वितीयादिषु ॥ ३५॥ किमर्थ नारकाणां जघन्या स्थितिरिह निवेदितेत्याह;सानत्कुमारमाहेंद्रप्रभृतीनामनंतरे । यथा तथा द्वितीयादिपृथिवीषु निवेदिता ॥१॥ नारकाणां च संक्षेपादत्रैव तदनंतरे देवस्थितिप्रकरणेपि नारकस्थितिवचनं संक्षेपार्थे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522