Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 122
________________ कूर्मापुत्रचरित्रं कूर्मापुत्र चरित्रं 8888888888888888888888888 अत्राहमेव निदर्शनम् । एवं धर्मोपदेशं श्रुत्वा तन्मातापितरावपि तत्त्वं बुद्ध्वा चारित्रमङ्गीकृतवन्तौ तथैव श्रेष्ठसत्त्वेन तच्चारित्रं पालयित्वान्त उत्तमगतिमीयतुः । अन्येऽपि भव्या केवलिवचांसि श्रुत्वा प्रतिबुद्धाः । तेषु केचित् सम्यक्त्वम्, केचिच्चारित्रङ्केचिद्देशविरतिमङ्गीचक्रुः । एवमनेकान् भव्यान् प्रतिबोध्ययित्वा चिरकालानन्तरं सोऽपि मोक्षं जगाम । ये भव्या वैराग्यजनकमिदं कूर्मापुत्रचरित्रं शृण्वन्ति ते निष्पापा: सन्तोऽनन्तस्य मोक्षसुखस्य पात्राणि भवन्तीति-शम् जिनशासनभासन- भास्कराचार्यवर्यश्रीहेमविमलसूरीश्वरविनेयरत्नश्रीजिनमाणिक्यशिष्यराजेन विरचितप्राकृतकूर्मापुत्र- चरित्रानुसारेणसंस्कृतगद्यबद्धे कूर्मापुत्रचरित्रेऽनाभोगेन यत्किञ्चिज्जिनाज्ञाविरुद्धं स्यात् तद्विद्वज्जना मयि कृपां विधाय शोधनीयमिति विज्ञपयामि ।। ॥ समाप्तमिदं कूर्मापुत्रचरित्रम् ॥ AYYYYYYYYYYYS ॥ १०९ ॥ ॥ १०९ ॥ Jain Educati For Personal & Private Use Only Mw.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124