Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 372
________________ तृतीयोऽध्यायः । ३६३ सिद्ध्येत् । क्षित्यादिदृष्ट सामग्रीसद्भावेपि कचित्स्थावरादीनामनुपलंभाददृष्टकारणत्वं सिद्ध्यत्येव । कथमेवं तदुत्पत्तौ कालादेर्हेतुत्वमिति सर्वगतस्य व्यतिरेकासिद्धेरीश्वरवदिति वदंतं प्रत्याह; — कालादिपर्ययस्यापि नित्यत्वाद्यप्रसिद्धितः । सर्वथा कार्यनिष्पत्तौ हेतुत्वं न विरुध्यते ॥ ४२ ॥ न हि कालाकाशादिपर्यायाणां नित्यत्वं सर्वगतत्वं वा प्रसिद्धं कालाणूनामेव द्रव्यार्थादेशान्नित्यत्वोपगमात् । निःपर्यायस्य नित्यस्य सर्वगतस्य च कालस्य परोपगतस्याप्रमाणकत्वात्, सर्वगतस्य नित्यस्य चाकाशद्रव्यस्यैव व्यवस्थापनान्निः पर्यायस्य तस्यापि ग्राहकप्रमाणाभावात् । धर्मास्तिकायस्याधर्मास्तिकायस्य च लोकव्यापिनोपि द्रव्यत एव नित्यत्वोपगमात् पर्यायतोऽसर्वगतत्वादनित्यत्वाच्च । ततो युक्तं स्वकार्योत्पत्तौ निमित्तत्वं सर्वथा विरोधाभावात् । यद्येवं महेश्वरगुणस्य सिसृक्षालक्षणस्यानित्यत्वादसर्वगतत्वात् च तन्निमित्तत्वं स्थावरादीनां युक्तं व्यतिरेकप्रसिद्धेरिति पराकूतमनूद्य दूषयति ; 1 " महेश्वरसिसृक्षाया जगज्जन्मेति केचन । तस्याः शाश्वततापायाद् विभुत्वाददृष्टवत् ॥ ४३ ॥ तदयुक्तं महेशस्य सिसृक्षांतरतो विना । सिसृक्षोत्पादने हेतोस्तथैव व्यभिचारतः ॥ ४४ ॥ सिसृक्षांतरतस्तस्याः प्रसूतावनवस्थितेः । स्थावरादिसमुद्भूतिर्न स्यात्कल्पशतैरपि ॥ ४५ ॥ तद्भोक्तृप्राण्यदृष्टस्य सामर्थ्यात्सा भवस्य चेत् । प्रसूतिः स्थावरादीनां तस्मादन्वयनान्न किं ४६ स्वातंत्र्येण तदुद्भूतौ सर्वदोपरमच्युतेः । सर्वत्र सर्वकार्याणां जन्म केन निवार्यते ॥ ४७ ॥ व्याख्यातात्रेश्वरेणैव नित्या साध्यातिरेकिणी । कचिद्व्यवस्थितान्यत्र न स्यादन्वयभागपि ४८ नन्वेवं कालादिपर्ययस्य स्वकार्योत्पत्तौ निमित्तभावमनुभवतः प्रादुर्भावे यद्यपरः कालादिपर्यायो निमित्तं तद्वदन्यकार्योत्पत्तावपि कालादिपर्यायी निमित्तं मा भूत्, अथ निमित्तं तदुत्पत्तावप्यपरो निमितमित्यनवस्था स्यात् कालादिपर्यायस्य कारणमंतरेणोत्पत्तौ देशकालादिनियमानुपपत्तेः सर्वत्र सर्वदा भावात्सर्वकार्याणामनुपरतेत्यतिप्रसंग: । तस्य नित्यत्वे कालादिद्रव्यवद्यतिरिक्ता सिद्धिरन्वयमात्रसिद्धावपि सर्वदोत्पत्तिस्तेषामनिमित्तत्वप्रसंग ः । सिसृक्षावत्स्थावराद्युत्पत्ताविति केचित् तेपि न तत्त्वज्ञाः । स्याद्वादिनां स्वकार्योत्पत्तिनिमित्तस्य कालादिपर्ययस्य निमित्तत्व सिद्धेस्तदुत्पत्तावपि तत्पूर्वकालादिपर्यायस्य निमित्तत्वमित्यनादित्वान्निमित्तनैमित्तिकभावस्य तत्पर्यायाणां बीजांकुरादिवदनवस्थानवतारात् । कथंचित्खातंत्र्येणोत्पद्यमानस्यापि सर्वत्र सर्वदा च भावानुत्पत्तेः नित्यत्वाभ्युपगमाच्च । ननु महेश्वरसिसृक्षापि तर्हि स्त्रावराद्युत्पत्तौ निमित्तभावमनुभवतीति पूर्वसिसृक्षातः सापि खपूर्वसिसृक्षातः इत्यनादित्वात् कार्यकारणभावस्य कथमनवस्थादोषेणोपद्र्येत कथं वा तथैव हेतवो नैकांतिकाः स्युः ? न स्थावरादिकार्यानुपरमः स्वातंत्र्येणानुत्पादात् । नाव्यतिरेको नित्यत्वानभ्युपगमात् सिसृक्षायाः तन्नित्यत्वे सर्वदा कार्योत्पतिप्रसंगात् । सर्वदा सहकारिणामभावान्न तत्प्रसंग इति चेन्न, तेषामपि महेश्वरसिसृक्षया तज्जन्मत्वे सर्वदा सद्भावापत्तेस्तदनायत्तजन्मकृतैरेव हेतूनां व्यभिचारात् । तत्सहकारिणोपि खोत्पत्तिहेतूनामभावात् सर्वदोत्पद्यत इति चेन्न, तेषामपीश्वरसिसृक्षायास्तज्जन्मत्वेतरयोरुक्तदोषानुषंगात् । तत्सहकारिणां नित्यत्वे स एव सर्वदा कार्योत्पत्तिप्रसंग: । सिसृक्षायाः सहकारिणां च नित्यत्वादनित्यैव सा युक्ता । ब्राह्मण मानेन वर्षशतांते प्राणिनां भोगभूतये भगवतो महेश्वरस्य चतुर्दशभुवनाधिपतेः सिसृक्षोत्पद्यत इति वचनाच्च न नित्यासैौ तथोत्पत्तिविरोधादिति केचित् । तत्रैकेषां दूषणं सिसृक्षाया नित्यत्वाभावेपि दृष्टं क्षित्यादिकारण साकल्येपि स्थावरादीनां कदाचिदनुत्पत्तिप्रसंगः कदाचित्तदभावसंभवात् तदंत्य सहकारिकारणसन्निधानानंतरमेव सिसृक्षोत्पत्तेस्तदभावासंभवे तस्याः सहकारिकारणप्रभवत्वप्रसंगः तद्नंतर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522