Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 121
________________ कूर्मापुत्रचरित्रं ॥ १०८ ॥ Jain Educat RRRRREREDERERERERER KI प्रकृतीरन्तरायकर्मणोऽपि पञ्च प्रकृतीरिति चतुर्दश प्रकृतीः क्षपयित्वा केवली भवति । इत्थन्ते चत्वारोऽपि मुनयः क्षपणक श्रेणि लब्ध्वा केवलिनोऽभूवन् । अनन्तरं जिनेश्वरस्य पार्श्वे गत्वा पर्षद्युपाविशन् । तदा तत्रस्थितेनेन्द्रेणे जगदुत्तमाख्यो जिनेश्वरः पृष्टः । भगवन्नेतैर्मुनिभिर्यूयं कथं न वन्दिताः । प्रभुणाऽकथि - एतैर्मुनिभिः कूर्मापुत्रसकाशात् केवलज्ञानं लब्धमिति हेतोर्न वन्दयामासुः । पुनरपीन्द्रः पप्रच्छ, भगवन् ! स कूर्मापुत्रः कदा दीक्षितो भविष्यति । भगवानाह अद्यतनाद्दिवसात् सप्तमे दिवसे तृतीयप्रहरे स चारित्रं गृहीष्यति । इत्युक्त्वाऽखिलसभ्यानां संशयान् छिन्दन् जगदुत्तमजिनेश्वरो विरराम । तदनन्तरं सूर्य इव जनानां मोहान्धकारं विदलयन् अस्मिन्भूतले विचचार । तदनन्तरं सप्तमदिने महासत्त्ववान् कूर्मापुत्रः गृहस्थवेषं त्यक्त्वा मुनिवेषमङ्गीकृतवान्, ततो निर्लेपचित्तेन तेन सुवर्णकमल उपविश्य भव्यप्रतिबोधायोपदेशो दत्तः । यथा भव्य ! धर्मस्य दानं तपः शीलं भावश्चेति चत्वारो भेदाः सन्ति, तेष्वशुभकर्मरोगनिवारणपटुर्भावधर्म एव प्रधानः । तथा सर्वेषु दानेष्वभयदानं सर्वेषु ज्ञानेषु केवलज्ञानं, सर्वेषु ध्यानेषु शुक्लध्यानं, तथैव सर्वेषु धर्मेषु भावधर्मो विशिष्यते, यतो गृहवासस्थिता अपि भव्याः शुभभावनया केवलज्ञानं लभन्ते । १. स्वयं कृतकृत्यत्वाद् तत्र गमनासंभवः केवलीनां, ततः संभाव्यते देवैः सबहुमानपूर्वकं प्रनीताः । For Personal & Private Use Only RERERERERERERERERERERERE! कूर्मापुत्र चरित्रं ॥ १०८ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124