Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
कूर्मापुत्रचरित्रं
॥ १०० ॥
Jain Educati
ERERERERERERERERERERERE:
दम्पत्योस्तयो रतिकामयोरिव रतिसुखं भुञ्जानयोः सुखेन कालो निगर्च्छति । एकदा सा निद्रानिमीलितनयना स्वप्नेऽत्याश्चर्यकरं मनोहरं देवविमानं दृष्टवती । प्रातरुत्थाय सा स्वामिनेऽकथयद्यन्मया देवभवनं दृष्टमिति । तच्छ्रुत्वा हर्षितो राजा यथामति तत्फलमकथयत् । भो राज्ञि ! सुस्वप्नेनैतेन त्वमितः सप्तदिनाधिके नवमे मासि सम्पूर्णे जननेत्रानन्दकरं सर्वलक्षणोपेतं पुत्रं जनयिष्यसि । साऽपि स्वामिवचनं श्रुत्वा जातहर्षोल्लासा स्वावासमलञ्चकार । तदनन्तरं पुण्यशालिनो दुर्लभकुमारस्य जीवो देवायुः क्षपयित्वा तस्या उदरे प्रविष्टः । रत्नै रत्नाकर इव, दुर्लभाशापन्नसत्वा सा पुण्यप्रभाविगर्भप्रभावाच्छास्त्रश्रवणरूपं दोहदमाचकाङ्क्षे । राजाऽपि तन्मनोरथपूत्यर्थं नगरात् षड्दर्शनज्ञानिनः पण्डितानाकारयामास । तेऽपि राजाज्ञया जातोल्लासा: स्नानादिकं विधाय करधृतपुस्तका राजसभायामागत्य दत्ताशीर्वादा योग्यासनमुपविश्य धर्मं वर्णयामासुः । तत्र कुत्रचिद्धिंसादिकं श्रुत्वा जिनधर्मलीना सा प्रत्युत खेदमुपगतवती । यत उक्तञ्च, यथा-विविधप्रकारं दानं वेदाभ्यासः सततं मौनं देवताध्यानं सर्वमेतद्दयाधर्मं विना निष्फलम् । इति ध्यात्वा दयाधर्मप्रपालकान् जिनागममर्मज्ञान् पंडितानाचार्यानाकार्य शुद्धधर्मं पप्रच्छ । तेऽप्याचार्यवर्या
For Personal & Private Use Only
REDEREREREREREDERERERERY
कूर्मात्र
चरित्रं
॥ १०० ॥
jainelibrary.org
Loading... Page Navigation 1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124