Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 388
________________ . चतुर्थोऽध्यायः । ३७९ हारप्रसंगात् भूगोलात्सर्वदिक्षु स्थितस्य चंद्रादेस्तदुपरागोपपत्तेः । जपाकुसुमादेः समंततः स्थितस्य स्फटिकादेस्तदुपरागवत् । न हि चंद्रादेः कस्यांचिदपि दिशि कदाचिदव्यवस्थितिर्नाम भूगोलस्य येन सर्वदा तदुपरागो न भवेत् तस्य ततोतिविप्रकर्षात् कदाचिन्न भवत्येव प्रत्यासत्त्यतिदेशकाल एव तदुपगमादिति चेत्, किमिदानीं सूर्यादेर्भ्रमणमार्गभेदोभ्युपगम्यते ? बाढमभ्युपगम्यत इति चेत्, कथं नानाराशिषु सूर्यादिग्रहणं प्रतिराशिमार्गस्य नियमात् प्रत्यासन्नतममार्गभ्रमण एव तद्धनात् अन्यथा सर्वदा ग्रहणप्रसंगस्य दुर्निवारत्वात् । प्रतिराशि प्रतिदिनं च तन्मार्गस्याप्रतिनियमात् समरात्रदिवस - द्धिहान्यादिनियमाभावः कुतो विनिवार्येत ? भूगोलशक्तेरिति चेत्, उक्तमत्र समायामपि भूमौ तत एव समरात्रादिनियमोस्त्विति । ततो न भूछायया चंद्रग्रहणं चंद्रछायया वा सूर्यग्रहणं विचारसहं । राहुविमानोपरागोत्र चंद्रादिग्रहणव्यवहार इति युक्तमुत्पश्यामः सकलबाधक विकलत्वात् । न हि राहुविमानानि सूर्यादिविमानेभ्योल्पानि श्रूयंते । अष्टचत्वारिंशद्योजनैकषष्टिभागविष्कंभायामानि तत्रिगुणसातिरेक परिधीनि चतुर्विंशतियोजनैकषष्टिभागबाहुल्यानि सूर्यविमानानि, तथा षट्पंचाशद्योजनैकषष्टिभागविष्कंभायामानि तत्रिगुणसातिरेकपरिधीन्यष्टाविंशतियोजनै कषष्टिभागबाहुल्यानि चंद्र विमानानि, तथैकयोजनविष्कंभायामानि सातिरेकयोजनत्रयपरिधीन्यर्धतृतीयधनुस्तु बाहुल्यानि राहुविमानानीति श्रुतेः । ततो न चंद्रबिंबस्य सूर्यबिंबस्य वार्धग्रहोपरागो कुंठविषाणत्वदर्शनं विरुध्यते । नाप्यन्यदा तीक्ष्णविषाणत्वदर्शनं व्याहन्यते राहुविमानस्यातिवृत्तस्य अर्धगोलकाकृतेः परभागेनोपरक्ते समवृत्ते अर्धगोलकाकृतौ सूर्यबिंबे चंद्रबिंबे तीक्ष्णविषाणतया प्रतीतिघटनात् । सूर्याचंद्रमसां राहूणां च गतिभेदात्तदुपरागभेदसंभवाग्रहयुद्धादिवत् । यथैव हि ज्योतिर्गतिः सिद्धा तथा ग्रहोपरागादिः सिद्ध इति स्याद्वादिनां दर्शनं न च सूर्यादिविमानस्य राहुविमानेनोपरागोऽसंभाव्यः, स्फटिकस्येव स्वच्छस्य तेनासितेनोपरागघटनात् । स्वच्छत्वं पुनः सूर्यादिविमानानां मणिमयत्वात् । तप्ततपनीयसमप्रभाणि लोहिताक्षमणिमयानि सूर्यविमानानि, विमलमृणालवर्णानि चंद्रविमानानि, अर्कमणिमयानि अंजनसमप्रभाणि राहुविमानानि, अरिष्टमणिमयानीति परमागमसद्भावात् । शिरोमात्रं राहुः सर्पाकारो वेति प्रवादस्य मिथ्यात्वात् तेन ग्रहोपरानुपपत्तेः वराहमिहरादिभिरप्यभिधानात् । कथं पुनः सूर्यादिः कदाचिद्राहुविमानस्यावग्भागेन महतोपरज्यमानः कुंठविषाणः स एवान्यदा तस्यापरभागेनाल्पेनोपरज्यमानस्तीक्ष्णविषाणः स्यादिति चेत्, तदाभियोग्यदेवगतिविशेषात्तद्विमानपरिवर्तनोपपत्तेः । षोडशभिर्देवसहस्रैरुह्यंते सूर्यविमानानि प्रत्येकं पूर्वदक्षिणोत्तरापरभागात् क्रमेण सिंहकुंजरवृषभतुरंगरूपाणि विकृत्य चत्वारि चत्वारि देवसहस्राणि वहंतीति वचनात् । तथा चंद्रविमानानि प्रत्येकं षोडशर्भिर्देवसह सैरुह्यंते, तथैव राहुविमानानि प्रत्येकं चतुर्भिर्देव सहस्रैरुह्यते इति च श्रुतेः । तदाभियोग्यदेवानां सिंहादिरूपविकारिणां कुतो गतिभेदस्तादृक् इति चेत्, स्वभावत एव पूर्वोपात्तकर्मविशेषनिमित्तकादिति ब्रूमः । सर्वेषामेवमभ्युपगमस्यावश्यं भावित्वादन्यथा खेष्टविशेषव्यवस्थानुपपत्तेः तत्प्रतिपादकस्यागमस्यासंभवद्बाधकस्य सद्भावाच्च । गोल|कारा भूमिः समरात्रादिदर्शनान्यथानुपपत्तेरित्येतद्बाधकमागमस्यास्येति चेत् न, अत्र हेतोरप्रयोजकत्वात् । समरात्रादिदर्शनं हि यदि तिष्ठद्भूमेर्गोलाकारतायां साध्यायां हेतुस्तदा न प्रयोजकः स्यात् भ्रम्यद्भूमेर्गोलाकारतायामपि तदुपपत्तेः । अथ भ्रमद्भूमेर्गोलाकारतायां साध्यायां, तथाप्यप्रयोजको हेतुस्तिष्ठत् भूगोलाकारतायामपि तद्धनात् । अथ भूसामान्यस्य गोलाकारतायां साध्यायां हेतुस्तथाप्यगमकस्तिर्यक्सूर्यादिश्रमणवादिनामर्धगोलकाकारतायामपि भूमेः साध्यायां तदुपपत्तेः । समतलायामपि भूमौ ज्योतिर्गति विशेषात्समरात्रादिदर्शनस्योपपादितत्वाच्च । नातः साध्यसिद्धिः कालात्यया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522