Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 373
________________ ३६४ तत्त्वार्थश्लोकवार्तिके [ सू० ४० भावनियमस्यानुपपत्तेः तेषां सहकारिणां सिसृक्षामुत्पादयतां सिसृक्षांतरादुत्पत्तौ स्थावरादिवत् कदाचिदनुत्पत्तिप्रसंगस्तस्य कदाचिदसंनिधानात्तदंत्यकारणसंनिधानानंतरमेव सिसृक्षांतरस्योत्पत्तिनियमात् । तदप्रसंगे तत्कारणप्रभवत्वप्रसंगस्तद्रनंतरभावनियमस्यान्यथानुपपत्तेः इत्यादि पुनरावर्तत इति चक्रकमेतत् । सिसृक्षांतरेणाप्रेरितानामेव सहकारिणामुत्पत्तेरेव हेतूनामनेकांतिकत्वं सहकारिणां सिसृक्षया सह नियमेनोत्पत्तेः । स्थावरादीनां सकलकारणानां कदाचिदनुपपत्तेः । प्रसंगाभावे सिसृक्षाया सहकारिणां च . क्षित्यादीनामेकं कारणमनुपपद्येत अन्यथा सहभावनियमायोगात् । तचैकं कारणं यदि सिसृक्षांतरेणाप्रेरितं तजनकं तेनैव हेतुव्यभिचारस्तेन प्रेरितस्य तज्जनकत्वे कदाचित्तजननप्रसंगः । पूर्ववत्तस्यापि प्रेर्येण सह नियमेनोत्पत्तौ तयोरप्येकं कारणं स्यात् । तच्चैकं कारणं यदि सिसृक्षांतरेणाप्रेरितं तजनक तेनैव हेतुव्यभिचार इत्यादि पुनरावर्तत इति चक्रकमपरं । क्षित्यादिभिः प्रागनंतरं नियमोत्पत्तौ सिसृक्षायाः सहकारिहेतुभिरेकसामग्र्यधीनता स्यादन्यथा प्रागनंतरं नियमोत्पत्त्ययोगात् । सा चैका सामग्री यदि सिसृक्षांतरेणाप्रेरिता तज्जनिका तदा तयैव हेतुव्यभिचारः । यदि पुनः प्रेरिता सा तज्जनिका तदा प्रेर्यात्प्रागनंतरं नियमेनोत्पत्त्या तस्या भवितव्यमन्यथोक्तदोषानुषंगात् । तथा च सिसृक्षांतरं प्रेर्यासामग्र्यविशेषात्प्रागनंतरं नियमेनोत्पद्यमानं तद्धेतुभिरेकसामग्र्यधीनं स्यात् । सा चैका सामग्री यदि सिसृक्षांतरेणाप्रेरिता तजनिका तदा तयैव हेतुव्यभिचार इत्यादि पुनरावर्तत इत्यन्यच्चक्रकं । तदेतद्दूषणं परिहर्तुकामेन क्षित्यादिभ्योनंतरं प्राक् सद्वा तैः सिसृक्षोत्पत्तिनियमतो नाभ्युपगंतव्या । तथा च तद्व्यतिरेकानुविधानमुपलभ्येत न चोपलभ्यते, क्षित्युदकबीजादिकारणसामग्रीसन्निधाने प्रतिबंधे वा सति स्थावरादिकार्यस्यावश्यं भावदर्शनादिति । तदेतदयुक्तं, स्थावरादीनामदृष्टादिहेतुत्वेप्येतद्दोषप्रसंगात् खसिद्धांतविरोधात् । यदि पुनरदृष्टक्षित्यादिकारणसाकल्येपि स्थावरादीनां परिणामवैचित्र्याददृष्टादिसिद्धिः चक्षुरादिकारणसाकल्येपि रूपादिज्ञानपरिणामवैचित्र्यादिनियतशक्तिवदिति मतं, तदेश्वरसिसृक्षासिद्धिरपि तत एवास्तु तस्यास्तत्सिद्ध्या विरोधाभावादित्यपरे । तेत्र प्रष्टव्याः । स्थावराद्युत्पत्तौ निमित्तभावमनुभवंती महेश्वरस्य सिसृक्षा यदि पूर्वसिसृक्षातो भवति सापि तत्पूर्वसिसृक्षातस्तदा सोत्तरां सिसृक्षां प्रादुर्भावयति वा नवा ? न तावदुत्तरः पक्षस्तदनंतरस्थावरादिभ्य उत्तरोत्तरस्थावराद्यनुत्पत्तिप्रसंगात् । तत एव तदुत्पत्तौ व्यर्थानादिसिसृक्षापरंपरापरिकल्पना, कथंचिदेकयैवाशेषपरापरस्थावरादिकार्याणामुत्पादयितुं शक्यत्वात् पूर्वसिसृक्षया अप्युत्तरोत्तरसिसृक्षां प्रत्यव्यापारात् । यदि पुनराद्यः पक्षीक्रियते तदा चोत्तरसिसृक्षायामेव प्रकृतसिसृक्षाया व्यापारात् ततः स्थावरादिकार्योत्पत्तिर्न भवेत् । एतेन पूर्वपूर्वसिसृक्षाया अप्युत्तरोत्तरसिसृक्षायामेव व्यावृत्तेः पूर्वमपि स्थावराद्युत्पत्त्यभावः प्रतिपादितः । यदि पुनरियं सिसृक्षांतरोत्पत्तौ स्थावरादिकार्योत्पत्तौ च व्याप्रियेत पूर्वा पूर्वा च सिसृक्षा परां परां च सिसृक्षां तत्सहभाविस्थावरादींश्च प्रति व्याप्रियमाणाभ्युपेयेत, तदैकैव सिसृक्षा सकलोत्पत्तिमतामुत्पत्तौ व्यापारवती प्रतिपत्तव्या । तथा च सकृत्सर्वकार्योत्पत्तेः कुतः पुनः कार्यक्रमभावप्रतीतिः ? स्यान्मतं, क्रमशः स्थावरादिकार्याणां देशादिनियतखभावानामुभयवादिप्रसिद्धत्वात् तन्निमित्तभावमात्मसात्कुर्वाणा महेश्वरसिसृक्षाः क्रमभाविन्य एवानुमीयंते कार्यविशेषानुमेयत्वात् कारणविशेषव्यवस्थितेरिति । तर्हि सिसृक्षांतरोत्पत्तावन्याः सिसृक्षाः स्थावरादिकार्योत्पत्तौ वापरास्तावंत्यो अभ्युपगंतव्याः कार्यविशेषात्कारण विशेषव्यवस्थितेरन्यथानुपपत्तेः । नानाशक्तिरेकैव सिसृक्षायां तन्निमित्तमितिचेत् , तर्हि सकलक्रमभावीतरकार्यकारणपटुरनेकशक्तिरेकैव महेश्वरसिसृक्षास्तु । सा च यदि सिसृक्षांतरनिरपेक्षोत्पद्यते तदा स्थावरादिकार्याण्यपि तन्निरपेक्षाणि भवंतु किमीश्वरसिमक्षया ? सिसृक्षांतरात्तदुत्पत्तौ तत एव सकलक्रमभावीतरस्थावरादि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522