Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

View full book text
Previous | Next

Page 363
________________ ३५४ तत्त्वार्थश्लोकवार्तिके [सू० २९ अथ गंगादयः प्रोक्ताः सरितः क्षेत्रमध्यगाः । पूर्वापरसमुद्रांतःप्रवेशिन्यो यथागमं ॥१॥ परिवारनदीसंख्याविशेषसहिताः पृथक् चतुर्दश चतुःसूत्र्या नासंभाव्या कथंचन संभाव्यं । तत एव हि गंगासिंध्वादयो महानद्यो यथागममायामविष्कंभावगाहैरपरैश्च विशेषैस्तदधिकरणस्य महत्वादिहास्ति कासांचिन्नदीनां सरय्वादीनां महाविस्ताराणामुपलंभात् कस्यचिद्वाधकस्यासंभवात् ॥ अथ कियद्विष्कंभो भरतो वर्ष इत्याह;भरतः षड्विंशतिपंचयोजनशतविस्तारः षट् चैकोनविंशतिभागा योजनस्य ॥ २५ ॥ भरतविष्कंभस्योत्तरत्र वचनादिहावचनमिति चेन्न, जंबूद्वीपनवतिशतभागस्येयत्ताप्रतिपादनार्थत्वादेतत्सूत्रस्य तत्संख्यानयनोपायप्रतिपत्त्यर्थत्वात् ॥ अतोन्ये वर्षधरादयः किंविस्तारा इत्याह; तद्विगुणदिगुणविस्तारा वर्षधरवर्षा विदेहांताः॥ २६ ॥ वर्षधरशब्दस्य पूर्वनिपातस्तदानुपूर्व्यप्रतिपत्त्यर्थः वर्णानामानुपूर्येण इति निरुक्तिकारवचनस्यास्य मानाक्षुराणामन्येषामपि यथाभिधानमानानुपूर्येण पूर्वनिपातप्रतिपादनार्थत्वात् तथा प्रायः प्रयोगदर्शनात् । विदेहांतवचनं मर्यादाथै तेन भरतविष्कंभाविगुणविष्कंभो हिमवान् वर्षधरः, ततो हैमवतो वर्षः, ततो महाहिमवान् वर्षधरः, ततो हरिवर्षः, ततो निषधो वर्षधरस्ततोऽपि विदेहो वर्ष इत्युक्तं भवति ॥ परे वर्षधरादयः किंविस्तारा इत्याह; उत्तरा दक्षिणतुल्याः ॥ २७॥ निषधेन तुल्यो नीलो वर्षधरः, हरिणा रम्यको वर्षः, महाहिमवता रुक्मीवर्षधरः, हैमवतेन हैरण्यवतो वर्षः, हिमवता शिखरी वर्षधरः, भरतेन दक्षिणेनोत्तर ऐरावत इति योज्यं ॥ अथ भरतैरावतयोरनवस्थितत्वप्रतिपत्त्यर्थमाह;भरतैरावतयोवृद्धिहासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥ २८ ॥ तास्थ्यात्तच्छब्दासिद्धर्भरतैरावतयोवृद्धिहासयोगः अधिकरणनिर्देशो वा, तत्रस्थानां हि मनुष्यादीनामनुभवायुःप्रमाणादिकृतौ वृद्धिहासौ षट्कालाभ्यामुत्सर्पिण्यवसर्पिणीभ्यां । तत्रानुभवादिभिरुत्सर्पणशीला उत्सर्पिणी तैरेवावसर्पणशीलावसर्पिणी । षटालाः पुनरुत्सर्पिण्यां दुःषमदुःषमादयोऽवसर्पिण्यां सुषमसुषमादयः प्रतिपत्तव्याः ॥ अथ भरतैरावताभ्यामपरा भूमयोवस्थिता एवेत्यावेदयति;-. ताभ्यामपरा भूमयोऽवस्थिताः ॥ २९ ॥ तत्स्थप्राणिनामनुभवादिभिर्वृद्धिहासाभावात् षट्समययोरुत्सपिण्यवसर्पिण्योरसंभवादेकैककालत्वादवस्थिता एव ताभ्यामपरा भूमयोऽवगंतव्याः । तदेवं वर्षवर्षधरावाध्यविष्कंभकथनं कृतं । सूत्रत्रयेण भूमीनां स्थितिभेदोदयेन तु ॥१॥ न हि भरतादिवर्षाणां हिमवदादिवर्षधराणां च सूत्रत्रयेण विष्कंभस्य कथनं बाध्यते प्रत्यक्षानुमा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522