Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 369
________________ ३६० तत्त्वार्थ श्लोकवार्तिके [ सू० ४० न च द्वीपसमुद्रादिविशेषाणां प्ररूपणं । निःप्रयोजनमाशंक्यं मनुष्याधारनिश्चयात् ॥ ४ ॥ कानि पुनर्निमित्तानि तवीपसमुद्रविशेषेषूत्पद्यमानानां मनुष्याणामित्याह;-- नानाक्षेत्रविपाकीनि कर्माण्युत्पत्तिहेतवः । संत्येव तद्विशेषेषु पुद्गलादिविपाकवत् ॥ ५॥ यथा पुद्गलेषु शरीरादिलक्षणेषु विवेचनशीलानि पुद्गलविपाकीनि कर्माणि शरीरनामादीनि यथा च भवविपाकीनि नारकायुरादीनि जीवविपाकीनि च सद्वद्यादीनि तथा तत्रोत्पत्तौ मनुष्याणामन्येषां च प्राणिनां हेतवः संति तद्वन्नानाक्षेत्रेषु विवेचनशीलानि क्षेत्रविपाकीन्यपि कर्माणि संति तत्र तत्रोत्पत्तौ तेषां हेतव इति तदाधारविशेषाः सर्वे निरूपणीया एव ॥ तदप्ररूपणे जीवतत्त्वं न स्यात् प्ररूपितं । विशेषेणेति तज्ज्ञानश्रद्धाने न प्रसिद्ध्यतः ॥६॥ तन्निबंधनमक्षुण्णं चारित्रं च तथा क नु । मुक्तिमार्गोपदेशो नो शेषतत्त्वविशेषवाक् ॥ ७॥ तेषां हि द्वीपसमुद्रविशेषाणामप्ररूपणे मनुष्याधाराणां नारकतिर्यग्देवाधाराणामप्यप्ररूपणप्रसंगान्न विशेषेण जीवतत्त्वं निरूपितं स्यात् , तन्निरूपणाभावे च न तद्विज्ञानं श्रद्धानं च सिद्ध्येत् , तदसिद्धौ श्रद्धानज्ञाननिबंधनमक्षुण्णं चारित्रं च क नु संभाव्यते ? मुक्तिमार्गश्च कैवं ? शेषाजीवादितत्त्ववचनं च नैवं स्यात् । ततो मुक्तिमार्गोपदेशमिच्छता सम्यग्दर्शनज्ञानचारित्राण्यभ्युपगंतव्यानि । तदन्यतमापाये मुक्तिमार्गानुपपत्तेः, तानि चाभ्युपगच्छता तद्विषयभावमनुभवत् जीवतत्त्वमजीवादितत्त्ववत् प्रतिपत्तव्यं । तत्प्रतिपद्यमाने च तद्विशेषा आधारादयः प्रतिपत्तव्याः । इति युक्तं द्वीपसमुद्रादिसन्निवेशादिविशेषमरूपणमध्यायेऽस्मिन् ॥ अत्रापरः प्राह; ननु द्वीपादयो धीमद्धेतुकाः संतु मूत्रिताः । सन्निवेशविशेषत्वसिद्धेर्घटवदित्यसत् ॥ ८ ॥ हेतोरीश्वरदेहेनानेकांतादिति केचन । तत्रापरे तु मन्यते निर्देहेश्वरवादिनः ॥९॥ निमित्तकारणं तेषां नेश्वरस्तत्र सिद्ध्यति । निर्देहत्वाद्यथा मुक्तः पुरुषः सम्मतः स्वयं ॥१०॥ विवादाध्यासिता द्वीपादयो बुद्धिमत्कारणकाः सन्निवेशविशेषत्वात् घटवदिति कश्चित् । तदसत् । हेतोरीश्वरशरीरेण विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । संबाहुभ्यां धमति संपतत्रैवाभूमी जनयन् देव एक इत्यागमप्रसिद्धेनानेकांतादिति । अपरे नेश्वरस्य शरीरमस्ति हेतोर्व्यभिचारश्चोद्यत इति मन्यते तेषां "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महांत" इत्यागमं प्रमाणयतां नेश्वरस्तत्र निमित्तकारणं सिद्ध्यति निर्देहत्वात् स्वयं संमतमुक्तात्मवत् । ननु च मुक्तात्मनामज्ञत्वान्न जगदुत्पत्तौ निमित्तत्वं ईश्वरस्य तु निर्देहस्यापि नित्यज्ञानत्वात्तु निमित्तकारणत्वमेवेति चेत्नित्यज्ञानत्वतो हेतुरीश्वरो जगतामिति । न युक्तमन्वयासत्त्वाद्व्यतिरेकाप्रसिद्धितः ॥ ११ ॥ ननु नित्यज्ञानत्वादित्येतस्य हेतोरन्वयसत्त्वेपि न व्यतिरेकसत्त्वं जगदकारणस्यास्मदादेर्नित्यज्ञानत्वाभावादिति न मंतव्यं, ज्ञानसंतानापेक्षयास्मदादेरपि नित्यज्ञानत्वात् । न हि ज्ञानसामान्यरहितोमदादिः संभवति, विरोधात् । यदि पुनर्ज्ञानविशेषापेक्षया नित्यज्ञानत्वं हेतुस्तदा न सिद्ध इत्याह ; बोधोन वेधसो नित्यो बोधत्वादन्यबोधवत् । इति हेतोरसिद्धत्वान वेधाः कारणं भुवः ॥ १२ ॥ बोधत्वं च स्यादीश्वरबोधस्य नित्यत्वं च स्याद्विरोधाभावादस्मादृशविशेषत्वादीश्वरस्य विशिष्टबोधोपपत्तेः अन्यथा सर्वज्ञत्वसिद्धिविरोधात् इति कश्चित् । सोप्ययुक्तवादी, तद्बोधस्य प्रमाणत्वे ततोऽपरस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522