Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 382
________________ चतुर्थोऽध्यायः । ३७३ चातुर्वर्ण्यादिवत्, अथवा अभियोगे साधवः आभियोग्याः अभियोगमर्हतीति वा आभियोग्यास्ते च दाससमानाः । किल्बिषं पापं तदेषामस्तीति किल्बिषिकाः तेंत्यवासिस्थानीयाः । एकैकस्य निकायस्यैकश इति वीप्सा शस् ॥ कुतः पुनरेकैकस्य निकायस्येंद्रादयो दशविकल्पाः प्रतीयंत इत्यावेदयति इंद्रादयो दशैतेषामेकशः प्रतिसूत्रिताः । पुण्यकर्मविशेषाणां तद्धेतूनां तथा स्थितेः ॥ १ ॥ यथैव हि देवगतिनामपुण्यकर्मसामान्या देवास्तद्विशेषभवनवासिनामादिपुण्योदयाच्च भवनवास्यादयस्तथैवेंद्रादिनामपुण्यकर्मविशेषेण इंद्रादयोपि संभाव्यंते, तेषां तद्धेतूनां युक्त्यागमाभ्यां व्यवस्थितेर्बा - धकाभावात् ॥ त्रायस्त्रिंशलोकपालवर्ज्या व्यंतरज्योतिष्काः ॥ ५ ॥ इंद्रादिदश विकल्पानामुत्सर्गतोऽभिहितानां चतुर्षु निकायेष्वविशेषेण प्रसक्तौ तदर्थमिदमुच्यते । कुतः पुनर्व्यतरा ज्योतिष्काः त्रायस्त्रिंशैर्लोकपालैश्च वर्ज्या येन तेष्टविकल्पा एव स्युरित्यारेकायामिदमाह; तत्रापि व्यंतरा वर्ज्या ज्योतिष्काश्चोपवर्णिताः । त्रायस्त्रिंशैस्तथा लोकपालैस्तद्धेत्वसंभवात् ॥ १॥ न हि व्यंतरज्योतिष्का निकायास्त्रयस्त्रिंशल्लोकपालनामपुण्यकर्म विशेषास्त्रायस्त्रिंशलोकपालदेव विशेषकल्पनाहेतुरस्ति यतस्तयोस्त्रायस्त्रिंशलोकपालाश्च स्युरिति तद्वर्ज्यास्ते देवाः तदतिशयविशेषस्य प्रतीतिहेतोर्निकायांतरवत्तत्रासंभवात् ॥ पूर्वयोन्द्राः ॥ ६ ॥ भवनवासिव्यंतरनिकाययोः पूर्वयोर्देवा द्वींद्रा न पुनरेकेंद्रा निकायांतरवदिति प्रतिपत्त्यर्थमिदं सूत्रं । पूर्वयोरिति वचनं प्रथमद्वितीयनिकाय प्रतिपत्त्यर्थे, तृतीयापेक्षया द्वितीयस्य पूर्वत्वोपपत्तेः द्विवचनसामर्थ्याच्चतुर्थापेक्षया तृतीयस्य पूर्वत्वेप्यग्रहणादप्रत्यासत्तेः । द्वौ द्वौ इंद्रौ येषां ते द्वींद्रा इत्यंतनतवीसार्थो निर्देशः । द्विपदिका त्रिपदिकेति यथा वीप्सायां वुनो विधानादिह वीप्सागतिर्युक्ता न प्रकृतेः किंचिद्विधानमस्ति । तर्हि सप्तपर्णादिवद्भविष्यति वीप्साविधानाभावेपि वीप्सा संप्रत्ययः । पूर्वयोर्निकाययो द्वाविंद्र देवानामिति निकायनिकायिभेदविवक्षावशादाधाराधेयभावो विभाव्यते ॥ द्राः निकाययोर्देवाः पूर्वयोरिति निश्चयात् । तत्रैकस्य प्रभोर्भावो नेति ते स्तोकपुण्यकाः ॥१॥ भवनवासिनिकाये असुराणां द्वाविंद्रौ चमरवैरोचनौ, नागकुमाराणां धरणभूतानंदौ, विद्युत्कुमाराणां हरिसिंहहरिकांतौ, सुपर्णकुमाराणां वेणुदेववेणुधारिणौ, अग्निकुमाराणां अग्निशिखामिमाणवौ, वातकुमाराणां वैलंबनप्रभंजन, स्तनितकुमाराणां सुघोषमहाघोषौ, उदधिकुमाराणां जलकांतजलप्रभौ, द्वीपकुमाराणां पूर्णवशिष्टौ दिक्कुमाराणां अमितगत्यमितवाहनौ । तथा व्यंतरनिकाये किन्नराणां किन्नरकिंपुरुषौ, किंपुरुषाणां सत्पुरुष महापुरुषौ, महोरगाणामतिकायमहाकायौ, गंधर्वाणां गीत रतिगीतयशसौ, यक्षाणां पूर्णभद्रमाणिभद्रौ, राक्षसानां भीममहाभीमौ, पिशाचानां कालमहाकालौ, भूतानां प्रतिरूपाप्रतिरूपौ । एवमेतेषामेकैकस्य प्रभोरभावात्ते स्तोकपुण्याः प्रभवो निश्चीयते ॥ कायप्रवीचारा आ ऐशानात् ॥ ७ ॥ प्रतिपूर्वाच्चरेः संज्ञायां घणु तु प्रवीचरणं प्रवीचारो मैथुनोपसेवनं । काये प्रवीचारो येषां ते कायप्रवीचाराः । असंहितानिर्देशोऽसंदेहार्थः । ऐशानादित्युच्यमाने हि संदेहः स्यात् किमादंतर्भूत उत Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522