Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 111
________________ कूर्मापुत्र ।। ९८ ।। Jain Educat AGAGAGAGAGRERERERERERERE च देवीं तुतोष । साऽपि तुष्टा सती भो भद्र ! कस्मान्मामाराधयसीति बभाषे । वणिगाहभो मातश्चिन्तामणिरत्नप्राप्त्यर्थं । देव्युवाच - भद्र ! न ते तथाविधं भाग्यं, सर्वे जना भाग्यानुसारेण प्राप्नुवन्ति न तस्य [तस्मिन् ] देवा अन्ये वा पक्षपातं कुर्वन्ति । वणिग्वदति - यदि मम न तथाविधं दैवमभवत्तदाहमत्रागत्य त्वां कथमुपासयेयम्, यदि च मयोपासनाऽकारि । तत्फलं चिन्तामणिरत्नमवश्यं त्वया देयमिति हठाद्विज्ञप्ता सा तद्दत्वाऽन्तर्दधे । सोऽपि तल्लात्वा नौकायामारुह्य मध्ये समुद्रं यावता गच्छति, तावता राकापूर्णचन्द्रोदय: समजनि । तद्दृष्ट्वा मणिचन्द्रयोर्मध्ये कस्याधिकतरं तेज इति जिज्ञासुना तेन तन्मणिरत्नं हस्ते धृत्वोपदृष्टं, तयोस्तेजोनिकरं वारं वारं पश्यतस्तस्य कराभ्रष्टं तन्मणिरत्नं समुद्रे पतितं, तदा तेनातिशोकाकुलेन समुद्रे पतित्वा गवेषितमपि हस्तलग्नं नाभवत् । अथ कदाचिदपि स दुर्भागी पुनस्तन्मणिरत्नं प्राप्नुयात् ? नैव प्राप्नुयादिति निष्कर्ष:, तथैव शतशो भवभ्रमणं कृत्वा महाप्रयललब्धं मनुष्यत्वं लब्ध्वापि प्रमादवशगो जीवः क्षणाद्विनाशयति, तस्य पुनः कदाचिदपि प्राप्तिर्न सुलभा । किन्तु नृभवं प्राप्य ये जिनधर्ममाराधयन्ति त एव धन्यास्त एव गुणवन्तस्तेषामेव मनुष्यत्वं सफलम्, For Personal & Private Use Only GRERERERERERERERERERERY! कूर्मापुत्र चरित्रं ।। ९८ ।। wjainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124