Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 15
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 दिव्याभरणयुतं यान्तं राजा ददर्श, तं दृष्ट्वा नृपोऽपि तत्पृष्ठे धावित: । ततो यथा यथा नृपस्य नौस्तत्पृष्ठे समायाति तथा तथा स पुरुष: शीघ्रमग्रतो याति, तस्य पुरुषस्य च जलोपरि केवलं मस्तकमेव राजा विलोकयति । अथ राजा मनसि विस्मित: सन् विचारयामास यन्नूनमयं कोऽपि दिव्यानुभाव: संभाव्यते । अथ कियदूरं गत्वा तन्मस्तकं जलोपरि स्थिरं जातं, तदा राज्ञा द्रुतमेव तत्पश्चाद्गत्वा तन्मस्तके वेणिदंडं धृतं, यावच्च स तदुच्चैराकर्षति तावत्केवलं मस्तकमेव तद्धस्ते समागतं । ततो राजा ख्रिन्न: सन् यावत्पुनर्नदीमध्ये विलोकयति तावत्तथैव समस्तकं तमेव पुरुषं नदीप्रवाहमध्ये यान्तं पश्यति । तदा विस्मितेन राज्ञा चिन्तितं नूनमियं कापि दैवी शक्तिरस्ति । अथ राज्ञा तन्मस्तकं प्रति पृष्टं त्वं कोऽसि ? तेनोक्तमहं देवोऽस्मीत्युक्त्वा तेन पुनर्नृपः पृष्टस्त्वं कोऽसि ? नृपेणोक्तमहं राजास्मि, तदा शीर्षं प्राह यदि त्वं राजासि तर्हि विनाऽन्यायं चौरवद्वेणिदंडे त्वयाहं कस्माद्धृत: ? राजा तु सर्वेषां शरणं स्यात्, उक्तं च-दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । परैस्तु परिभूतानां, सर्वेषां पार्थिवो गतिः ॥३॥ पञ्चमो लोकपालोऽसि, कृपाल: पृथिवीपते । पराभवसि चेत्त्वं मा-मन्याय: कस्य कथ्यते ॥४॥ X2828282828282828282828 २ ॥ ॥ Jain Educati For Personal Private Use Only Www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124